भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.052

6.052.001

तद् उक्तम् अतिकायस्य बलिनो बाहुशालिनः
कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः

6.052.002

कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः
अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम्

6.052.003

न हि राजा न जानीते कुम्भकर्ण नयानयौ
त्वं तु कैशोरकाद् धृष्टः केवलं वक्तुम् इच्छसि

6.052.004

स्थानं वृद्धिं च हानिं च देशकालविभागवित्
आत्मनश् च परेषां च बुध्यते राक्षसर्षभ

6.052.005

यत् तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना
अनुपासितवृद्धेन कः कुर्यात् तादृशं बुधः

6.052.006

यांस् तु धर्मार्थकामांस् त्वं ब्रवीषि पृथग् आश्रयान्
अनुबोद्धुं स्वभावेन न हि लक्षणम् अस्ति ते

6.052.007

कर्म चैव हि सर्वेषां कारणानां प्रयोजनम्
श्रेयः पापीयसां चात्र फलं भवति कर्मणाम्

6.052.008

निःश्रेयस फलाव् एव धर्मार्थाव् इतराव् अपि
अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम्

6.052.009

ऐहलौकिकपारत्र्यं कर्म पुम्भिर् निषेव्यते
कर्माण्य् अपि तु कल्प्यानि लभते कामम् आस्थितः

6.052.010

तत्र कॢप्तम् इदं राज्ञा हृदि कार्यं मतं च नः
शत्रौ हि साहसं यत् स्यात् किम् इवात्रापनीयते

6.052.011

एकस्यैवाभियाने तु हेतुर् यः प्रकृतस् त्वया
तत्राप्य् अनुपपन्नं ते वक्ष्यामि यद् असाधु च

6.052.012

येन पूर्वं जनस्थाने बहवो ऽतिबला हताः
राक्षसा राघवं तं त्वं कथम् एको जयिष्यसि

6.052.013

ये पुरा निर्जितास् तेन जनस्थाने महौजसः
राक्षसांस् तान् पुरे सर्वान् भीतान् अद्यापि पश्यसि

6.052.014

तं सिंहम् इव संक्रुद्धं रामं दशरथात्मजम्
सर्पं सुप्तम् इवाबुद्ध्या प्रबोधयितुम् इच्छसि

6.052.015

ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्
कस् तं मृत्युम् इवासह्यम् आसादयितुम् अर्हति

6.052.016

संशयस्थम् इदं सर्वं शत्रोः प्रतिसमासने
एकस्य गमनं तत्र न हि मे रोचते तव

6.052.017

हीनार्थस् तु समृद्धार्थं को रिपुं प्राकृतो यथा
निश्चितं जीवितत्यागे वशम् आनेतुम् इच्छति

6.052.018

यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम
कथम् आशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः

6.052.019

एवम् उक्त्वा तु संरब्धं कुम्भकर्णं महोदरः
उवाच रक्षसां मध्ये रावणो लोकरावणम्

6.052.020

लब्ध्वा पुनस् तां वैदेहीं किमर्थं त्वं प्रजल्पसि
यदेच्छसि तदा सीता वशगा ते भविष्यति

6.052.021

दृष्टः कश् चिद् उपायो मे सीतोपस्थानकारकः
रुचितश् चेत् स्वया बुद्ध्या राक्षसेश्वर तं शृणु

6.052.022

अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः
पञ्चरामवधायैते निर्यान्तीत्य् अवघोषय

6.052.023

ततो गत्वा वयं युद्धं दास्यामस् तस्य यत्नतः
जेष्यामो यदि ते शत्रून् नोपायैः कृत्यम् अस्ति नः

6.052.024

अथ जीवति नः शत्रुर् वयं च कृतसंयुगाः
ततः समभिपत्स्यामो मनसा यत् समीक्षितुम्

6.052.025

वयं युद्धाद् इहैष्यामो रुधिरेण समुक्षिताः
विदार्य स्वतनुं बाणै रामनामाङ्कितैः शितैः

6.052.026

भक्षितो राघवो ऽस्माभिर् लक्ष्मणश् चेति वादिनः
तव पादौ ग्रहीष्यामस् त्वं नः काम प्रपूरय

6.052.027

ततो ऽवघोषय पुरे गजस्कन्धेन पार्थिव
हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः

6.052.028

प्रीतो नाम ततो भूत्वा भृत्यानां त्वम् अरिंदम
भोगांश् च परिवारांश् च कामांश् च वसुदापय

6.052.029

ततो माल्यानि वासांसि वीराणाम् अनुलेपनम्
पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब

6.052.030

ततो ऽस्मिन् बहुलीभूते कौलीने सर्वतो गते
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय
धनधान्यैश् च कामैश् च रत्नैश् चैनां प्रलोभय

6.052.031

अनयोपधया राजन् भयशोकानुबन्धया
अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति

6.052.032

रञ्जनीयं हि भर्तारं विनष्टम् अवगम्य सा
नैराश्यात् स्त्रीलघुत्वाच् च त्वद्वशं प्रतिपत्स्यते

6.052.033

सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता
त्वय्य् अधीनः सुखं ज्ञात्वा सर्वथोपगमिष्यति

6.052.034

एतत् सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेद् अनर्थः
इहैव ते सेत्स्यति मोत्सुको भूर् महान् अयुद्धेन सुखस्य लाभः

6.052.035

अनष्टसैन्यो ह्य् अनवाप्तसंशयो रिपून् अयुद्धेन जयञ् जनाधिप
यशश् च पुण्यं च महन् महीपते श्रियं च कीर्तिं च चिरं समश्नुते

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc