रामायण · अध्याय 6.059
स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम्
भ्रातॄंश् च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान्
पितृव्यौ चापि संदृश्य समरे संनिषूदितौ
महोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौ
चुकोप च महातेजा ब्रह्मदत्तवरो युधि
अतिकायो ऽद्रिसंकाशो देवदानवदर्पहा
स भास्करसहस्रस्य संघातम् इव भास्वरम्
रथम् आस्थाय शक्रारिर् अभिदुद्राव वानरान्
स विस्फार्य महच् चापं किरीटी मृष्टकुण्डलः
नाम विश्रावयाम् आस ननाद च महास्वनम्
तेन सिंहप्रणादेन नामविश्रावणेन च
ज्याशब्देन च भीमेन त्रासयाम् आस वानरान्
ते तस्य रूपम् आलोक्य यथा विष्णोस् त्रिविक्रमे
भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश
ते ऽतिकायं समासाद्य वानरा मूढचेतसः
शरण्यं शरणं जग्मुर् लक्ष्मणाग्रजम् आहवे
ततो ऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्
ददर्श धन्विनं दूराद् गर्जन्तं कालमेघवत्
स तं दृष्ट्वा महात्मानं राघवस् तु सुविस्मितः
वानरान् सान्त्वयित्वा तु विभीषणम् उवाच ह
को ऽसौ पर्वतसंकाशो धनुष्मान् हरिलोचनः
युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः
अर्चिष्मद्भिर् वृतो भाति भूतैर् इव महेश्वरः
कालजिह्वाप्रकाशाभिर् य एषो ऽभिविराजते
आवृतो रथशक्तीभिर् विद्युद्भिर् इव तोयदः
धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः
शोभयन्ति रथश्रेष्ठं शक्रपातम् इवाम्बरम्
क एष रक्षः शार्दूलो रणभूमिं विराजयन्
अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा
ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते
सूर्यरश्मिप्रभैर् बाणैर् दिशो दश विराजयन्
त्रिणतं मेघनिर्ह्रादं हेमपृष्ठम् अलंकृतम्
शतक्रतुधनुःप्रख्यं धनुश् चास्य विराजते
सध्वजः सपताकश् च सानुकर्षो महारथः
चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः
विंशतिर् दश चाष्टौ च तूणीररथम् आस्थिताः
कार्मुकाणि च भीमानि ज्याश् च काञ्चनपिङ्गलाः
द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ
चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ
रक्तकण्ठगुणो धीरो महापर्वतसंनिभः
कालः कालमहावक्त्रो मेघस्थ इव भास्करः
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्याम् एष शोभते
शृङ्गाभ्याम् इव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः
कुण्डलाभ्यां तु यस्यैतद् भाति वक्त्रं शुभेक्षणम्
पुनर्वस्वन्तरगतं पूर्णबिम्बम् इवैन्दवम्
आचक्ष्व मे महाबाहो त्वम् एनं राक्षसोत्तमम्
यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः
स पृष्ठो राजपुत्रेण रामेणामिततेजसा
आचचक्षे महातेजा राघवाय विभीषणः
दशग्रीवो महातेजा राजा वैश्रवणानुजः
भीमकर्मा महोत्साहो रावणो राक्षसाधिपः
तस्यासीद् वीर्यवान् पुत्रो रावणप्रतिमो रणे
वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः
अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे
भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः
यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया
तनयं धान्यमालिन्या अतिकायम् इमं विदुः
एतेनाराधितो ब्रह्मा तपसा भावितात्मना
अस्त्राणि चाप्य् अवाप्तानि रिपवश् च पराजिताः
सुरासुरैर् अवध्यत्वं दत्तम् अस्मै स्वयम्भुवा
एतच् च कवचं दिव्यं रथश् चैषो ऽर्कभास्करः
एतेन शतशो देवा दानवाश् च पराजिताः
रक्षितानि च रक्षामि यक्षाश् चापि निषूदिताः
वज्रं विष्टम्भितं येन बाणैर् इन्द्रस्य धीमतः
पाशः सलिलराजस्य युद्धे प्रतिहतस् तथा
एषो ऽतिकायो बलवान् राक्षसानाम् अथर्षभः
रावणस्य सुतो धीमान् देवदनव दर्पहा
तद् अस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुंगव
पुरा वानरसैन्यानि क्षयं नयति सायकैः
ततो ऽतिकायो बलवान् प्रविश्य हरिवाहिनीम्
विस्फारयाम् आस धनुर् ननाद च पुनः पुनः
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्
अभिपेतुर् महात्मानो ये प्रधानाः प्लवंगमाः
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च
पादपैर् गिरिशृङ्गैश् च युगपत् समभिद्रवन्
तेषां वृक्षांश् च शैलांश् च शरैः काञ्चनभूषणैः
अतिकायो महातेजाश् चिच्छेदास्त्रविदां वरः
तांश् चैव सरान् स हरीञ् शरैः सर्वायसैर् बली
विव्याधाभिमुखः संख्ये भीमकायो निशाचरः
ते ऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवंगमाः
न शेकुर् अतिकायस्य प्रतिकर्तुं महारणे
तत् सैन्यं हरिवीराणां त्रासयाम् आस राक्षसः
मृगयूथम् इव क्रुद्धो हरिर् यौवनम् आस्थितः
स राषसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कं चित्
उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यम् इदं बभाषे
रथे स्थितो ऽहं शरचापपाणिर् न प्राकृतं कं चन योधयामि
यस्यास्ति शक्तिर् व्यवसाय युक्ता ददातुं मे क्षिप्रम् इहाद्य युद्धम्
तत् तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिर् अमित्रहन्ता
अमृष्यमाणश् च समुत्पपात जग्राह चापं च ततः स्मयित्वा
क्रुद्धः सौमित्रिर् उत्पत्य तूणाद् आक्षिप्य सायकम्
पुरस्ताद् अतिकायस्य विचकर्ष महद् धनुः
पूरयन् स महीं शैलान् आकाशं सागरं दिशः
ज्याशब्दो लक्ष्मणस्योग्रस् त्रासयन् रजनीचरान्
सौमित्रेश् चापनिर्घोषं श्रुत्वा प्रतिभयं तदा
विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली
अथातिकायः कुपितो दृष्ट्वा लक्ष्मणम् उत्थितम्
आदाय निशितं बाणम् इदं वचनम् अब्रवीत्
बालस् त्वम् असि सौमित्रे विक्रमेष्व् अविचक्षणः
गच्छ किं कालसदृशं मां योधयितुम् इच्छसि
न हि मद्बाहुसृष्टानाम् अस्त्राणां हिमवान् अपि
सोढुम् उत्सहते वेगम् अन्तरिक्षम् अथो मही
सुखप्रसुप्तं कालाग्निं प्रबोधयितुम् इच्छसि
न्यस्य चापं निवर्तस्व मा प्राणाञ् जहि मद्गतः
अथ वा त्वं प्रतिष्टब्धो न निवर्तितुम् इच्छसि
तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम्
पश्य मे निशितान् बाणान् अरिदर्पनिषूदनान्
ईश्वरायुधसंकाशांस् तप्तकाञ्चनभूषणान्
एष ते सर्पसंकाशो बाणः पास्यति शोणितम्
मृगराज इव क्रुद्धो नागराजस्य शोणितम्
श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः
स संचुकोपातिबलो बृहच्छ्रीर् उवाच वाक्यं च ततो महार्थम्
न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति
मयि स्थिते धन्विनि बाणपाणौ विदर्शयस्वात्मबलं दुरात्मन्
कर्मणा सूचयात्मानं न विकत्थितुम् अर्हसि
पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः
सर्वायुधसमायुक्तो धन्वी त्वं रथम् आस्थितः
शरैर् वा यदि वाप्य् अस्त्रैर् दर्शयस्व पराक्रमम्
ततः शिरस् ते निशितैः पातयिष्याम्य् अहं शरैः
मारुतः कालसंपक्वं वृन्तात् तालफलं यथा
अद्य ते मामका बाणास् तप्तकाञ्चनभूषणाः
पास्यन्ति रुधिरं गात्राद् बाणशल्यान्तरोत्थितम्
बालो ऽयम् इति विज्ञाय न मावज्ञातुम् अर्हसि
बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे
लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परमार्थवत्
अतिकायः प्रचुक्रोध बाणं चोत्तमम् आददे
ततो विद्याधरा भूता देवा दैत्या महर्षयः
गुह्यकाश् च महात्मानस् तद् युद्धं ददृशुस् तदा
ततो ऽतिकायः कुपितश् चापम् आरोप्य सायकम्
लक्ष्मणस्य प्रचिक्षेप संक्षिपन्न् इव चाम्बरम्
तम् आपतन्तं निशितं शरम् आशीविषोपमम्
अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा
तं निकृत्तं शरं दृष्ट्वा कृत्तभोगम् इवोरगम्
अतिकायो भृशं क्रुद्धः पञ्चबाणान् समाददे
ताञ् शरान् संप्रचिक्षेप लक्ष्मणाय निशाचरः
तान् अप्राप्ताञ् शरैस् तीक्ष्णैश् चिच्छेद भरतानुजः
स तांश् छित्त्वा शरैस् तीक्ष्णैर् लक्ष्मणः परवीरहा
आददे निशितं बाणं ज्वलन्तम् इव तेजसा
तम् आदाय धनुः श्रेष्ठे योजयाम् आस लक्ष्मणः
विचकर्ष च वेगेन विससर्ज च सायकम्
पूर्णायतविसृष्टेन शरेणानत पर्वणा
ललाटे राक्षसश्रेष्ठम् आजघान स वीर्यवान्
स ललाटे शरो मग्नस् तस्य भीमस्य रक्षसः
ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे
राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः
रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम्
चिन्तयाम् आस चाश्वस्य विमृश्य च महाबलः
साधु बाणनिपातेन श्वाघनीयो ऽसि मे रिपुः
विचार्यैवं विनम्यास्यं विनम्य च भुजाव् उभौ
स रथोपस्थम् आस्थाय रथेन प्रचचार ह
एकं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः
आददे संदधे चापि विचकर्षोत्ससर्ज च
ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश् च्युताः
हेमपुङ्खा रविप्रख्याश् चक्रुर् दीप्तम् इवाम्बरम्
ततस् तान् राक्षसोत्सृष्टाञ् शरौघान् रावणानुजः
असंभ्रान्तः प्रचिच्छेद निशितैर् बहुभिः शरैः
ताञ् शरान् युधि संप्रेक्ष्य निकृत्तान् रावणात्मजः
चुकोप त्रिदशेन्द्रारिर् जग्राह निशितं शरम्
स संधाय महातेजास् तं बाणं सहसोत्सृजत्
ततः सौमित्रिम् आयान्तम् आजघान स्तनान्तरे
अतिकायेन सौमित्रिस् ताडितो युधि वक्षसि
सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः
स चकार तदात्मानं विशल्यं सहसा विभुः
जग्राह च शरं तीष्णम् अस्त्रेणापि समादधे
आग्नेयेन तदास्त्रेण योजयाम् आस सायकम्
स जज्वाल तदा बाणो धनुश् चास्य महात्मनः
अतिकायो ऽतितेजस्वी सौरम् अस्त्रं समाददे
तेन बाणं भुजंगाभं हेमपुङ्खम् अयोजयत्
ततस् तं ज्वलितं घोरं लक्ष्मणः शरम् आहितम्
अतिकायाय चिक्षेप कालदण्डम् इवान्तकः
आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः
उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम्
ताव् उभाव् अम्बरे बाणाव् अन्योन्यम् अभिजघ्नतुः
तेजसा संप्रदीप्ताग्रौ क्रुद्धाव् इव भुजं गमौ
ताव् अन्योन्यं विनिर्दह्य पेततुर् धरणीतले
निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ
ततो ऽतिकायः संक्रुद्धस् त्व् अस्त्रम् ऐषीकम् उत्सृजत्
तत् प्रचिच्छेद सौमित्रिर् अस्त्रम् ऐन्द्रेण वीर्यवान्
ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः
याम्येनास्त्रेण संक्रुद्धो योजयाम् आस सायकम्
ततस् तद् अस्त्रं चिक्षेप लक्ष्मणाय निशाचरः
वायव्येन तद् अस्त्रं तु निजघान स लक्ष्मणः
अथैनं शरधाराभिर् धाराभिर् इव तोयदः
अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम्
ते ऽतिकायं समासाद्य कवचे वज्रभूषिते
भग्नाग्रशल्याः सहसा पेतुर् बाणा महीतले
तान् मोघान् अभिसंप्रेक्ष्य लक्ष्मणः परवीरहा
अभ्यवर्षत बाणानां सहस्रेण महायशाः
स वर्ष्यमाणो बाणौघैर् अतिकायो महाबलः
अवध्यकवचः संख्ये राक्षसो नैव विव्यथे
न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः
अथैनम् अभ्युपागम्य वायुर् वाक्यम् उवाच ह
ब्रह्मदत्तवरो ह्य् एष अवध्य कवचावृतः
ब्राह्मेणास्त्रेण भिन्ध्य् एनम् एष वध्यो हि नान्यथा
ततः स वायोर् वचनं निशम्य सौमित्रिर् इन्द्रप्रतिमानवीर्यः
समाददे बाणम् अमोघवेगं तद् ब्राह्मम् अस्त्रं सहसा नियोज्य
तस्मिन् वरास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताग्रे
दिशः सचन्द्रार्कमहाग्रहाश् च नभश् च तत्रास ररास चोर्वी
तं ब्रह्मणो ऽस्त्रेण नियुज्य चापे शरं सुपुङ्खं यमदूतकल्पम्
सौमित्रिर् इन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम्
तं लक्ष्मणोत्सृष्टम् अमोघवेगं समापतन्तं ज्वलनप्रकाशम्
सुवर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श
तं प्रेक्षमाणः सहसातिकायो जघान बाणैर् निशितैर् अनेकैः
स सायकस् तस्य सुपर्णवेगस् तदातिवेगेन जगाम पार्श्वम्
तम् आगतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम्
जघान शक्त्यृष्टिगदाकुठारैः शूलैर् हलैश् चाप्य् अविपन्नचेष्टः
तान्य् आयुधान्य् अद्भुतविग्रहाणि मोघानि कृत्वा स शरो ऽग्निदीप्तः
प्रसह्य तस्यैव किरीटजुष्टं तदातिकायस्य शिरो जहार
तच् छिरः सशिरस् त्राणं लक्ष्मणेषुप्रपीडितम्
पपात सहसा भूमौ शृङ्गं हिमवतो यथा
प्रहर्षयुक्ता बहवस् तु वानरा प्रबुद्धपद्मप्रतिमाननास् तदा
अपूजयंल् लक्ष्मणम् इष्टभागिनं हते रिपौ भीमबले दुरासदे
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0