भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.050

6.050.001

स तु राक्षसशार्दूलो निद्रामदसमाकुलः
राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः

6.050.002

राक्षसानां सहस्रैश् च वृतः परमदुर्जयः
गृहेभ्यः पुष्पवर्षेण कार्यमाणस् तदा ययौ

6.050.003

स हेमजालविततं भानुभास्वरदर्शनम्
ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम्

6.050.004

स तत् तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोऽधिपतेर् निवेशनम्
ददर्श दूरे ऽग्रजम् आसनस्थं स्वयम्भुवं शक्र इवासनस्थम्

6.050.005

सो ऽभिगम्य गृहं भ्रातुः कक्ष्याम् अभिविगाह्य च
ददर्शोद्विग्नम् आसीनं विमाने पुष्पके गुरुम्

6.050.006

अथ दृष्ट्वा दशग्रीवः कुम्भकर्णम् उपस्थितम्
तूर्णम् उत्थाय संहृष्टः संनिकर्षम् उपानयत्

6.050.007

अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः
भ्रातुर् ववन्दे चरणां किं कृत्यम् इति चाब्रवीत्
उत्पत्य चैनं मुदितो रावणः परिषस्वजे

6.050.008

स भ्रात्रा संपरिष्वक्तो यथावच् चाभिनन्दितः
कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम्

6.050.009

स तदासनम् आश्रित्य कुम्भकर्णो महाबलः
संरक्तनयनः कोपाद् रावणं वाक्यम् अब्रवीत्

6.050.010

किमर्थम् अहम् आदृत्य त्वया राजन् प्रबोधितः
शंस कस्माद् भयं ते ऽस्ति को ऽद्य प्रेतो भविष्यति

6.050.011

भ्रातरं रावणः क्रुद्धं कुम्भकर्णम् अवस्थितम्
ईषत् तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यम् अब्रवीत्

6.050.012

अद्य ते सुमहान् कालः शयानस्य महाबल
सुखितस् त्वं न जानीषे मम रामकृतं भयम्

6.050.013

एष दाशरथी रामः सुग्रीवसहितो बली
समुद्रं सबलस् तीर्त्वा मूलं नः परिकृन्तति

6.050.014

हन्त पश्यस्व लङ्काया वनान्य् उपवनानि च
सेतुना सुखम् आगम्य वानरैकार्णवं कृतम्

6.050.015

ये राक्षसा मुख्यतमा हतास् ते वानरैर् युधि
वानराणां क्षयं युद्धे न पश्यामि कदा चन

6.050.016

सर्वक्षपितकोशं च स त्वम् अभ्यवपद्य माम्
त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम्

6.050.017

भ्रातुर् अर्थे महाबाहो कुरु कर्म सुदुष्करम्
मयैवं नोक्तपूर्वो हि कश् चिद् भ्रातः परंतप
त्वय्य् अस्ति मम च स्नेहः परा संभावना च मे

6.050.018

देवासुरविमर्देषु बहुशो राक्षसर्षभ
त्वया देवाः प्रतिव्यूह्य निर्जिताश् चासुरा युधि
न हि ते सर्वभूतेषु दृश्यते सदृशो बली

6.050.019

कुरुष्व मे प्रियहितम् एतद् उत्तमं यथाप्रियं प्रियरणबान्धवप्रिय
स्वतेजसा विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc