भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.060

6.060.001

ततो हतान् राक्षसपुंगवांस् तान् देवान्तकादित्रिशिरो ऽतिकायान्
रक्षोगणास् तत्र हतावशिष्टास् ते रावणाय त्वरितं शशंसुः

6.060.002

ततो हतांस् तान् सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः
पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ

6.060.003

ततस् तु राजानम् उदीक्ष्य दीनं शोकार्णवे संपरिपुप्लुवानम्
अथर्षभो राक्षसराजसूनुर् अथेन्द्रजिद् वाक्यम् इदं बभाषे

6.060.004

न तात मोहं प्रतिगन्तुम् अर्हसि यत्रेन्द्रजिज् जीवति राक्षसेन्द्र
नेन्द्रारिबाणाभिहतो हि कश् चित् प्राणान् समर्थः समरे ऽभिधर्तुम्

6.060.005

पश्याद्य रामं सहलक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम्
गतायुषं भूमितले शयानं शरैः शितैर् आचितसर्वगात्रम्

6.060.006

इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम्
अद्यैव रामं सहलक्ष्मणेन संतापयिष्यामि शरैर् अमोघैः

6.060.007

अद्येन्द्रवैवस्वतविष्णुमित्र साध्याश्विवैश्वानरचन्द्रसूर्याः
द्रक्ष्यन्ति मे विक्रमम् अप्रमेयं विष्णोर् इवोग्रं बलियज्ञवाटे

6.060.008

स एवम् उक्त्वा त्रिदशेन्द्रशत्रुर् आपृच्छ्य राजानम् अदीनसत्त्वः
समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम्

6.060.009

समास्थाय महातेजा रथं हरिरथोपमम्
जगाम सहसा तत्र यत्र युद्धम् अरिंदम

6.060.010

तं प्रस्थितं महात्मानम् अनुजग्मुर् महाबलाः
संहर्षमाणा बहवो धनुःप्रवरपाणयः

6.060.011

गजस्कन्धगताः के चित् के चित् परमवाजिभिः
प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः

6.060.012

स शङ्खनिनदैर् भीमैर् भेरीणां च महास्वनैः
जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः

6.060.013

स शङ्खशशिवर्णेन छत्रेण रिपुसादनः
रराज परिपूर्णेन नभश् चन्द्रमसा यथा

6.060.014

अवीज्यत ततो वीरो हैमैर् हेमविभूषितैः
चारुचामरमुख्यैश् च मुख्यः सर्वधनुष्मताम्

6.060.015

ततस् त्व् इन्द्रजिता लङ्का सूर्यप्रतिमतेजसा
रराजाप्रतिवीर्येण द्यौर् इवार्केण भास्वता

6.060.016

स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम्
राक्षसाधिपतिः श्रीमान् रावणः पुत्रम् अब्रवीत्

6.060.017

त्वम् अप्रतिरथः पुत्र जितस् ते युधि वासवः
किं पुनर् मानुषं धृष्यं न वधिष्यसि राघवम्

6.060.018

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः
रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम्

6.060.019

स संप्राप्य महातेजा युद्धभूमिम् अरिंदमः
स्थापयाम् आस रक्षांसि रथं प्रति समन्ततः

6.060.020

ततस् तु हुतभोक्तारं हुतभुक् सदृशप्रभः
जुहुवे राक्षसश्रेष्ठो मन्त्रवद् विधिवत् तदा

6.060.021

स हविर्जालसंस्कारैर् माल्यगन्धपुरस्कृतैः
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान्

6.060.022

शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकः
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा

6.060.023

स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः

6.060.024

सकृद् एव समिद्धस्य विधूमस्य महार्चिषः
बभूवुस् तानि लिङ्गानि विजयं यान्य् अदर्शयन्

6.060.025

प्रदक्षिणावर्तशिखस् तप्तकाञ्चनसंनिभः
हविस् तत् प्रतिजग्राह पावकः स्वयम् उत्थितः

6.060.026

सो ऽस्त्रम् आहारयाम् आस ब्राह्मम् अस्त्रविदां वरः
धनुश् चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत्

6.060.027

तस्मिन्न् आहूयमाने ऽस्त्रे हूयमाने च पावके
सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम्

6.060.028

स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः
सचापबाणासिरथाश्वसूतः खे ऽन्तर्दध आत्मानम् अचिन्त्यरूपः

6.060.029

स सैन्यम् उत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु
अदृश्यमानः शरजालम् उग्रं ववर्ष नीलाम्बुधरो यथाम्बु

6.060.030

ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरम् उन्नदन्तः
रणे निपेतुर् हरयो ऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः

6.060.031

ते केवलं संददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु
माया निगूढं च सुरेन्द्रशत्रुं न चात्र तं राक्षसम् अभ्यपश्यन्

6.060.032

ततः स रक्षोऽधिपतिर् महात्मा सर्वा दिशो बाणगणैः शिताग्रैः
प्रच्छादयाम् आस रविप्रकाशैर् विषादयाम् आस च वानरेन्द्रान्

6.060.033

स शूलनिस्त्रिंश परश्वधानि व्याविध्य दीप्तानलसंनिभानि
सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीव्रं प्लवगेन्द्रसैन्ये

6.060.034

ततो ज्वलनसंकाशैः शितैर् वानरयूथपाः
ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः

6.060.035

अन्योन्यम् अभिसर्पन्तो निनदन्तश् च विस्वरम्
राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर् वानरर्षभाः

6.060.036

उदीक्षमाणा गगनं के चिन् नेत्रेषु ताडिताः
शरैर् विविशुर् अन्योन्यं पेतुश् च जगतीतले

6.060.037

हनूमन्तं च सुग्रीवम् अङ्गदं गन्धमादनम्
जाम्बवन्तं सुषेणं च वेगदर्शिनम् एव च

6.060.038

मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ
केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम्

6.060.039

सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्
पावकाक्षं नलं चैव कुमुदं चैव वानरम्

6.060.040

प्रासैः शूलैः शितैर् बाणैर् इन्द्रजिन्मन्त्रसंहितैः
विव्याध हरिशार्दूलान् सर्वांस् तान् राक्षसोत्तमः

6.060.041

स वै गदाभिर् हरियूथमुख्यान् निर्भिद्य बाणैस् तपनीयपुङ्खैः
ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः

6.060.042

स बाणवर्षैर् अभिवर्ष्यमाणो धारानिपातान् इव तान् विचिन्त्य
समीक्षमाणः परमाद्भुतश्री रामस् तदा लक्ष्मणम् इत्य् उवाच

6.060.043

असौ पुनर् लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रम् आश्रित्य सुरेन्द्रशत्रुः
निपातयित्वा हरिसैन्यम् उग्रम् अस्माञ् शरैर् अर्दयति प्रसक्तम्

6.060.044

स्वयम्भुवा दत्तवरो महात्मा खम् आस्थितो ऽन्तर्हितभीमकायः
कथं नु शक्यो युधि नष्टदेहो निहन्तुम् अद्येन्द्रजिद् उद्यतास्त्रः

6.060.045

मन्ये स्वयम्भूर् भगवान् अचिन्त्यो यस्यैतद् अस्त्रं प्रभवश् च यो ऽस्य
बाणावपातांस् त्वम् इहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व

6.060.046

प्रच्छादयत्य् एष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः
एतच् च सर्वं पतिताग्र्यवीरं न भ्राजते वानरराजसैन्यम्

6.060.047

आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ हतरोषहर्षौ
ध्रुवं प्रवेक्ष्यत्य् अमरारिवासं असौ समादाय रणाग्रलक्ष्मीम्

6.060.048

ततस् तु ताव् इन्द्रजिद् अस्त्रजालैर् बभूवतुस् तत्र तदा विशस्तौ
स चापि तौ तत्र विषादयित्वा ननाद हर्षाद् युधि राक्षसेन्द्रः

6.060.049

स तत् तदा वानरराजसैन्यं रामं च संख्ये सहलक्ष्मणेन
विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc