रामायण · अध्याय 6.053
स तथोक्तस् तु निर्भर्त्स्य कुम्भकर्णो महोदरम्
अब्रवीद् राक्षसश्रेष्ठं भ्रातरं रावणं ततः
सो ऽहं तव भयं घोरं वधात् तस्य दुरात्मनः
रामस्याद्य प्रमार्जामि निर्वैरस् त्वं सुखीभव
गर्जन्ति न वृथा शूर निर्जला इव तोयदाः
पश्य संपाद्यमानं तु गर्जितं युधि कर्मणा
न मर्षयति चात्मानं संभावयति नात्मना
अदर्शयित्वा शूरास् तु कर्म कुर्वन्ति दुष्करम्
विक्लवानाम् अबुद्धीनां राज्ञां पण्डितमानिनाम्
शृण्वताम् आदित इदं त्वद्विधानां महोदर
युद्धे कापुरुषैर् नित्यं भवद्भिः प्रियवादिभिः
राजानम् अनुगच्छद्भिः कृत्यम् एतद् विनाशितम्
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्
राजानम् इमम् आसाद्य सुहृच्चिह्नम् अमित्रकम्
एष निर्याम्य् अहं युद्धम् उद्यतः शत्रुनिर्जये
दुर्नयं भवताम् अद्य समीकर्तुं महाहवे
एवम् उक्तवतो वाक्यं कुम्भकर्णस्य धीमतः
प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः
महोदरो ऽयं रामात् तु परित्रस्तो न संशयः
न हि रोचयते तात युद्धं युद्धविशारद
कश् चिन् मे त्वत्समो नास्ति सौहृदेन बलेन च
गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च
आददे निशितं शूलं वेगाच् छत्रुनिबर्हणः
सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम्
इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम्
देवदानवगन्धर्वयक्षकिंनरसूदनम्
रक्तमाल्य महादाम स्वतश् चोद्गतपावकम्
आदाय निशितं शूलं शत्रुशोणितरञ्जितम्
कुम्भकर्णो महातेजा रावणं वाक्यम् अब्रवीत्
गमिष्याम्य् अहम् एकाकी तिष्ठत्व् इह बलं महत्
अद्य तान् क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान्
कुम्भकर्णवचः श्रुत्वा रावणो वाक्यम् अब्रवीत्
सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः
वानरा हि महात्मानः शीघ्राश् च व्यवसायिनः
एकाकिनं प्रमत्तं वा नयेयुर् दशनैः क्षयम्
तस्मात् परमदुर्धर्षैः सैन्यैः परिवृतो व्रज
रक्षसाम् अहितं सर्वं शत्रुपक्षं निसूदय
अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम्
आबबन्ध महातेजाः कुम्भकर्णस्य रावणः
अङ्गदान् अङ्गुलीवेष्टान् वराण्य् आभरणानि च
हारं च शशिसंकाशम् आबबन्ध महात्मनः
दिव्यानि च सुगन्धीनि माल्यदामानि रावणः
श्रोत्रे चासज्जयाम् आस श्रीमती चास्य कुण्डले
काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः
कुम्भकर्णो बृहत्कर्णः सुहुतो ऽग्निर् इवाबभौ
श्रोणीसूत्रेण महता मेचकेन विराजितः
अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः
स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तम् इवात्मभासा
आबध्यमानः कवचं रराज संध्याभ्रसंवीत इवाद्रिराजः
सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः
त्रिविक्रमकृतोत्साहो नारायण इवाबभौ
भ्रातरं संपरिष्वज्य कृत्वा चापि प्रदक्षिणम्
प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलिः
तम् आशीर्भिः प्रशस्ताभिः प्रेषयाम् आस रावणः
शङ्खदुन्दुभिनिर्घोषैः सैन्यैश् चापि वरायुधैः
तं गजैश् च तुरंगैश् च स्यन्दनैश् चाम्बुदस्वनैः
अनुजग्मुर् महात्मानं रथिनो रथिनां वरम्
सर्पैर् उष्ट्रैः खरैर् अश्वैः सिंहद्विपमृगद्विजैः
अनुजग्मुश् च तं घोरं कुम्भकर्णं महाबलम्
स पुष्पवर्णैर् अवकीर्यमाणो धृतातपत्रः शितशूलपाणिः
मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः
पदातयश् अ बहवो महानादा महाबलाः
अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः
रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः
शूरान् उद्यम्य खड्गांश् च निशितांश् च परश्वधान्
बहुव्यामांश् च विपुलान् क्षेपणीयान् दुरासदान्
तालस्कन्धांश् च विपुलान् क्षेपणीयान् दुरासदान्
अथान्यद् वपुर् आदाय दारुणं लोमहर्षणम्
निष्पपात महातेजाः कुम्भकर्णो महाबलः
धनुःशतपरीणाहः स षट्शतसमुच्छितः
रौद्रः शकटचक्राक्षो महापर्वतसंनिभः
संनिपत्य च रक्षांसि दग्धशैलोपमो महान्
कुम्भकर्णो महावक्त्रः प्रहसन्न् इदम् अब्रवीत्
अद्य वानरमुख्यानां तानि यूथानि भागशः
निर्दहिष्यामि संक्रुद्धः शलभान् इव पावकः
नापराध्यन्ति मे कामं वानरा वनचारिणः
जातिर् अस्मद्विधानां सा पुरोद्यानविभूषणम्
पुररोधस्य मूलं तु राघवः सहलक्ष्मणः
हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः
नादं चक्रुर् महाघोरं कम्पयन्त इवार्णवम्
तस्य निष्पततस् तूर्णं कुम्भकर्णस्य धीमतः
बभूवुर् घोररूपाणि निमित्तानि समन्ततः
उल्काशनियुता मेघा विनेदुश् च सुदारुणाः
ससागरवना चैव वसुधा समकम्पत
घोररूपाः शिवा नेदुः सज्वालकवलैर् मुखैः
मण्डलान्य् अपसव्यानि बबन्धुश् च विहंगमाः
निष्पपात च गृध्रे ऽस्य शूले वै पथि गच्छतः
प्रास्फुरन् नयनं चास्य सव्यो बाहुर् अकम्पत
निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वना
आदित्यो निष्प्रभश् चासीन् न प्रवाति सुखो ऽनिलः
अचिन्तयन् महोत्पातान् उत्थितांल् लोमहर्षणान्
निर्ययौ कुम्भकर्णस् तु कृतान्तबलचोदितः
स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः
ददर्शाभ्रघनप्रख्यं वानरानीकम् अद्भुतम्
ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्
वायुनुन्ना इव घना ययुः सर्वा दिशस् तदा
तद् वानरानीकम् अतिप्रचण्डं दिशो द्रवद् भिन्नम् इवाभ्रजालम्
स कुम्भकर्णः समवेक्ष्य हर्षान् ननाद भूयो घनवद् घनाभः
ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य
पेतुर् धरण्यां बहवः प्लवंगा निकृत्तमूला इव सालवृक्षाः
विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनिःसृतो महात्मा
कपि गणभयम् आददत् सुभीमं प्रभुर् इव किंकरदण्डवान् युगान्ते
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0