रामायण · अध्याय 6.056
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्
श्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम्
रावणः शोकसंतप्तो मुमोह च पपात च
पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ
त्रिशिराश् चातिकायश् च रुरुदुः शोकपीडिताः
भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा
महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः
ततः कृच्छ्रात् समासाद्य संज्ञां राक्षसपुंगवः
कुम्भकर्णवधाद् दीनो विललाप स रावणः
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल
शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि
इदानीं खल्व् अहं नास्मि यस्य मे पतितो भुजः
दक्षिणो यं समाश्रित्य न बिभेमि सुरासुरान्
कथम् एवंविधो वीरो देवदानवदर्पहा
कालाग्निप्रतिमो ह्य् अद्य राघवेण रणे हतः
यस्य ते वज्रनिष्पेषो न कुर्याद् व्यसनं सदा
स कथं रामबाणार्तः प्रसुप्तो ऽसि महीतले
एते देवगणाः सार्धम् ऋषिभिर् गगने स्थिताः
निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः
ध्रुवम् अद्यैव संहृष्टा लब्धलक्ष्याः प्लवंगमाः
आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया
कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः
यद्य् अहं भ्रातृहन्तारं न हन्मि युधि राघवम्
ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम्
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम
न हि भ्रातॄन् समुत्सृज्य क्षणं जीवितुम् उत्सहे
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्
कथम् इन्द्रं जयिष्यामि कुम्भकर्णहते त्वयि
तद् इदं माम् अनुप्राप्तं विभीषणवचः शुभम्
यद् अज्ञानान् मया तस्य न गृहीतं महात्मनः
विभीषणवचो यावत् कुम्भकर्णप्रहस्तयोः
विनाशो ऽयं समुत्पन्नो मां व्रीडयति दारुणः
तस्यायं कर्मणः प्रातो विपाको मम शोकदः
यन् मया धार्मिकः श्रीमान् स निरस्तो विभीषणः
इति बहुविधम् आकुलान्तरात्मा कृपणम् अतीव विलप्य कुम्भकर्णम्
न्यपतद् अथ दशाननो भृशार्तस् तम् अनुजम् इन्द्ररिपुं हतं विदित्वा
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0