रामायण · अध्याय 6.055
ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस् तदा
नैष्ठिकीं बुद्धिम् आस्थाय सर्वे संग्रामकाङ्क्षिणः
समुदीरितवीर्यास् ते समारोपितविक्रमाः
पर्यवस्थापिता वाक्यैर् अङ्गदेन वलीमुखाः
प्रयाताश् च गता हर्षं मरणे कृतनिश्चयाः
चक्रुः सुतुमुलं युद्धं वानरास् त्यक्तजीविताः
अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च
वानरास् तूर्णम् उद्यम्य कुम्भकर्णम् अभिद्रवन्
स कुम्भकर्णः संक्रुद्धो गदाम् उद्यम्य वीर्यवान्
अर्दयन् सुमहाकायः समन्ताद् व्याक्षिपद् रिपून्
शतानि सप्त चाष्टौ च सहस्राणि च वानराः
प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः
षोडशाष्टौ च दश च विंशत् त्रिंशत् तथैव च
परिक्षिप्य च बाहुभ्यां खादन् विपरिधावति
भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगान् इव
हनूमाञ् शैलशृङ्गाणि वृक्षांश् च विविधान् बहून्
ववर्ष कुम्भकर्णस्य शिरस्य् अम्बरम् आस्थितः
तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह
बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः
ततो हरीणां तद् अनीकम् उग्रं दुद्राव शूलं निशितं प्रगृह्य
तस्थौ ततो ऽस्यापततः पुरस्तान् महीधराग्रं हनुमान् प्रगृह्य
स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम्
स चुक्षुभे तेन तदाभिबूतो मेदार्द्रगात्रो रुधिरावसिक्तः
स शूलम् आविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम्
बाह्वन्तरे मारुतिम् आजघान गुहो ऽचलं क्रौञ्चम् इवोग्रशक्त्या
स शूलनिर्भिन्न महाभुजान्तरः प्रविह्वलः शोणितम् उद्वमन् मुखात्
ननाद भीमं हनुमान् महाहवे युगान्तमेघस्तनितस्वनोपमम्
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास् तं व्यथितं समीक्ष्य
प्लवंगमास् तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात्
नीलश् चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते
तम् आपतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह
मुष्टिप्रहाराभिहतं तच् छैलाग्रं व्यशीर्यत
सविस्फुलिङ्गं सज्वालं निपपात महीतले
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः
पञ्चवानरशार्दूलाः कुम्भकर्णम् उपाद्रवन्
शैलैर् वृक्षैस् तलैः पादैर् मुष्टिभिश् च महाबलाः
कुम्भकर्णं महाकायं सर्वतो ऽभिनिजघ्निरे
स्पर्शान् इव प्रहारांस् तान् वेदयानो न विव्यथे
ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः
निपपातर्षभो भीमः प्रमुखागतशोणितः
मुष्टिना शरभं हत्वा जानुना नीलम् आहवे
आजघान गवाक्षं च तलेनेन्द्ररिपुस् तदा
दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः
निपेतुस् ते तु मेदिन्यां निकृत्ता इव किंशुकाः
तेषु वानरमुख्येषु पतितेषु महात्मसु
वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः
तं शैलम् इव शैलाभाः सर्वे तु प्लवगर्षभाः
समारुह्य समुत्पत्य ददंशुश् च महाबलाः
तं नखैर् दशनैश् चापि मुष्टिभिर् जानुभिस् तथा
कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः
स वानरसहस्रैस् तैर् आचितः पर्वतोपमः
रराज राक्षसव्याघ्रो गिरिर् आत्मरुहैर् इव
बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः
भक्षयाम् आस संक्रुद्धो गरुडः पन्नगान् इव
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे
नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः
भक्षयन् भृशसंक्रुद्धो हरीन् पर्वतसंनिभः
बभञ्ज वानरान् सर्वान् संक्रुद्धो राक्षसोत्तमः
मांसशोणितसंक्लेदां भूमिं कुर्वन् स राक्षसः
चचार हरिसैन्येषु कालाग्निर् इव मूर्छितः
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः
शूलहस्तो बभौ तस्मिन् कुम्भकर्णो महाबलः
यथा शुष्काण्य् अरण्यानि ग्रीष्मे दहति पावकः
तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत्
ततस् ते वध्यमानास् तु हतयूथा विनायकाः
वानरा भयसंविग्ना विनेदुर् विस्वरं भृशम्
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः
राघवं शरणं जग्मुर् व्यथिताः खिन्नचेतसः
तम् आपतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम्
उत्पपात तदा वीरः सुग्रीवो वानराधिपः
स पर्वताग्रम् उत्क्षिप्य समाविध्य महाकपिः
अभिदुद्राव वेगेन कुम्भकर्णं महाबलम्
तम् आपतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवंगमम्
तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः
कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन्
कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यम् अब्रवीत्
पातिताश् च त्वया वीराः कृतं कर्म सुदुष्करम्
भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः
त्यज तद् वानरानीकं प्राकृतैः किं करिष्यसि
सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस
तद् वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम्
श्रुत्वा राक्षसशार्दूलः कुम्भकर्णो ऽब्रवीद् वचः
प्रजापतेस् तु पौत्रस् त्वं तथैवर्क्षरजःसुतः
श्रुतपौरुषसंपन्नस् तस्माद् गर्जसि वानर
स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच
तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसंनिभेन
तच् छैलशृङ्गं सहसा विकीर्णं भुजान्तरे तस्य तदा विशाले
ततो विषेदुः सहसा प्लवंगमा रक्षोगणाश् चापि मुदा विनेदुः
स शैलशृङ्गाभिहतश् चुकोप ननाद कोपाच् च विवृत्य वक्त्रम्
व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर् वधाय
तत् कुम्भकर्णस्य भुजप्रविद्धं शूलं शितं काञ्चनदामजुष्टम्
क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतो ऽनिलस्य
कृतं भारसहस्रस्य शूलं कालायसं महत्
बभञ्ज जनौम् आरोप्य प्रहृष्टः प्लवगर्षभः
स तत् तदा भग्नम् अवेक्ष्य शूलं चुकोप रक्षोऽधिपतिर् महात्मा
उत्पाट्य लङ्कामलयात् स शृङ्गं जघान सुग्रीवम् उपेत्य तेन
स शैलशृङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः
तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः
तम् अभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम्
जहार सुग्रीवम् अभिप्रगृह्य यथानिलो मेघम् अतिप्रचण्डः
स तं महामेघनिकाशरूपम् उत्पाट्य गच्छन् युधि कुम्भकर्णः
रराज मेरुप्रतिमानरूपो मेरुर् यथात्युच्छ्रितघोरशृङ्गः
ततः समुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः
शृण्वन् निनादं त्रिदशालयानां प्लवंगराजग्रहविस्मितानाम्
ततस् तम् आदाय तदा स मेने हरीन्द्रम् इन्द्रोपमम् इन्द्रवीर्यः
अस्मिन् हृते सर्वम् इदं हृतं स्यात् सराघवं सैन्यम् इतीन्द्रशत्रुः
विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस् ततः
कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम्
हनूमांश् चिन्तयाम् आस मतिमान् मारुतात्मजः
एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत्
यद् वै न्याय्यं मया कर्तुं तत् करिष्यामि सर्वथा
भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसं
मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेहे
विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्रवगाः समग्राः
अथ वा स्वयम् अप्य् एष मोक्षं प्राप्स्यति पार्थिवः
गृहीतो ऽयं यदि भवेत् त्रिदशैः सासुरोरगैः
मन्ये न तावद् आत्मानं बुध्यते वानराधिपः
शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे
अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे
आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः
अप्रीतश् च भवेत् कष्टा कीर्तिनाशश् च शाश्वतः
तस्मान् मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः
भिन्नं च वानरानीकं तावद् आश्वासयाम्य् अहम्
इत्य् एवं चिन्तयित्वा तु हनूमान् मारुतात्मजः
भूयः संस्तम्भयाम् आस वानराणां महाचमूम्
स कुम्भकर्णो ऽथ विवेश लङ्कां स्फुरन्तम् आदाय महाहरिं तम्
विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैर् अवकीर्यमाणः
ततः स संज्ञाम् उपलभ्य कृच्छ्राद् बलीयसस् तस्य भुजान्तरस्थः
अवेक्षमाणः पुरराजमार्गं विचिन्तयाम् आस मुहुर् महात्मा
एवं गृहीतेन कथं नु नाम शक्यं मया संप्रति कर्तुम् अद्य
तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम्
ततः कराग्रैः सहसा समेत्य राजा हरीणाम् अमरेन्द्रशत्रोः
नखैश् च कर्णौ दशनैश् च नासां ददंश पार्श्वेषु च कुम्भकर्णम्
स कुम्भकर्णौ हृतकर्णनासो विदारितस् तेन विमर्दितश् च
रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवम् आविध्य पिपेष भूमौ
स भूतले भीमबलाभिपिष्टः सुरारिभिस् तैर् अभिहन्यमानः
जगाम खं वेगवद् अभ्युपेत्य पुनश् च रामेण समाजगाम
कर्णनासा विहीनस्य कुम्भकर्णो महाबलः
रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैर् इव
ततः स पुर्याः सहसा महात्मा निष्क्रम्य तद् वानरसैन्यम् उग्रम्
बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निर् इव प्रदीप्तः
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद् वानरसैन्यम् उग्रम्
चखाद रक्षांसि हरीन् पिशाचान् ऋक्षांश् च मोहाद् युधि कुम्भकर्णः
एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः
समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे
संप्रस्रवंस् तदा मेदः शोणितं च महाबलः
वध्यमानो नगेन्द्राग्रैर् भक्षयाम् आस वानरान्
ते भक्ष्यमाणा हरयो रामं जग्मुस् तदा गतिम्
तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः
चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः
स कुम्भकर्णस्य शराञ् शरीरे सप्त वीर्यवान्
निचखानाददे चान्यान् विससर्ज च लक्ष्मणः
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः
रामम् एवाभिदुद्राव दारयन्न् इव मेदिनीम्
अथ दाशरथी रामो रौद्रम् अस्त्रं प्रयोजयन्
कुम्भकर्णस्य हृदये ससर्ज निशिताञ् शरान्
तस्य रामेण विद्धस्य सहसाभिप्रधावतः
अङ्गारमिश्राः क्रुद्धस्य मुखान् निश्चेरुर् अर्चिषः
तस्योरसि निमग्नाश् च शरा बर्हिणवाससः
हस्ताच् चास्य परिभ्रष्टा पपातोर्व्यां महागदा
स निरायुधम् आत्मानं यदा मेने महाबलः
मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत्
स बाणैर् अतिविद्धाङ्गः क्षतजेन समुक्षितः
रुधिरं परिसुस्राव गिरिः प्रस्रवणान् इव
स तीव्रेण च कोपेन रुधिरेण च मूर्छितः
वानरान् राक्षसान् ऋक्षान् खादन् विपरिधावति
तस्मिन् काले स धर्मात्मा लक्ष्मणो रामम् अब्रवीत्
कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून्
नैवायं वानरान् राजन् न विजानाति राक्षसान्
मत्तः शोणितगन्धेन स्वान् परांश् चैव खादति
साध्व् एनम् अधिरोहन्तु सर्वतो वानरर्षभाः
यूथपाश् च यथामुख्यास् तिष्ठन्त्व् अस्य समन्ततः
अप्य् अयं दुर्मतिः काले गुरुभारप्रपीडितः
प्रपतन् राक्षसो भूमौ नान्यान् हन्यात् प्लवंगमान्
तस्य तद् वचनं श्रुत्वा राजपुत्रस्य धीमतः
ते समारुरुहुर् हृष्टाः कुम्भकर्णं प्लवंगमाः
कुम्भकर्णस् तु संक्रुद्धः समारूढः प्लवंगमैः
व्यधूनयत् तान् वेगेन दुष्टहस्तीव हस्तिपान्
तान् दृष्ट्वा निर्धूतान् रामो रुष्टो ऽयम् इति राक्षसः
समुत्पपात वेगेन धनुर् उत्तमम् आददे
स चापम् आदाय भुजंगकल्पं दृढज्यम् उग्रं तपनीयचित्रम्
हरीन् समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः
स वानरगणैस् तैस् तु वृतः परमदुर्जयः
लक्ष्मणानुचरो रामः संप्रतस्थे महाबलः
स ददर्श महात्मानं किरीटिनम् अरिंदमम्
शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम्
सर्वान् समभिधावन्तं यथारुष्टं दिशा गजम्
मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम्
विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम्
स्रवन्तं रुधिरं वक्त्राद् वर्षमेघम् इवोत्थितम्
जिह्वया परिलिह्यन्तं शोणितं शोणितोक्षितम्
मृद्नन्तं वानरानीकं कालान्तकयमोपमम्
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं
विस्फारयाम् आस तदा कार्मुकं पुरुषर्षभः
स तस्य चापनिर्घोषात् कुपितो नैरृतर्षभः
अमृष्यमाणस् तं घोषम् अभिदुद्राव राघवम्
ततस् तु वातोद्धतमेघकल्पं भुजंगराजोत्तमभोगबाहुम्
तम् आपतन्तं धरणीधराभम् उवाच रामो युधि कुम्भकर्णम्
आगच्छ रक्षोऽधिपमा विषादम् अवस्थितो ऽहं प्रगृहीतचापः
अवेहि मां शक्रसपत्न रामम् अयं मुहूर्ताद् भविता विचेताः
रामो ऽयम् इति विज्ञाय जहास विकृतस्वनम्
पातयन्न् इव सर्वेषां हृदयानि वनौकसाम्
प्रहस्य विकृतं भीमं स मेघस्वनितोपमम्
कुम्भकर्णो महातेजा राघवं वाक्यम् अब्रवीत्
नाहं विराधो विज्ञेयो न कबन्धः खरो न च
न वाली न च मारीचः कुम्भकर्णो ऽहम् आगतः
पश्य मे मुद्गरं घोरं सर्वकालायसं महत्
अनेन निर्जिता देवा दानवाश् च मया पुरा
विकर्णनास इति मां नावज्ञातुं त्वम् अर्हसि
स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात्
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु
ततस् त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम्
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान्
तैर् आहतो वज्रसमप्रवेगैर् न चुक्षुभे न व्यथते सुरारिः
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुंगवश् च
ते कुम्भकर्णस्य तदा शरीरं वज्रोपमा न व्यथयां प्रचक्रुः
स वारिधारा इव सायकांस् तान् पिबञ् शरीरेण महेन्द्रशत्रुः
जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरम् उग्रवेगम्
ततस् तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम्
व्याविध्य तं मुद्गरम् उग्रवेगं विद्रावयाम् आस चमूं हरीणाम्
वायव्यम् आदाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय
समुद्गरं तेन जहार बाहुं स कृत्तबाहुस् तुमुलं ननाद
स तस्य बाहुर् गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः
पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहिनीं च
ते वानरा भग्नहतावशेषाः पर्यन्तम् आश्रित्य तदा विषण्णाः
प्रवेपिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधिपसंनिपातम्
स कुम्भकर्णो ऽस्त्रनिकृत्तबाहुर् महान् निकृत्ताग्र इवाचलेन्द्रः
उत्पाटयाम् आस करेण वृक्षं ततो ऽभिदुद्राव रणे नरेन्द्रम्
तं तस्य बाहुं सह सालवृक्षं समुद्यतं पन्नगभोगकल्पम्
ऐन्द्रास्त्रयुक्तेन जहार रामो बाणेन जाम्बूनदचित्रितेन
स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः
विवेष्टमानो निजघान वृक्षाञ् शैलाञ् शिलावानरराक्षसांश् च
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम्
द्वाव् अर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य
निकृत्तबाहुर् विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम्
दुद्राव रामं सहसाभिगर्जन् राहुर् यथा चन्द्रम् इवान्तरिक्षे
अपूरयत् तस्य मुखं शिताग्रै रामः शरैर् हेमपिनद्धपुङ्खैः
स पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमोह चापि
अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम्
अरिष्टम् ऐन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम्
तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम्
महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय
स सायको राघवबाहुचोदितो दिशः स्वभासा दश संप्रकाशयन्
विधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनितुल्यविक्रमः
स तन् महापर्वतकूटसंनिभं विवृत्तदंष्ट्रं चलचारुकुण्डलम्
चकर्त रक्षोऽधिपतेः शिरस् तदा यथैव वृत्रस्य पुरा पुरंदरः
तद् रामबाणाभिहतं पपात रक्षःशिरः पर्वतसंनिकाशम्
बभञ्ज चर्यागृहगोपुराणि प्राकारम् उच्चं तम् अपातयच् च
तच् चातिकायं हिमवत्प्रकाशं रक्षस् तदा तोयनिधौ पपात
ग्राहान् महामीनचयान् भुजंगमान् ममर्द भूमिं च तथा विवेश
तस्मिर् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे
चचाल भूर् भूमिधराश् च सर्वे हर्षाच् च देवास् तुमुलं प्रणेदुः
ततस् तु देवर्षिमहर्षिपन्नगाः सुराश् च भूतानि सुपर्णगुह्यकाः
सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता राम पराक्रमेण
प्रहर्षम् ईयुर् बहवस् तु वानराः प्रबुद्धपद्मप्रतिमैर् इवाननैः
अपूजयन् राघवम् इष्टभागिनं हते रिपौ भीमबले दुरासदे
स कुम्भकर्णं सुरसैन्यमर्दनं महत्सु युद्धेष्व् अपराजितश्रमम्
ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रम् इवामराधिपः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0