भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.081

6.081.001

स प्रविश्य सभां राजा दीनः परमदुःखितः
निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्

6.081.002

अब्रवीच् च तदा सर्वान् बलमुख्यान् महाबलः
रावणः प्राञ्जलीन् वाक्यं पुत्रव्यसनकर्शितः

6.081.003

सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः
निर्यान्तु रथसंघैश् च पादातैश् चोपशोभिताः

6.081.004

एकं रामं परिक्षिप्य समरे हन्तुम् अर्हथ
प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः

6.081.005

अथ वाहं शरैर् तीक्ष्णैर् भिन्नगात्रं महारणे
भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः

6.081.006

इत्य् एवं राक्षसेन्द्रस्य वाक्यम् आदाय राक्षसाः
निर्ययुस् ते रथैः शीघ्रं नागानीकैश् च संवृताः

6.081.007

स संग्रामो महाभीमः सूर्यस्योदयनं प्रति
रक्षसां वानराणां च तुमुलः समपद्यत

6.081.008

ते गदाभिर् विचित्राभिः प्रासैः खड्गैः परश्वधैः
अन्योन्यं समरे जघ्नुस् तदा वानरराक्षसाः

6.081.009

मातंगरथकूलस्य वाजिमत्स्या ध्वजद्रुमाः
शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः

6.081.010

ध्वजवर्मरथान् अश्वान् नानाप्रहरणानि च
आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे

6.081.011

केशान् कर्णललाटांश् च नासिकाश् च प्लवंगमाः
रक्षसां दशनैस् तीक्ष्णैर् नखैश् चापि व्यकर्तयन्

6.081.012

एकैकं राक्षसं संख्ये शतं वानरपुंगवाः
अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा

6.081.013

तथा गदाभिर् गुर्वीभिः प्रासैः खड्गैः परश्वधैः
निर्जघ्नुर् वानरान् घोरान् राक्षसाः पर्वतोपमाः

6.081.014

राक्षसैर् वध्यमानानां वानराणां महाचमूः
शरण्यं शरणं याता रामं दशरथात्मजम्

6.081.015

ततो रामो महातेजा धनुर् आदाय वीर्यवान्
प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह

6.081.016

प्रविष्टं तु तदा रामं मेघाः सूर्यम् इवाम्बरे
नाभिजग्मुर् महाघोरं निर्दहन्तं शराग्निना

6.081.017

कृतान्य् एव सुघोराणि रामेण रजनीचराः
रणे रामस्य ददृशुः कर्माण्य् असुकराणि च

6.081.018

चालयन्तं महानीकं विधमन्तं महारथान्
ददृशुस् ते न वै रामं वातं वनगतं यथा

6.081.019

छिन्नं भिन्नं शरैर् दग्धं प्रभग्नं शस्त्रपीडितम्
बलं रामेण ददृशुर् न रमं शीघ्रकारिणम्

6.081.020

प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्
इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानम् इव प्रजाः

6.081.021

एष हन्ति गजानीकम् एष हन्ति महारथान्
एष हन्ति शरैस् तीक्ष्णैः पदातीन् वाजिभिः सह

6.081.022

इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे
अन्योन्यकुपिता जघ्नुः सादृश्याद् राघवस्य ते

6.081.023

न ते ददृशिरे रामं दहन्तम् अरिवाहिनीम्
मोहिताः परमास्त्रेण गान्धर्वेण महात्मना

6.081.024

ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः
पुनः पश्यन्ति काकुत्स्थम् एकम् एव महाहवे

6.081.025

भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः
अलातचक्रप्रतिमां ददृशुस् ते न राघवम्

6.081.026

शरीरनाभि सत्त्वार्चिः शरीरं नेमिकार्मुकम्
ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्

6.081.027

दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्
ददृशू रामचक्रं तत् कालचक्रम् इव प्रजाः

6.081.028

अनीकं दशसाहस्रं रथानां वातरंहसाम्
अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम्

6.081.029

चतुर्दशसहस्राणि सारोहाणां च वाजिनाम्
पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्

6.081.030

दिवसस्याष्टमे भागे शरैर् अग्निशिखोपमैः
हतान्य् एकेन रामेण रक्षसां कामरूपिणाम्

6.081.031

ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाः
अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः

6.081.032

हतैर् गजपदात्य् अश्वैस् तद् बभूव रणाजिरम्
आक्रीडभूमी रुद्रस्य क्रुद्धस्येव पिनाकिनः

6.081.033

ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः
साधु साध्व् इति रामस्य तत् कर्म समपूजयन्

6.081.034

अब्रवीच् च तदा रामः सुग्रीवं प्रत्यनन्तरम्
एतद् अस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा

6.081.035

निहत्य तां राक्षसवाहिनीं तु रामस् तदा शक्रसमो महात्मा
अस्त्रेषु शस्त्रेषु जितक्लमश् च संस्तूयते देवगणैः प्रहृष्टैः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc