रामायण · अध्याय 6.069
श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम्
वीक्षमाणा दिशः सर्वा दुद्रुवुर् वानरर्षभाः
तान् उवाच ततः सर्वान् हनूमान् मारुतात्मजः
विषण्णवदनान् दीनांस् त्रस्तान् विद्रवतः पृथक्
कस्माद् विषण्णवदना विद्रवध्वं प्लवंगमाः
त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम्
पृष्ठतो ऽनुव्रजध्वं माम् अग्रतो यान्तम् आहवे
शूरैर् अभिजनोपेतैर् अयुक्तं हि निवर्तितुम्
एवम् उक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता
शैलशृङ्गान् द्रुमांश् चैव जगृहुर् हृष्टमानसाः
अभिपेतुश् च गर्जन्तो राक्षसान् वानरर्षभाः
परिवार्य हनूमन्तम् अन्वयुश् च महाहवे
स तैर् वानरमुख्यैस् तु हनूमान् सर्वतो वृतः
हुताशन इवार्चिष्मान् अदहच् छत्रुवाहिनीम्
स राक्षसानां कदनं चकार सुमहाकपिः
वृतो वानरसैन्येन कालान्तकयमोपमः
स तु शोकेन चाविष्टः क्रोधेन च महाकपिः
हनूमान् रावणि रथे महतीं पातयच् छिलाम्
ताम् आपतन्तीं दृष्ट्वैव रथः सारथिना तदा
विधेयाश्व समायुक्तः सुदूरम् अपवाहितः
तम् इन्द्रजितम् अप्राप्य रथथं सहसारथिम्
विवेश धरणीं भित्त्वा सा शिलाव्यर्थम् उद्यता
पतितायां शिलायां तु रक्षसां व्यथिता चमूः
तम् अभ्यधावञ् शतशो नदन्तः काननौकसः
ते द्रुमांश् च महाकाया गिरिशृङ्गाणि चोद्यताः
चिक्षिपुर् द्विषतां मध्ये वानरा भीमविक्रमाः
वानरैर् तैर् महावीर्यैर् घोररूपा निशाचराः
वीर्याद् अभिहता वृक्षैर् व्यवेष्टन्त रणक्षितौ
स्वसैन्यम् अभिवीक्ष्याथ वानरार्दितम् इन्द्रजित्
प्रगृहीतायुधः क्रुद्धः परान् अभिमुखो ययौ
स शरौघान् अवसृजन् स्वसैन्येनाभिसंवृतः
जघान कपिशार्दूलान् सुबहून् दृष्टविक्रमः
शूलैर् अशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः
ते चाप्य् अनुचरांस् तस्य वानरा जघ्नुर् आहवे
सस्कन्धविटपैः सालैः शिलाभिश् च महाबलैः
हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम्
स निवार्य परानीकम् अब्रवीत् तान् वनौकसः
हनूमान् संनिवर्तध्वं न नः साध्यम् इदं बलम्
त्यक्त्वा प्राणान् विचेष्टन्तो राम प्रियचिकीर्षवः
यन्निमित्तं हि युध्यामो हता सा जनकात्मजा
इमम् अर्थं हि विज्ञाप्य रामं सुग्रीवम् एव च
तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम्
इत्य् उक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान्
शनैः शनैर् असंत्रस्तः सबलः स न्यवर्तत
स तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः
निकुम्भिलाम् अधिष्ठाय पावकं जुहुवे न्द्रजित्
यज्ञभूम्यां तु विधिवत् पावकस् तेन रक्षसा
हूयमानः प्रजज्वाल होमशोणितभुक् तदा
सो ऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः
संध्यागत इवादित्यः स तीव्राग्निः समुत्थितः
अथेन्द्रजिद् राक्षसभूतये तु जुहाव हव्यं विधिना विधानवत्
दृष्ट्वा व्यतिष्ठन्त च राक्षसास् ते महासमूहेषु नयानयज्ञाः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0