भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.073

6.073.001

अथ तस्याम् अवस्थायां लक्ष्मणं रावणानुजः
परेषाम् अहितं वाक्यम् अर्थसाधकम् अब्रवीत्

6.073.002

अस्यानीकस्य महतो भेदने यतलक्ष्मण
राक्षसेन्द्रसुतो ऽप्य् अत्र भिन्ने दृश्यो भविष्यति

6.073.003

स त्वम् इन्द्राशनिप्रख्यैः शरैर् अवकिरन् परान्
अभिद्रवाशु यावद् वै नैतत् कर्म समाप्यते

6.073.004

जहि वीरदुरात्मानं मायापरम् अधार्मिकम्
रावणिं क्रूरकर्माणं सर्वलोकभयावहम्

6.073.005

विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति

6.073.006

ऋक्षाः शाखामृगाश् चैव द्रुमाद्रिवरयोधिनः
अभ्यधावन्त सहितास् तद् अनीकम् अवस्थितम्

6.073.007

राक्षसाश् च शितैर् बाणैर् असिभिः शक्तितोमरैः
उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः

6.073.008

स संप्रहारस् तुमुलः संजज्ञे कपिरक्षसाम्
शब्देन महता लङ्कां नादयन् वै समन्ततः

6.073.009

शस्त्रैर् बहुविधाकारैः शितैर् बाणैश् च पादपैः
उद्यतैर् गिरिशृङ्गैश् च घोरैर् आकाशम् आवृतम्

6.073.010

ते राक्षसा वानरेषु विकृताननबाहवः
निवेशयन्तः शस्त्राणि चक्रुस् ते सुमहद् भयम्

6.073.011

तथैव सकलैर् वृक्षैर् गिरिशृङ्गैश् च वानराः
अभिजघ्नुर् निजघ्नुश् च समरे राक्षसर्षभान्

6.073.012

ऋक्षवानरमुख्यैश् च महाकायैर् महाबलैः
रक्षसां वध्यमानानां महद् भयम् अजायत

6.073.013

स्वम् अनीकं विषण्णं तु श्रुत्वा शत्रुभिर् अर्दितम्
उदतिष्ठत दुर्धर्षस् तत् कर्मण्य् अननुष्ठिते

6.073.014

वृक्षान्धकारान् निष्क्रम्य जातक्रोधः स रावणिः
आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः

6.073.015

स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः
रक्तास्यनयनः क्रूरो बभौ मृत्युर् इवान्तकः

6.073.016

दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद् बलम्
रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम्

6.073.017

तस्मिन् काले तु हनुमान् उद्यम्य सुदुरासदम्
धरणीधरसंकाशी महावृक्षम् अरिंदमः

6.073.018

स राक्षसानां तत् सैन्यं कालाग्निर् इव निर्दहन्
चकार बहुभिर् वृक्षैर् निःसंज्ञं युधि वानरः

6.073.019

विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्
राक्षसानां सहस्राणि हनूमन्तम् अवाकिरन्

6.073.020

शितशूलधराः शूलैर् असिभिश् चासिपाणयः
शक्तिभिः शक्तिहस्ताश् च पट्टसैः पट्टसायुधाः

6.073.021

परिघैश् च गदाभिश् च कुन्तैश् च शुभदर्शनैः
शतशश् च शतघ्नीभिर् आयसैर् अपि मुद्गरैः

6.073.022

घोरैः परशुभिश् चैव भिण्डिपालैश् च राक्षसाः
मुष्टिभिर् वज्रवेगैश् च तलैर् अशनिसंनिभैः

6.073.023

अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम्
तेषाम् अपि च संक्रुद्धश् चकार कदनं महत्

6.073.024

स ददर्श कपिश्रेष्ठम् अचलोपमम् इन्द्रजित्
सूदयानम् अमित्रघ्नम् अमित्रान् पवनात्मजम्

6.073.025

स सारथिम् उवाचेदं याहि यत्रैष वानरः
क्षयम् एव हि नः कुर्याद् राक्षसानाम् उपेक्षितः

6.073.026

इत्य् उक्तः सारथिस् तेन ययौ यत्र स मारुतिः
वहन् परमदुर्धर्षं स्थितम् इन्द्रजितं रथे

6.073.027

सो ऽभ्युपेत्य शरान् खड्गान् पट्टसासिपरश्वधान्
अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः

6.073.028

तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः
रोषेण महताविषो वाक्यं चेदम् उवाच ह

6.073.029

युध्यस्व यदि शूरो ऽसि रावणात्मज दुर्मते
वायुपुत्रं समासाद्य न जीवन् प्रतियास्यसि

6.073.030

बाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वम् आहवे
वेगं सहस्व दुर्बुद्धे ततस् त्वं रक्षसां वरः

6.073.031

हनूमन्तं जिघांसन्तं समुद्यतशरासनम्
रावणात्मजम् आचष्टे लक्ष्मणाय विभीषणः

6.073.032

यस् तु वासवनिर्जेता रावणस्यात्मसंभवः
स एष रथम् आस्थाय हनूमन्तं जिघांसति

6.073.033

तम् अप्रतिमसंस्थानैः शरैः शत्रुविदारणैः
जीवितान्तकरैर् घोरैः सौमित्रे रावणिं जहि

6.073.034

इत्य् एवम् उक्तस् तु तदा महात्मा विभीषणेनारिविभीषणेन
ददर्श तं पर्वतसंनिकाशं रथस्थितं भीमबलं दुरासदम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc