भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.064

6.064.001

निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्
प्रदहन्न् इव कोपेन वानरेन्द्रम् अवैक्षत

6.064.002

ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम्
आददे परिघं वीरो नगेन्द्रशिखरोपमम्

6.064.003

हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्
यमदण्डोपमं भीमं रक्षसां भयनाशनम्

6.064.004

तम् आविध्य महातेजाः शक्रध्वजसमं रणे
विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः

6.064.005

उरोगतेन निष्केण भुजस्थैर् अङ्गदैर् अपि
कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया

6.064.006

निकुम्भो भूषणैर् भाति तेन स्म परिघेण च
यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान्

6.064.007

परिघाग्रेण पुस्फोट वातग्रन्थिर् महात्मनः
प्रजज्वाल सघोषश् च विधूम इव पावकः

6.064.008

नगर्या विटपावत्या गन्धर्वभवनोत्तमैः
सह चैवामरावत्या सर्वैश् च भवनैः सह

6.064.009

सतारागणनक्षत्रं सचन्द्रं समहाग्रहम्
निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम्

6.064.010

दुरासदश् च संजज्ञे परिघाभरणप्रभः
क्रोधेन्धनो निकुम्भाग्निर् युगान्ताग्निर् इवोत्थितः

6.064.011

राक्षसा वानराश् चापि न शेकुः स्पन्दितुं भयात्
हनूमंस् तु विवृत्योरस् तस्थौ प्रमुखतो बली

6.064.012

परिघोपमबाहुस् तु परिघं भास्करप्रभम्
बली बलवतस् तस्य पातयाम् आस वक्षसि

6.064.013

स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः
विशीर्यमाणः सहसा उल्का शतम् इवाम्बरे

6.064.014

स तु तेन प्रहारेण चचाल च महाकपिः
परिघेण समाधूतो यथा भूमिचले ऽचलः

6.064.015

स तथाभिहतस् तेन हनूमान् प्लवगोत्तमः
मुष्टिं संवर्तयाम् आस बलेनातिमहाबलः

6.064.016

तम् उद्यम्य महातेजा निकुम्भोरसि वीर्यवान्
अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः

6.064.017

ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम्
मुष्टिना तेन संजज्ञे ज्वाला विद्युद् इवोत्थिता

6.064.018

स तु तेन प्रहारेण निकुम्भो विचचाल ह
स्वस्थश् चापि निजग्राह हनूमन्तं महाबलम्

6.064.019

विचुक्रुशुस् तदा संख्ये भीमं लङ्कानिवासिनः
निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम्

6.064.020

स तथा ह्रियमाणो ऽपि कुम्भकर्णात्मजेन हि
आजघानानिलसुतो वज्रवेगेन मुष्टिना

6.064.021

आत्मानं मोचयित्वाथ क्षिताव् अभ्यवपद्यत
हनूमान् उन्ममथाशु निकुम्भं मारुतात्मजः

6.064.022

निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च
उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान्

6.064.023

परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्
उत्पाटयाम् आस शिरो भैरवं नदतो महत्

6.064.024

अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम्
दशरथसुतराक्षसेन्द्रचम्वोर् भृशतरम् आगतरोषयोः सुभीमम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc