भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.074

6.074.001

एवम् उक्त्वा तु सौमित्रिं जातहर्षो विभीषणः
धनुष्पाणिनम् आदाय त्वरमाणो जगाम सः

6.074.002

अविदूरं ततो गत्वा प्रविश्य च महद् वनम्
दर्शयाम् आस तत् कर्म लक्ष्मणाय विभीषणः

6.074.003

नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम्
तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत्

6.074.004

इहोपहारं भूतानां बलवान् रावणातजः
उपहृत्य ततः पश्चात् संग्रामम् अभिवर्तते

6.074.005

अदृश्यः सर्वभूतानां ततो भवति राक्षसः
निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः

6.074.006

तम् अप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम्
विध्वंसय शरैस् तीक्ष्णैः सरथं साश्वसारथिम्

6.074.007

तथेत्य् उक्त्वा महातेजाः सौमित्रिर् मित्रनन्दनः
बभूवावस्थितस् तत्र चित्रं विस्फारयन् धनुः

6.074.008

स रथेनाग्निवर्णेन बलवान् रावणात्मजः
इन्द्रजित् कवची खड्गी सध्वजः प्रत्यदृश्यत

6.074.009

तम् उवाच महातेजाः पौलस्त्यम् अपराजितम्
समाह्वये त्वां समरे सम्यग् युद्धं प्रयच्छ मे

6.074.010

एवम् उक्तो महातेजा मनस्वी रावणात्मजः
अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम्

6.074.011

इह त्वं जातसंवृद्धः साक्षाद् भ्राता पितुर् मम
कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस

6.074.012

न ज्ञातित्वं न सौहार्दं न जातिस् तव दुर्मते
प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण

6.074.013

शोच्यस् त्वम् असि दुर्बुद्धे निन्दनीयश् च साधुभिः
यस् त्वं स्वजनम् उत्सृज्य परभृत्यत्वम् आगतः

6.074.014

नैतच् छिथिलया बुद्ध्या त्वं वेत्सि महद् अन्तरम्
क्व च स्वजनसंवासः क्व च नीचपराश्रयः

6.074.015

गुणवान् वा परजनः स्वजनो निर्गुणो ऽपि वा
निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः

6.074.016

निरनुक्रोशता चेयं यादृशी ते निशाचर
स्वजनेन त्वया शक्यं परुषं रावणानुज

6.074.017

इत्य् उक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः
अजानन्न् इव मच्छीलं किं राक्षस विकत्थसे

6.074.018

राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात्
कुले यद्य् अप्य् अहं जातो रक्षसां क्रूरकर्मणाम्
गुणो ऽयं प्रथमो नॄणां तन् मे शीलम् अराक्षसं

6.074.019

न रमे दारुणेनाहं न चाधर्मेण वै रमे
भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते

6.074.020

परस्वानां च हरणं परदाराभिमर्शनम्
सुहृदाम् अतिशङ्कां च त्रयो दोषाः क्षयावहाः

6.074.021

महर्षीणां वधो घोरः सर्वदेवैश् च विग्रहः
अभिमानश् च कोपश् च वैरित्वं प्रतिकूलता

6.074.022

एते दोषा मम भ्रातुर् जीवितैश्वर्यनाशनाः
गुणान् प्रच्छादयाम् आसुः पर्वतान् इव तोयदाः

6.074.023

दोषैर् एतैः परित्यक्तो मया भ्राता पिता तव
नेयम् अस्ति पुरी लङ्का न च त्वं न च ते पिता

6.074.024

अतिमानी च बालश् च दुर्विनीतश् च राक्षस
बद्धस् त्वं कालपाशेन ब्रूहि मां यद् यद् इच्छसि

6.074.025

अद्य ते व्यसनं प्राप्तं किम् इह त्वं तु वक्ष्यसि
प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम

6.074.026

धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया
युध्यस्व नरदेवेन लक्ष्मणेन रणे सह
हतस् त्वं देवता कार्यं करिष्यसि यमक्षये

6.074.027

निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम्
न लक्ष्मणस्यैत्य हि बाणगोचरं त्वम् अद्य जीवन् सबलो गमिष्यसि

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc