रामायण · अध्याय 6.051
तस्य राक्षसराजस्य निशम्य परिदेवितम्
कुम्भकर्णो बभाषे ऽथ वचनं प्रजहास च
दृष्टो दोषो हि यो ऽस्माभिः पुरा मन्त्रविनिर्णये
हितेष्व् अनभियुक्तेन सो ऽयम् आसादितस् त्वया
शीघ्रं खल्व् अभ्युपेतं त्वां फलं पापस्य कर्मणः
निरयेष्व् एव पतनं यथा दुष्कृतकर्मणः
प्रथमं वै महाराज कृत्यम् एतद् अचिन्तितम्
केवलं वीर्यदर्पेण नानुबन्धो विचारितः
यः पश्चात् पूर्वकार्याणि कुर्याद् ऐश्वर्यम् आस्थितः
पूर्वं चोत्तरकार्याणि न स वेद नयानयौ
देशकालविहीनानि कर्माणि विपरीतवत्
क्रियमाणानि दुष्यन्ति हवींष्य् अप्रयतेष्व् इव
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति
सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि
यथागमं च यो राजा समयं विचिकीर्षति
बुध्यते सचिवान् बुद्ध्या सुहृदश् चानुपश्यति
धर्मम् अर्थं च कामं च सर्वान् वा रक्षसां पते
भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः
त्रिषु चैतेषु यच् छ्रेष्ठं श्रुत्वा तन् नावबुध्यते
राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम्
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम्
योगं च रक्षसां श्रेष्ठ ताव् उभौ च नयानयौ
काले धर्मार्थकामान् यः संमन्त्र्य सचिवैः सह
निषेवेतात्मवांल् लोके न स व्यसनम् आप्नुयात्
हितानुबन्धम् आलोक्य कार्याकार्यम् इहात्मनः
राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः
प्रागल्भ्याद् वक्तुम् इच्छन्ति मन्त्रेष्व् अभ्यन्तरीकृताः
अशास्त्रविदुषां तेषां न कार्यम् अहितं वचः
अर्थशास्त्रानभिज्ञानां विपुलां श्रियम् इच्छताम्
अहितं च हिताकारं धार्ष्ट्याज् जल्पन्ति ये नराः
अवेक्ष्य मन्त्रबाह्यास् ते कर्तव्याः कृत्यदूषणाः
विनाशयन्तो भर्तारं सहिताः शत्रुभिर् बुधैः
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः
तान् भर्ता मित्रसंकाशान् अमित्रान् मन्त्रनिर्णये
व्यवहारेण जानीयात् सचिवान् उपसंहितान्
चपलस्येह कृत्यानि सहसानुप्रधावतः
छिद्रम् अन्ये प्रपद्यन्ते क्रौञ्चस्य खम् इव द्विजाः
यो हि शत्रुम् अवज्ञाय नात्मानम् अभिरक्षति
अवाप्नोति हि सो ऽनर्थान् स्थानाच् च व्यवरोप्यते
तत् तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्
भ्रुकुटिं चैव संचक्रे क्रुद्धश् चैनम् उवाच ह
मान्यो गुरुर् इवाचार्यः किं मां त्वम् अनुशासति
किम् एवं वाक्श्रमं कृत्वा काले युक्तं विधीयताम्
विभ्रमाच् चित्तमोहाद् वा बलवीर्याश्रयेण वा
नाभिपन्नम् इदानीं यद् व्यर्थास् तस्य पुनः कृथाः
अस्मिन् काले तु यद् युक्तं तद् इदानीं विधीयताम्
ममापनयजं दोषं विक्रमेण समीकुरु
यदि खल्व् अस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि
यदि वा कार्यम् एतत् ते हृदि कार्यतमं मतम्
स सुहृद्यो विपन्नार्थं दीनम् अभ्यवपद्यते
स बन्धुर् यो ऽपनीतेषु साहाय्यायोपकल्पते
तम् अथैवं ब्रुवाणं तु वचनं धीरदारुणम्
रुष्टो ऽयम् इति विज्ञाय शनैः श्लक्ष्णम् उवाच ह
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम्
कुम्भकर्णः शनैर् वाक्यं बभाषे परिसान्त्वयन्
अलं राक्षसराजेन्द्र संतापम् उपपद्य ते
रोषं च संपरित्यज्य स्वस्थो भवितुम् अर्हसि
नैतन् मनसि कर्तव्व्यं मयि जीवति पार्थिव
तम् अहं नाशयिष्यामि यत्कृते परितप्यसे
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव
बन्धुभावाद् अभिहितं भ्रातृस्नेहाच् च पार्थिव
सदृशं यत् तु काले ऽस्मिन् कर्तुं स्निग्धेन बन्धुना
शत्रूणां कदनं पश्य क्रियमाणं मया रणे
अद्य पश्य महाबाहो मया समरमूर्धनि
हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम्
अद्य रामस्य तद् दृष्ट्वा मयानीतं रणाच् छिरः
सुखीभव महाबाहो सीता भवतु दुःखिता
अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम्
लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः
अद्य शोकपरीतानां स्वबन्धुवधकारणात्
शत्रोर् युधि विनाशेन करोम्य् अस्रप्रमार्जनम्
अद्य पर्वतसंकाशं ससूर्यम् इव तोयदम्
विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम्
न परः प्रेषणीयस् ते युद्धायातुल विक्रम
अहम् उत्सादयिष्यामि शत्रूंस् तव महाबल
यदि शक्रो यदि यमो यदि पावकमारुतौ
तान् अहं योधयिष्यामि कुबेर वरुणाव् अपि
गिरिमात्रशरीरस्य शितशूलधरस्य मे
नर्दतस् तीक्ष्णदंष्ट्रस्य बिभीयाच् च पुरंदरः
अथ वा त्यक्तशस्त्रस्य मृद्गतस् तरसा रिपून्
न मे प्रतिमुखे कश् चिच् छक्तः स्थातुं जिजीविषुः
नैव शक्त्या न गदया नासिना न शितैः शरैः
हस्ताभ्याम् एव संरब्धो हनिष्याम्य् अपि वज्रिणम्
यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यति
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते
चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति
सो ऽहं शत्रुविनाशाय तव निर्यातुम् उद्यतः
मुञ्च रामाद् भयं राजन् हनिष्यामीह संयुगे
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम्
असाधारणम् इच्छामि तव दातुं महद् यशः
वधेन ते दाशरथेः सुखावहं सुखं समाहर्तुम् अहं व्रजामि
निहत्य रामं सहलक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान्
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः
मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0