रामायण · अध्याय 6.054
स ननाद महानादं समुद्रम् अभिनादयन्
जनयन्न् इव निर्घातान् विधमन्न् इव पर्वतान्
तम् अवध्यं मघवता यमेन वरुणेन च
प्रेक्ष्य भीमाक्षम् आयान्तं वानरा विप्रदुद्रुवुः
तांस् तु विद्रवतो दृष्ट्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत्
नलं नीलं गवाक्षं च कुमुदं च महाबलम्
आत्मानम् अत्र विस्मृत्य वीर्याण्य् अभिजनानि च
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा
साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ
नालं युद्धाय वै रक्षो महतीयं विभीषिकाः
महतीम् उत्थिताम् एनां राक्षसानां विभीषिकाम्
विक्रमाद् विधमिष्यामो निवर्तध्वं प्लवंगमाः
कृच्छ्रेण तु समाश्वास्य संगम्य च ततस् ततः
वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम्
ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः
निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः
प्रांशुभिर् गिरिशृङ्गैश् च शिलाभिश् च महाबलाः
पादपैः पुष्पिताग्रैश् च हन्यमानो न कम्पते
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः
पादपाः पुष्पिताग्राश् च भग्नाः पेतुर् महीतले
सो ऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम्
ममन्थ परमायत्तो वनान्य् अग्निर् इवोत्थितः
लोहितार्द्रास् तु बहवः शेरते वानरर्षभाः
निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन्
के चित् समुद्रे पतिताः के चिद् गगनम् आश्रिताः
वध्यमानास् तु ते वीरा राक्षसेन बलीयसा
सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः
ते स्थलानि तथा निम्नं विषण्णवदना भयात्
ऋक्षा वृक्षान् समारूढाः के चित् पर्वतम् आश्रिताः
ममज्जुर् अर्णवे के चिद् गुहाः के चित् समाश्रिताः
निषेदुः प्लवगाः के चित् के चिन् नैवावतस्थिरे
तान् समीक्ष्याङ्गदो भङ्गान् वानरान् इदम् अब्रवीत्
अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः
भग्नानां वो न पश्यामि परिगम्य महीम् इमाम्
स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ
निरायुधानां द्रवताम् असंगगतिपौरुषाः
दारा ह्य् अपहसिष्यन्ति स वै घातस् तु जीविताम्
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च
अनार्याः खलु यद् भीतास् त्यक्त्वा वीर्यं प्रधावत
विकत्थनानि वो यानि यदा वै जनसंसदि
तानि वः क्व च यतानि सोदग्राणि महान्ति च
भीरुप्रवादाः श्रूयन्ते यस् तु जीवति धिक्कृतः
मार्गः सत्पुरुषैर् जुष्टः सेव्यतां त्यज्यतां भयम्
शयामहे वा निहताः पृथिव्याम् अल्पजीविताः
दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः
संप्राप्नुयामः कीर्तिं वा निहत्य शत्रुम् आहवे
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति
दीप्यमानम् इवासाद्य पतंगो ज्वलनं यथा
पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्
एकेन बहवो भग्ना यशो नाशं गमिष्यति
एवं ब्रुवाणं तं शूरम् अङ्गदं कनकाङ्गदम्
द्रवमाणास् ततो वाक्यम् ऊचुः शूरविगर्हितम्
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा
न स्थानकालो गच्छामो दयितं जीवितं हि नः
एतावद् उक्त्वा वचनं सर्वे ते भेजिरे दिशः
भीमं भीमाक्षम् आयान्तं दृष्ट्वा वानरयूथपाः
द्रवमाणास् तु ते वीरा अङ्गदेन वलीमुखाः
सान्त्वैश् च बहुमानैश् च ततः सर्वे निवर्तिताः
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः
द्विविदपनसवायुपुत्रमुख्यास् त्वरिततराभिमुखं रणं प्रयाताः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0