रामायण · अध्याय 6.071
रामम् आश्वासयाने तु लक्ष्मणे भ्रातृवत्सले
निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद् विभीषणः
नानाप्रहरणैर् वीरैश् चतुर्भिः सचिवैर् वृतः
नीलाञ्जनचयाकारैर् मातंगैर् इव यूथपः
सो ऽभिगम्य महात्मानं राघवं शोकलालसं
वानरांश् चैव ददृशे बाष्पपर्याकुलेक्षणान्
राघवं च महात्मानम् इक्ष्वाकुकुलनन्दनम्
ददर्श मोहम् आपन्नं लक्ष्मणस्याङ्कम् आश्रितम्
व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः
अन्तर्दुःखेन दीनात्मा किम् एतद् इति सो ऽब्रवीत्
विभीषण मुखं दृष्ट्वा सुग्रीवं तांश् च वानरान्
उवाच लक्ष्मणो वाक्यम् इदं बाष्पपरिप्लुतः
हताम् इन्द्रजिता सीताम् इह श्रुत्वैव राघवः
हनूमद् वचनात् सौम्य ततो मोहम् उपागतः
कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः
पुष्कलार्थम् इदं वाक्यं विसंज्ञं रामम् अब्रवीत्
मनुजेन्द्रार्तरूपेण यद् उक्तस् त्वं हनूमता
तद् अयुक्तम् अहं मन्ये सागरस्येव शोषणम्
अभिप्रायं तु जानामि रावणस्य दुरात्मनः
सीतां प्रति महाबाहो न च घातं करिष्यति
याच्यमानः सुबहुशो मया हितचिकीर्षुणा
वैदेहीम् उत्सृजस्वेति न च तत् कृतवान् वचः
नैव साम्ना न भेदेन न दानेन कुतो युधा
सा द्रष्टुम् अपि शक्येत नैव चान्येन केन चित्
वानरान् मोहयित्वा तु प्रतियातः स राक्षसः
चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति
हुतवान् उपयातो हि देवैर् अपि सवासवैः
दुराधर्षो भवत्य् एष संग्रामे रावणात्मजः
तेन मोहयता नूनम् एषा माया प्रयोजिता
विघ्नम् अन्विच्छता तात वानराणां पराक्रमे
ससैन्यास् तत्र गच्छामो यावत् तन् न समाप्यते
त्यजेमं नरशार्दूलमिथ्या संतापम् आगतम्
सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्
इह त्वं स्वस्थ हृदयस् तिष्ठ सत्त्वसमुच्छ्रितः
लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः
एष तं नरशार्दूलो रावणिं निशितैः शरैः
त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति
तस्यैते निशितास् तीक्ष्णाः पत्रिपत्राङ्गवाजिनः
पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम्
तत् संदिश महाबाहो लक्ष्मणं शुभलक्षणम्
राक्षसस्य विनाशाय वज्रं वज्रधरो यथा
मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत् क्षमो ऽद्य कर्तुम्
त्वम् अतिसृज रिपोर् वधाय बाणीम् असुरपुरोन्मथने यथा महेन्द्रः
समाप्तकर्मा हि स राक्षसेन्द्रो भवत्य् अदृश्यः समरे सुरासुरैः
युयुत्सता तेन समाप्तकर्मणा भवेत् सुराणाम् अपि संशयो महान्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0