रामायण · अध्याय 6.062
ततो ऽब्रवीन् महातेजाः सुग्रीवो वानराधिपः
अर्थ्यं विजापयंश् चापि हनूमन्तं महाबलम्
यतो हतः कुम्भकर्णः कुमाराश् च निषूदिताः
नेदानीम् उपनिर्हारं रावणो दातुम् अर्हति
ये ये महाबलाः सन्ति लघवश् च प्लवंगमाः
लङ्काम् अभ्युत्पतन्त्व् आशु गृह्योल्काः प्लवगर्षभाः
ततो ऽस्तं गत आदित्ये रौद्रे तस्मिन् निशामुखे
लङ्काम् अभिमुखाः सोल्का जग्मुस् ते प्लवगर्षभाः
उल्काहस्तैर् हरिगणैः सर्वतः समभिद्रुताः
आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः
गोपुराट्ट प्रतोलीषु चर्यासु विविधासु च
प्रासादेषु च संहृष्टाः ससृजुस् ते हुताशनम्
तेषां गृहसहस्राणि ददाह हुतभुक् तदा
आवासान् राक्षसानां च सर्वेषां गृहमेधिनाम्
हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम्
सीधुपानचलाक्षाणां मदविह्वलगामिनाम्
कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम्
गदाशूलासि हस्तानां खादतां पिबताम् अपि
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह
त्रस्तानां गच्छतां तूर्णं पुत्रान् आदाय सर्वतः
तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम्
अदहत् पावकस् तत्र जज्वाल च पुनः पुनः
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च
रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः
मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम्
क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः
नादितान्य् अचलाभानि वेश्मान्य् अग्निर् ददाह सः
ज्वलनेन परीतानि तोरणानि चकाशिरे
विद्युद्भिर् इव नद्धानि मेघजालानि घर्मगे
विमानेषु प्रसुप्ताश् च दह्यमाना वराङ्गनाः
त्यक्ताभरणसंयोगा हाहेत्य् उच्चैर् विचुक्रुशः
तत्र चाग्निपरीतानि निपेतुर् भवनान्य् अपि
वज्रिवज्रहतानीव शिखराणि महागिरेः
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे
हिमवच्छिखराणीव दीप्तौषधिवनानि च
हर्म्याग्रैर् दह्यमानैश् च ज्वालाप्रज्वलितैर् अपि
रात्रौ सा दृश्यते लङ्का पुष्पितैर् इव किंशुकैः
हस्त्यध्यक्षैर् गजैर् मुक्तैर् मुक्तैश् च तुरगैर् अपि
बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः
अश्वं मुक्तं गजो दृष्ट्वा कच्चिद् भीतो ऽपसर्पति
भीतो भीतं गजं दृष्ट्वा क्व चिद् अश्वो निवर्तते
सा बभूव मुहूर्तेन हरिभिर् दीपिता पुरी
लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा
नारी जनस्य धूमेन व्याप्तस्योच्चैर् विनेदुषः
स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम्
प्रदग्धकायान् अपरान् राक्षसान् निर्गतान् बहिः
सहसाभ्युत्पतन्ति स्म हरयो ऽथ युयुत्सवः
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः
दिशो दश समुद्रं च पृथिवीं चान्वनादयत्
विशल्यौ तु महात्मानौ ताव् उभौ रामलक्ष्मणौ
असंभ्रान्तौ जगृहतुस् ताव् उभौ धनुषी वरे
ततो विस्फारयाणस्य रामस्य धनुर् उत्तमम्
बभूव तुमुलः शब्दो राक्षसानां भयावहः
अशोभत तदा रामो धनुर् विस्फारयन् महत्
भगवान् इव संक्रुद्धो भवो वेदमयं धनुः
वानरोद्घुष्टघोषश् च राक्षसानां च निस्वनः
ज्याशब्दश् चापि रामस्य त्रयं व्याप दिशो दश
तस्य कार्मुकमुक्तैश् च शरैस् तत्पुरगोपुरम्
कैलासशृङ्गप्रतिमं विकीर्णम् अपतद् भुवि
ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च
संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत
तेषां संनह्यमानानां सिंहनादं च कुर्वताम्
शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत
आदिष्टा वानरेन्द्रास् ते सुग्रीवेण महात्मना
आसन्ना द्वारम् आसाद्य युध्यध्वं प्लवगर्षभाः
यश् च वो वितथं कुर्यात् तत्र तत्र व्यवस्थितः
स हन्तव्यो ऽभिसंप्लुत्य राजशासनदूषकः
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु
स्थितेषु द्वारम् आसाद्य रावणं मन्युर् आविशत्
तस्य जृम्भितविक्षेपाद् व्यामिश्रा वै दिशो दश
रूपवान् इव रुद्रस्य मन्युर् गात्रेष्व् अदृश्यत
स निकुम्भं च कुम्भं च कुम्भकर्णात्मजाव् उभौ
प्रेषयाम् आस संक्रुद्धो राक्षसैर् बहुभिः सह
शशास चैव तान् सर्वान् राक्षसान् राक्षसेश्वरः
राक्षसा गच्छतात्रैव सिंहनादं च नादयन्
ततस् तु चोदितास् तेन राक्षसा ज्वलितायुधाः
लङ्काया निर्ययुर् वीराः प्रणदन्तः पुनः पुनः
भीमाश्वरथमातंगं नानापत्ति समाकुलम्
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्
तद् राक्षसबलं घोरं भीमविक्रमपौरुषम्
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम्
हेमजालाचितभुजं व्यावेष्टितपरश्वधम्
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्
गन्धमाल्यमधूत्सेकसंमोदित महानिलम्
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम्
तं दृष्ट्वा बलम् आयान्तं राक्षसानां सुदारुणम्
संचचाल प्लवंगानां बलम् उच्चैर् ननाद च
जवेनाप्लुत्य च पुनस् तद् राक्षसबलं महत्
अभ्ययात् प्रत्यरिबलं पतंग इव पावकम्
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि
राक्षसानां बलं श्रेष्ठं भूयस्तरम् अशोभत
तथैवाप्य् अपरे तेषां कपीनाम् असिभिः शितैः
प्रवीरान् अभितो जघ्नुर् घोररूपा निशाचराः
घ्नन्तम् अन्यं जघानान्यः पातयन्तम् अपातयत्
गर्हमाणं जगर्हान्ये दशन्तम् अपरे ऽदशत्
देहीत्य् अन्ये ददात्य् अन्यो ददामीत्य् अपरः पुनः
किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे
समुद्यतमहाप्रासं मुष्टिशूलासिसंकुलम्
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम्
वानरान् दश सप्तेति राक्षसा अभ्यपातयन्
राक्षसान् दशसप्तेति वानरा जघ्नुर् आहवे
विस्रस्तकेशरसनं विमुक्तकवचध्वजम्
बलं राक्षसम् आलम्ब्य वानराः पर्यवारयन्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0