रामायण · अध्याय 6.070
राघवश् चापि विपुलं तं राक्षसवनौकसाम्
श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तम् उवाच ह
सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम्
श्रूयते हि यथा भीमः सुमहान् आयुधस्वनः
तद् गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः
क्षिप्रम् ऋष्कपते तस्य कपिश्रेष्ठस्य युध्यतः
ऋक्षराजस् तथेत्य् उक्त्वा स्वेनानीकेन संवृतः
आगच्छत् पश्चिमद्वारं हनूमान् यत्र वानरः
अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि
वानरैः कृतसंग्रामैः श्वसद्भिर् अभिसंवृतम्
दृष्ट्वा पथि हनूमांश् च तद् ऋष्कबलम् उद्यतम्
नीलमेघनिभं भीमं संनिवार्य न्यवर्तत
स तेन हरिसैन्येन संनिकर्षं महायशाः
शीघ्रम् आगम्य रामाय दुःखितो वाक्यम् अब्रवीत्
समरे युध्यमानानाम् अस्माकं प्रेक्षतां च सः
जघान रुदतीं सीताम् इन्द्रजिद् रावणात्मजः
उद्भ्रान्तचित्तस् तां दृष्ट्वा विषण्णो ऽहम् अरिंदम
तद् अहं भवतो वृत्तं विज्ञापयितुम् आगतः
तस्य तद् वचनं श्रुत्वा राघवः शोकमूर्छितः
निपपात तदा भूमौ छिन्नमूल इव द्रुमः
तं भूमौ देवसंकाशं पतितं दृश्य राघवम्
अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः
असिञ्चन् सलिलैश् चैनं पद्मोत्पलसुगन्धिभिः
प्रदहन्तम् असह्यं च सहसाग्निम् इवोत्थितम्
तं लक्ष्मणो ऽथ बाहुभ्यां परिष्वज्य सुदुःखितः
उवाच रामम् अस्वस्थं वाक्यं हेत्वर्थसंहितम्
शुभे वर्त्मनि तिष्ठन्तं त्वाम् आर्यविजितेन्द्रियम्
अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः
भूतानां स्थावराणां च जङ्गमानां च दर्शनम्
यथास्ति न तथा धर्मस् तेन नास्तीति मे मतिः
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्
नायम् अर्थस् तथा युक्तस् त्वद्विधो न विपद्यते
यद्य् अधर्मो भवेद् भूतो रावणो नरकं व्रजेत्
भवांश् च धर्मसंयुक्तो नैवं व्यसनम् आप्नुयात्
तस्य च व्यसनाभावाद् व्यसनं च गते त्वयि
धर्मेणोपलभेद् धर्मम् अधर्मं चाप्य् अधर्मतः
यदि धर्मेण युज्येरन् नाधर्मरुचयो जनाः
धर्मेण चरतां धर्मस् तथा चैषां फलं भवेत्
यस्माद् अर्था विवर्धन्ते येष्व् अधर्मः प्रतिष्ठितः
क्लिश्यन्ते धर्मशीलाश् च तस्माद् एतौ निरर्थकौ
वध्यन्ते पापकर्माणो यद्य् अधर्मेण राघव
वधकर्महतो धर्मः स हतः कं वधिष्यति
अथ वा विहितेनायं हन्यते हन्ति वा परम्
विधिर् आलिप्यते तेन न स पापेन कर्मणा
अदृष्टप्रतिकारेण अव्यक्तेनासता सता
कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन
यदि सत् स्यात् सतां मुख्य नासत् स्यात् तव किं चन
त्वया यदीदृशं प्राप्तं तस्मात् सन् नोपपद्यते
अथ वा दुर्बलः क्लीबो बलं धर्मो ऽनुवर्तते
दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः
बलस्य यदि चेद् धर्मो गुणभूतः पराक्रमे
धर्मम् उत्सृज्य वर्तस्व यथा धर्मे तथा बले
अथ चेत् सत्यवचनं धर्मः किल परंतप
अनृतस् त्वय्य् अकरुणः किं न बद्धस् त्वया पिता
यदि धर्मो भवेद् भूत अधर्मो वा परंतप
न स्म हत्वा मुनिं वज्री कुर्याद् इज्यां शतक्रतुः
अधर्मसंश्रितो धर्मो विनाशयति राघव
सर्वम् एतद् यथाकामं काकुत्स्थ कुरुते नरः
मम चेदं मतं तात धर्मो ऽयम् इति राघव
धर्ममूलं त्वया छिन्नं राज्यम् उत्सृजता तदा
अर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस् ततस् ततः
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा
सो ऽयम् अर्थं परित्यज्य सुखकामः सुखैधितः
पापम् आरभते कर्तुं तथा दोषः प्रवर्तते
यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवः
यस्यार्थाः स पुमांल् लोके यस्यार्थाः स च पण्डितः
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान्
यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया
राज्यम् उत्सृजता वीर येन बुद्धिस् त्वया कृता
यस्यार्था धर्मकामार्थास् तस्य सर्वं प्रदक्षिणम्
अधनेनार्थकामेन नार्थः शक्यो विचिन्वता
हर्षः कामश् च दर्पश् च धर्मः क्रोधः शमो दमः
अर्थाद् एतानि सर्वाणि प्रवर्तन्ते नराधिप
येषां नश्यत्य् अयं लोकश् चरतां धर्मचारिणाम्
ते ऽर्थास् त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः
त्वयि प्रव्रजिते वीर गुरोश् च वचने स्थिते
रक्षसापहृता भार्या प्राणैः प्रियतरा तव
तद् अद्य विपुलं वीर दुःखम् इन्द्रजिता कृतम्
कर्मणा व्यपनेष्यामि तस्माद् उत्तिष्ठ राघव
अयम् अनघ तवोदितः प्रियार्थं जनकसुता निधनं निरीक्ष्य रुष्टः
सहयगजरथां सराक्षसेन्द्रां भृशम् इषुभिर् विनिपातयामि लङ्काम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0