रामायण · अध्याय 6.063
प्रवृत्ते संकुले तस्मिन् घोरे वीरजनक्षये
अङ्गदः कम्पनं वीरम् आससाद रणोत्सुकः
आहूय सो ऽङ्गदं कोपात् ताडयाम् आस वेगितः
गदया कम्पनः पूर्वं स चचाल भृशाहतः
स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः
अर्दितश् च प्रहारेण कम्पनः पतितो भुवि
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस् तदा
जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः
आपतन्तीं च वेगेन कुम्भस् तां सान्त्वयच् चमूम्
स धनुर् धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः
मुमोचाशीविषप्रख्याञ् शरान् देहविदारणान्
तस्य तच् छुशुभे भूयः सशरं धनुर् उत्तमम्
विद्युदैरावतार्चिष्मद् द्वितीयेन्द्रधनुर् यथा
आकर्णकृष्टमुक्तेन जघान द्विविदं तदा
तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा
सहसाभिहतस् तेन विप्रमुक्तपदः स्फुरन्
निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः
मैन्दस् तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे
अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम्
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः
बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः
संधाय चान्यं सुमुखं शरम् आशीविषोपमम्
आजघान महातेजा वक्षसि द्विविदाग्रजम्
स तु तेन प्रहारेण मैन्दो वानरयूथपः
मर्मण्य् अभिहतस् तेन पपात भुवि मूर्छितः
अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ
अभिदुद्राव वेगेन कुम्भम् उद्यतकार्मुकम्
तम् आपतन्तं विव्याध कुम्भः पञ्चभिर् आयसैः
त्रिभिश् चान्यैः शितैर् बाणैर् मातंगम् इव तोमरैः
सो ऽङ्गदं विविधैर् बाणैः कुम्भो विव्याध वीर्यवान्
अकुण्ठधारैर् निशितैस् तीक्ष्णैः कनकभूषणैः
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते
शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह
स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः
कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान्
आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम्
भ्रुवोर् विव्याध बाणाभ्याम् उल्काभ्याम् इव कुञ्जरम्
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते
सालम् आसन्नम् एकेन परिजग्राह पाणिना
तम् इन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम्
समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम्
स चिच्छेद शितैर् बाणैः सप्तभिः कायभेदनैः
अङ्गदो विव्यथे ऽभीक्ष्णं ससाद च मुमोह च
अङ्गदं व्यथितं दृष्ट्वा सीदन्तम् इव सागरे
दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन्
रामस् तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे
व्यादिदेश हरिश्रेष्ठाञ् जाम्बवत्प्रमुखांस् ततः
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम्
अभिपेतुः सुसंक्रुद्धाः कुम्भम् उद्यतकार्मुकम्
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः
रिरक्षिषन्तो ऽभ्यपतन्न् अङ्गदं वानरर्षभाः
जाम्बवांश् च सुषेणश् च वेगदर्शी च वानरः
कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः
समीक्ष्यातततस् तांस् तु वानरेन्द्रान् महाबलान्
आववार शरौघेण नगेनेव जलाशयम्
तस्य बाणचयं प्राप्य न शोकेर् अतिवर्तितुम्
वानरेन्द्रा महात्मानो वेलाम् इव महोदधिः
तांस् तु दृष्ट्वा हरिगणाञ् शरवृष्टिभिर् अर्दितान्
अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः
अभिदुद्राव वेगेन सुग्रीवः कुम्भम् आहवे
शैलसानु चरं नागं वेगवान् इव केसरी
उत्पाट्य च महाशैलान् अश्वकर्णान् धवान् बहून्
अन्यांश् च विविधान् वृक्षांश् चिक्षेप च महाबलः
तां छादयन्तीम् आकाशं वृक्षवृष्टिं दुरासदाम्
कुम्भकर्णात्मजः श्रीमांश् चिच्छेद निशितैः शरैः
अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः
आचितास् ते द्रुमा रेजुर् यथा घोराः शतघ्नयः
द्रुमवर्षं तु तच् छिन्नं दृष्ट्वा कुम्भेन वीर्यवान्
वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे
निर्भिद्यमानः सहसा सहमानश् च ताञ् शरान्
कुम्भस्य धनुर् आक्षिप्य बभञ्जेन्द्रधनुःप्रभम्
अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम्
अब्रवीत् कुपितः कुम्भं भग्नशृङ्गम् इव द्विपम्
निकुम्भाग्रज वीर्यं ते बाणवेगं तद् अद्भुतम्
संनतिश् च प्रभावश् च तव वा रावणस्य वा
प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम
एकस् त्वम् अनुजातो ऽसि पितरं बलवत्तरः
त्वाम् एवैकं महाबाहुं शूलहस्तम् अरिंदमम्
त्रिदशा नातिवर्तन्ते जितेन्द्रियम् इवाधयः
वरदानात् पितृव्यस् ते सहते देवदानवान्
कुम्भकर्णस् तु वीर्येण सहते च सुरासुरान्
धनुषीन्द्रजितस् तुल्यः प्रतापे रावणस्य च
त्वम् अद्य रक्षसां लोके श्रेष्ठो ऽसि बलवीर्यतः
महाविमर्दं समरे मया सह तवाद्भुतम्
अद्य भूतानि पश्यन्तु शक्रशम्बरयोर् इव
कृतम् अप्रतिमं कर्म दर्शितं चास्त्रकौशलम्
पातिता हरिवीराश् च त्वयैते भीमविक्रमाः
उपालम्भभयाच् चापि नासि वीर मया हतः
कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम्
तेन सुग्रीववाक्येन सावमानेन मानितः
अग्नेर् आज्यहुतस्येव तेजस् तस्याभ्यवर्धत
ततः कुम्भः समुत्पत्य सुग्रीवम् अभिपद्य च
आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना
तस्य चर्म च पुस्फोट संजज्ञे चास्य शोणितम्
स च मुष्टिर् महावेगः प्रतिजघ्ने ऽस्थिमण्डले
तदा वेगेन तत्रासीत् तेजः प्रज्वालितं मुहुः
वज्रनिष्पेषसंजातज्वाला मेरौ यथा गिरौ
स तत्राभिहतस् तेन सुग्रीवो वानरर्षभः
मुष्टिं संवर्तयाम् आस वज्रकल्पं महाबलः
अर्चिःसहस्रविकचं रविमण्डलसप्रभम्
स मुष्टिं पातयाम् आस कुम्भस्योरसि वीर्यवान्
मुष्टिनाभिहतस् तेन निपपाताशु राक्षसः
लोहिताङ्ग इवाकाशाद् दीप्तरश्मिर् यदृच्छया
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना
बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः
तस्मिन् हते भीमपराक्रमेण प्लवंगमानाम् ऋषभेण युद्धे
मही सशैला सवना चचाल भयं च रक्षांस्य् अधिकं विवेश
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0