भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.072

6.072.001

तस्य तद् वचनं श्रुत्वा राघवः शोककर्शितः
नोपधारयते व्यक्तं यद् उक्तं तेन रक्षसा

6.072.002

ततो धैर्यम् अवष्टभ्य रामः परपुरंजयः
विभीषणम् उपासीनम् उवाच कपिसंनिधौ

6.072.003

नैरृताधिपते वाक्यं यद् उक्तं ते विभीषण
भूयस् तच् छ्रोतुम् इच्छामि ब्रूहि यत् ते विवक्षितम्

6.072.004

राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः
यत् तत् पुनर् इदं वाक्यं बभाषे स विभीषणः

6.072.005

यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्
तत् तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम्

6.072.006

तान्य् अनीकानि सर्वाणि विभक्तानि समन्ततः
विन्यस्ता यूथपाश् चैव यथान्यायं विभागशः

6.072.007

भूयस् तु मम विजाप्यं तच् छृणुष्व महायशः
त्वय्य् अकारणसंतप्ते संतप्तहृदया वयम्

6.072.008

त्यज राजन्न् इमं शोकं मिथ्या संतापम् आगतम्
तद् इयं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी

6.072.009

उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम्
प्राप्तव्या यदि ते सीता हन्तव्यश् च निशाचराः

6.072.010

रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः
साध्व् अयं यातु सौमित्रिर् बलेन महता वृतः
निकुम्भिलायां संप्राप्य हन्तुं रावणिम् आहवे

6.072.011

धनुर्मण्डलनिर्मुक्तैर् आशीविषविषोपमैः
शरैर् हन्तुं महेष्वासो रावणिं समितिंजयः

6.072.012

तेन वीरेण तपसा वरदानात् स्वयम्भुतः
अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश् च तुरंगमाः

6.072.013

निकुम्भिलाम् असंप्राप्तम् अहुताग्निं च यो रिपुः
त्वाम् आततायिनं हन्याद् इन्द्रशत्रो स ते वधः
इत्य् एवं विहितो राजन् वधस् तस्यैव धीमतः

6.072.014

वधायेन्द्रजितो राम तं दिशस्व महाबलम्
हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम्

6.072.015

विभीषणवचः श्रुत्व रामो वाक्यम् अथाब्रवीत्
जानामि तस्य रौद्रस्य मायां सत्यपराक्रम

6.072.016

स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः
करोत्य् असंज्ञान् संग्रामे देवान् सवरुणान् अपि

6.072.017

तस्यान्तरिक्षे चरतो रथस्थस्य महायशः
न गतिर् ज्ञायते वीरसूर्यस्येवाभ्रसंप्लवे

6.072.018

राघवस् तु रिपोर् ज्ञात्वा मायावीर्यं दुरात्मनः
लक्ष्मणं कीर्तिसंपन्नम् इदं वचनम् अब्रवीत्

6.072.019

यद् वानरेन्द्रस्य बलं तेन सर्वेण संवृतः
हनूमत्प्रमुखैश् चैव यूथपैः सहलक्ष्मण

6.072.020

जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः
जहि तं राक्षससुतं मायाबलविशारदम्

6.072.021

अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः
अभिज्ञस् तस्य देशस्य पृष्ठतो ऽनुगमिष्यति

6.072.022

राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः
जग्राह कार्मुकं श्रेष्ठम् अन्यद् भीमपराक्रमः

6.072.023

संनद्धः कवची खड्गी स शरी हेमचापधृक्
रामपादाव् उपस्पृश्य हृष्टः सौमित्रिर् अब्रवीत्

6.072.024

अद्य मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम्
लङ्काम् अभिपतिष्यन्ति हंसाः पुष्करिणीम् इव

6.072.025

अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः
विधमिष्यन्ति हत्वा तं महाचापगुणच्युताः

6.072.026

स एवम् उक्त्वा द्युतिमान् वचनं भ्रातुर् अग्रतः
स रावणिवधाकाङ्क्षी लक्ष्मणस् त्वरितो ययौ

6.072.027

सो ऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्
निकुम्भिलाम् अभिययौ चैत्यं रावणिपालितम्

6.072.028

विभीषणेन सहितो राजपुत्रः प्रतापवान्
कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस् त्वरितो ययौ

6.072.029

वानराणां सहस्रैस् तु हनूमान् बहुभिर् वृतः
विभीषणः सहामात्यस् तदा लक्ष्मणम् अन्वगात्

6.072.030

महता हरिसैन्येन सवेगम् अभिसंवृतः
ऋक्षराजबलं चैव ददर्श पथि विष्ठितम्

6.072.031

स गत्वा दूरम् अध्वानं सौमित्रिर् मित्रनन्दनः
राक्षसेन्द्रबलं दूराद् अपश्यद् व्यूहम् आस्थितम्

6.072.032

स संप्राप्य धनुष्पाणिर् मायायोगम् अरिंदम
तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः

6.072.033

विविधम् अमलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश् च
प्रतिभयतमम् अप्रमेयवेगं तिमिरम् इव द्विषतां बलं विवेश

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc