रामायण · अध्याय 6.058
नरान्तकं हतं दृष्ट्वा चुक्रुशुर् नैरृतर्षभाः
देवान्तकस् त्रिमूर्धा च पौलस्त्यश् च महोदरः
आरूढो मेघसंकाशं वारणेन्द्रं महोदरः
वालिपुत्रं महावीर्यम् अभिदुद्राव वीर्यवान्
भ्रातृव्यसनसंतप्तस् तदा देवान्तको बली
आदाय परिघं दीप्तम् अङ्गदं समभिद्रवत्
रथम् आदित्यसंकाशं युक्तं परमवाजिभिः
आस्थाय त्रिशिरा वीरो वालिपुत्रम् अथाभ्ययात्
स त्रिभिर् देवदर्पघ्नैर् नैरृतेन्द्रैर् अभिद्रुतः
वृक्षम् उत्पाटयाम् आस महाविटपम् अङ्गदः
देवान्तकाय तं वीरश् चिक्षेप सहसाङ्गदः
महावृक्षं महाशाखं शक्रो दीप्तम् इवाशनिम्
त्रिशिरास् तं प्रचिच्छेद शरैर् आशीविषोपमैः
स वृक्षं कृत्तम् आलोक्य उत्पपात ततो ऽङ्गदः
स ववर्ष ततो वृक्षाञ् शिलाश् च कपिकुञ्जरः
तान् प्रचिच्छेद संक्रुद्धस् त्रिशिरा निशितैः शरैः
परिघाग्रेण तान् वृक्षान् बभञ्ज च सुरान्तकः
त्रिशिराश् चाङ्गदं वीरम् अभिदुद्राव सायकैः
गजेन समभिद्रुत्य वालिपुत्रं महोदरः
जघानोरसि संक्रुद्धस् तोमरैर् वज्रसंनिभैः
देवान्तकश् च संक्रुद्धः परिघेण तदाङ्गदम्
उपगम्याभिहत्याशु व्यपचक्राम वेगवान्
स त्रिभिर् नैरृतश्रेष्ठैर् युगपत् समभिद्रुतः
न विव्यथे महातेजा वालिपुत्रः प्रतापवान्
तलेन भृशम् उत्पत्य जघानास्य महागजम्
पेततुर् लोचने तस्य विननाद स वारणः
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः
देवान्तकम् अभिद्रुत्य ताडयाम् आस संयुगे
स विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमः
लाक्षारससवर्णं च सुस्राव रुधिरं मुखात्
अथाश्वास्य महातेजाः कृच्छ्राद् देवान्तको बली
आविध्य परिघं घोरम् आजघान तदाङ्गदम्
परिघाभिहतश् चापि वानरेन्द्रात्मजस् तदा
जानुभ्यां पतितो भूमौ पुनर् एवोत्पपात ह
समुत्पतन्तं त्रिशिरास् त्रिभिर् आशीविषोपमैः
घोरैर् हरिपतेः पुत्रं ललाटे ऽभिजघान ह
ततो ऽङ्गदं परिक्षिप्तं त्रिभिर् नैरृतपुंगवैः
हनूमान् अपि विज्ञाय नीलश् चापि प्रतस्थतुः
ततश् चिक्षेप शैलाग्रं नीलस् त्रिशिरसे तदा
तद् रावणसुतो धीमान् बिभेद निशितैः शरैः
तद् बाणशतनिर्भिन्नं विदारितशिलातलम्
सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः
ततो जृम्भितम् आलोक्य हर्षाद् देवान्तकस् तदा
परिघेणाभिदुद्राव मारुतात्मजम् आहवे
तम् आपतन्तम् उत्पत्य हनूमान् मारुतात्मजः
आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना
स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः
देवान्तको राक्षसराजसूनुर् गतासुर् उर्व्यां सहसा पपात
तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ
क्रुद्धस् त्रिमूर्धा निशिताग्रम् उग्रं ववर्ष नीलोरसि बाणवर्षम्
स तैः शरौघैर् अभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः
नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस् तेन महाबलेन
ततस् तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षषण्डम्
ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि
ततः स शैलाभिनिपातभग्नो महोदरस् तेन सह द्विपेन
विपोथितो भूमितले गतासुः पपात वर्जाभिहतो यथाद्रिः
पितृव्यं निहतं दृष्ट्वा त्रिशिराश् चापम् आददे
हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः
हनूमांस् तु समुत्पत्य हयांस् त्रिशिरसस् तदा
विददार नखैः क्रुद्धो गजेन्द्रं मृगराड् इव
अथ शक्तिं समादाय कालरात्रिम् इवान्तकः
चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः
दिवि क्षिप्ताम् इवोल्कां तां शक्तिं क्षिप्ताम् असंगताम्
गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च
तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता
प्रहृष्टा वानरगणा विनेदुर् जलदा इव
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः
निचखान तदा रोषाद् वानरेन्द्रस्य वक्षसि
खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः
आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान्
स तलभिहतस् तेन स्रस्तहस्ताम्बरो भुवि
निपपात महातेजास् त्रिशिरास् त्यक्तचेतनः
स तस्य पततः खड्गं समाच्छिद्य महाकपिः
ननाद गिरिसंकाशस् त्रासयन् सर्वनैरृतान्
अमृष्यमाणस् तं घोषम् उत्पपात निशाचरः
उत्पत्य च हनूमन्तं ताडयाम् आस मुष्टिना
तेन मुष्टिप्रहारेण संचुकोप महाकपिः
कुपितश् च निजग्राह किरीटे राक्षसर्षभम्
स तस्य शीर्षाण्य् असिना शितेन किरीटजुष्टानि सकुण्डलानि
क्रुद्धः प्रचिच्छेद सुतो ऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः
तान्य् आयताक्षाण्य् अगसंनिभानि प्रदीप्तवैश्वानरलोचनानि
पेतुः शिरांसीन्द्ररिपोर् धरण्यां ज्योतींषि मुक्तानि यथार्कमार्गात्
तस्मिन् हते देवरिपौ त्रिशीर्षे हनूमत शक्रपराक्रमेण
नेदुः प्लवंगाः प्रचचाल भूमी रक्षांस्य् अथो दुद्रुविरे समन्तात्
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम्
हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ
चुकोप परमामर्षी महापार्श्वो महाबलः
जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम्
हेमपट्टपरिक्षिप्तां मांसशोणितलेपनाम्
विराजमानां वपुषा शत्रुशोणितरञ्जिताम्
तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम्
ऐरावतमहापद्मसार्वभौम भयावहाम्
गदाम् आदाय संक्रुद्धो महापार्श्वो महाबलः
हरीन् समभिदुद्राव युगान्ताग्निर् इव ज्वलन्
अथर्षयः समुत्पत्य वानरो रवणानुजम्
महापार्श्वम् उपागम्य तस्थौ तस्याग्रतो बली
तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम्
आजघानोरसि क्रुद्धो गदया वज्रकल्पया
स तयाभिहतस् तेन गदया वानरर्षभः
भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु
स संप्राप्य चिरात् संज्ञाम् ऋषभो वानरर्षभः
क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वम् उदैक्षत
तां गृहीत्वा गदां भीमाम् आविध्य च पुनः पुनः
मत्तानीकं महापार्श्वं जघान रणमूर्धनि
स स्वया गदया भिन्नो विकीर्णदशनेक्षणः
निपपात महापार्श्वो वज्राहत इवाचलः
तस्मिन् हते भ्रातरि रावणस्य तन् नैरृतानां बलम् अर्णवाभम्
त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसंनिकाशम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0