भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.047

6.047.001

तस्मिन् हते राक्षससैन्यपाले प्लवंगमानाम् ऋषभेण युद्धे
भीमायुधं सागरतुल्यवेगं प्रदुद्रुवे राक्षसराजसैन्यम्

6.047.002

गत्वा तु रक्षोऽधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम्
तच् चापि तेषां वचनं निशम्य रक्षोऽधिपः क्रोधवशं जगाम

6.047.003

संख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः
उवाच तान् नैरृतयोधमुख्यान् इन्द्रो यथा चामरयोधमुख्यान्

6.047.004

नावज्ञा रिपवे कार्या यैर् इन्द्रबलसूदनः
सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः

6.047.005

सो ऽहं रिपुविनाशाय विजयायाविचारयन्
स्वयम् एव गमिष्यामि रणशीर्षं तद् अद्भुतम्

6.047.006

अद्य तद् वानरानीकं रामं च सहलक्ष्मणम्
निर्दहिष्यामि बाणौघैर् वनं दीप्तैर् इवाग्निभिः

6.047.007

स एवम् उक्त्वा ज्वलनप्रकाशं रथं तुरंगोत्तमराजियुक्तम्
प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः

6.047.008

स शङ्खभेरीपटह प्रणादैर् आस्फोटितक्ष्वेडितसिंहनादैः
पुण्यैः स्तवैश् चाप्य् अभिपूज्यमानस् तदा ययौ राक्षसराजमुख्यः

6.047.009

स शैलजीमूतनिकाश रूपैर् मांसाशनैः पावकदीप्तनेत्रैः
बभौ वृतो राक्षसराजमुख्यैर् भूतैर् वृतो रुद्र इवामरेशः

6.047.010

ततो नगर्याः सहसा महौजा निष्क्रम्य तद् वानरसैन्यम् उग्रम्
महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम्

6.047.011

तद् राक्षसानीकम् अतिप्रचण्डम् आलोक्य रामो भुजगेन्द्रबाहुः
विभीषणं शस्त्रभृतां वरिष्ठम् उवाच सेनानुगतः पृथुश्रीः

6.047.012

नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधचक्रजुष्टम्
सैन्यं नगेन्द्रोपमनागजुष्टं कस्येदम् अक्षोभ्यम् अभीरुजुष्टम्

6.047.013

ततस् तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः
शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुंगवानाम्

6.047.014

यो ऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः
प्रकम्पयन् नागशिरो ऽभ्युपैति ह्य् अकम्पनं त्व् एनम् अवेहि राजन्

6.047.015

यो ऽसौ रथस्थो मृगराजकेतुर् धून्वन् धनुः शक्रधनुःप्रकाशम्
करीव भात्य् उग्रविवृत्तदंष्ट्रः स इन्द्रजिन् नाम वरप्रधानः

6.047.016

यश् चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थो ऽतिरथो ऽतिवीर्यः
विस्फारयंश् चापम् अतुल्यमानं नाम्नातिकायो ऽतिविवृद्धकायः

6.047.017

यो ऽसौ नवार्कोदितताम्रचक्षुर् आरुह्य घण्टानिनदप्रणादम्
गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः

6.047.018

यो ऽसौ हयं काञ्चनचित्रभाण्डम् आरुह्य संध्याभ्रगिरिप्रकाशम्
प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषाशनितुल्यवेगः

6.047.019

यश् चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवज्रवेगम्
वृषेन्द्रम् आस्थाय गिरिप्रकाशम् आयाति सो ऽसौ त्रिशिरा यशस्वी

6.047.020

असौ च जीमूतनिकाश रूपः कुम्भः पृथुव्यूढसुजातवक्षाः
समाहितः पन्नगराजकेतुर् विस्फारयन् भाति धनुर् विधून्वन्

6.047.021

यश् चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य
आयाति रक्षोबलकेतुभूतः सो ऽसौ निकुम्भो ऽद्भुतघोरकर्मा

6.047.022

यश् चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम्
रथं समास्थाय विभात्य् उदग्रो नरान्तको ऽसौ नगशृङ्गयोधी

6.047.023

यश् चैष नानाविधघोररूपैर् व्याघ्रोष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः
भूतैर् वृतो भाति विवृत्तनेत्रैः सो ऽसौ सुराणाम् अपि दर्पहन्ता

6.047.024

यत्रैतद् इन्दुप्रतिमं विभातिच् छत्त्रं सितं सूक्ष्मशलाकम् अग्र्यम्
अत्रैष रक्षोऽधिपतिर् महात्मा भूतैर् वृतो रुद्र इवावभाति

6.047.025

असौ किरीटी चलकुण्डलास्यो नागेन्द्रविन्ध्योपमभीमकायः
महेन्द्रवैवस्वतदर्पहन्ता रक्षोऽधिपः सूर्य इवावभाति

6.047.026

प्रत्युवाच ततो रामो विभीषणम् अरिंदमम्
अहो दीप्तो महातेजा रावणो राक्षसेश्वरः

6.047.027

आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर् भाति रावणः
सुव्यक्तं लक्षये ह्य् अस्य रूपं तेजःसमावृतम्

6.047.028

देवदानववीराणां वपुर् नैवंविधं भवेत्
यादृशं राक्षसेन्द्रस्य वपुर् एतत् प्रकाशते

6.047.029

सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः
सर्वे दीप्तायुधधरा योधश् चास्य महौजसः

6.047.030

भाति राक्षसराजो ऽसौ प्रदीप्तैर् भीमविक्रमैः
भूतैः परिवृतस् तीक्ष्णैर् देहवद्भिर् इवान्तकः

6.047.031

एवम् उक्त्वा ततो रामो धनुर् आदाय वीर्यवान्
लक्ष्मणानुचरस् तस्थौ समुद्धृत्य शरोत्तमम्

6.047.032

ततः स रक्षोऽधिपतिर् महात्मा रक्षांसि तान्य् आह महाबलानि
द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास् तिष्ठत निर्विशङ्काः

6.047.033

विसर्जयित्वा सहसा ततस् तान् गतेषु रक्षःसु यथानियोगम्
व्यदारयद् वानरसागरौघं महाझषः पूर्मम् इवार्णवौघम्

6.047.034

तम् आपतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम्
महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोऽधिपतिं हरीशः

6.047.035

तच् छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय
तम् आपतन्तं सहसा समीक्ष्य बिभेद बाणैस् तपनीयपुङ्खैः

6.047.036

तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विकीर्णे पतिते पृथिव्याम्
महाहिकल्पं शरम् अन्तकाभं समाददे राक्षसलोकनाथः

6.047.037

स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम्
बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः

6.047.038

स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः
सुग्रीवम् आसाद्य बिभेद वेगाद् गुहेरिता क्रौचम् इवोग्रशक्तिः

6.047.039

स सायकार्तो विपरीतचेताः कूजन् पृथिव्यां निपपात वीरः
तं प्रेक्ष्य भूमौ पतितं विसंज्मं नेदुः प्रहृष्टा युधि यातुधानाः

6.047.040

ततो गवाक्षो गवयः सुदंष्ट्रस् तथर्षभो ज्योतिमुखो नलश् च
शैलान् समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस् तं प्रति राक्षसेन्द्रम्

6.047.041

तेषां प्रहारान् स चकार मेघान् रक्षोऽधिपो बाणगणैः शिताग्रैः
तान् वानरेन्द्रान् अपि बाणजालैर् बिभेद जाम्बूनदचित्रपुङ्खैः

6.047.042

ते वानरेन्द्रास् त्रिदशारिबाणैर् भिन्ना निपेतुर् भुवि भीमरूपाः
ततस् तु तद् वानरसैन्यम् उग्रं प्रच्छादयाम् आस स बाणजालैः

6.047.043

ते वध्यमानाः पतिताग्र्यवीरा नानद्यमाना भयशल्यविद्धाः
शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम्

6.047.044

ततो महात्मा स धनुर् धनुष्मान् आदाय रामः सहरा जगाम
तं लक्ष्मणः प्राञ्जलिर् अभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम्

6.047.045

कामम् आर्यः सुपर्याप्तो वधायास्य दुरात्मनः
विधमिष्याम्य् अहं नीचम् अनुजानीहि मां विभो

6.047.046

तम् अब्रवीन् महातेजा रामः सत्यपराक्रमः
गच्छ यत्नपरश् चापि भव लक्ष्मण संयुगे

6.047.047

रावणो हि महावीर्यो रणे ऽद्भुतपराक्रमः
त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः

6.047.048

तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च गोपय
चक्षुषा धनुषा यत्नाद् रक्षात्मानं समाहितः

6.047.049

राघवस्य वचः श्रुत्वा संपरिष्वज्य पूज्य च
अभिवाद्य ततो रामं ययौ सौमित्रिर् आहवम्

6.047.050

स रावणं वारणहस्तबाहुर् ददर्श दीप्तोद्यतभीमचापम्
प्रच्छादयन्तं शरवृष्टिजालैस् तान् वानरान् भिन्नविकीर्णदेहान्

6.047.051

तम् आलोक्य महातेजा हनूमान् मारुतात्मजा
निवार्य शरजालानि प्रदुद्राव स रावणम्

6.047.052

रथं तस्य समासाद्य भुजम् उद्यम्य दक्षिणम्
त्रासयन् रावणं धीमान् हनूमान् वाक्यम् अब्रवीत्

6.047.053

देवदानवगन्धर्वा यक्षाश् च सह राक्षसैः
अवध्यत्वात् त्वया भग्ना वानरेभ्यस् तु ते भयम्

6.047.054

एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः
विधमिष्यति ते देहाद् भूतात्मानं चिरोषितम्

6.047.055

श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः
संरक्तनयनः क्रोधाद् इदं वचनम् अब्रवीत्

6.047.056

क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिम् अवाप्नुहि
ततस् त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर

6.047.057

रावणस्य वचः श्रुत्वा वायुसूनुर् वचो ऽब्रवीत्
प्रहृतं हि मया पूर्वम् अक्षं स्मर सुतं तव

6.047.058

एवम् उक्तो महातेजा रावणो राक्षसेश्वरः
आजघानानिलसुतं तलेनोरसि वीर्यवान्

6.047.059

स तलाभिहतस् तेन चचाल च मुहुर् मुहुः
आजघानाभिसंक्रुद्धस् तलेनैवामरद्विषम्

6.047.060

ततस् तलेनाभिहतो वानरेण महात्मना
दशग्रीवः समाधूतो यथा भूमिचले ऽचलः

6.047.061

संग्रामे तं तथा दृष्ट्व रावणं तलताडितम्
ऋषयो वानराः सिद्धा नेदुर् देवाः सहासुराः

6.047.062

अथाश्वस्य महातेजा रावणो वाक्यम् अब्रवीत्
साधु वानरवीर्येण श्लाघनीयो ऽसि मे रिपुः

6.047.063

रावणेनैवम् उक्तस् तु मारुतिर् वाक्यम् अब्रवीत्
धिग् अस्तु मम वीर्यं तु यत् त्वं जीवसि रावण

6.047.064

सकृत् तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे
ततस् त्वां मामको मुष्टिर् नयिष्यामि यथाक्षयम्
ततो मारुतिवाक्येन क्रोधस् तस्य तदाज्वलत्

6.047.065

संरक्तनयनो यत्नान् मुष्टिम् उद्यम्य दक्षिणम्
पातयाम् आस वेगेन वानरोरसि वीर्यवान्
हनूमान् वक्षसि व्यूधे संचचाल हतः पुनः

6.047.066

विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम्
रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात्

6.047.067

पन्नगप्रतिमैर् भीमैः परमर्मातिभेदिभिः
शरैर् आदीपयाम् आस नीलं हरिचमूपतिम्

6.047.068

स शरौघसमायस्तो नीलः कपिचमूपतिः
करेणैकेन शैलाग्रं रक्षोऽधिपतये ऽसृजत्

6.047.069

हनूमान् अपि तेजस्वी समाश्वस्तो महामनाः
विप्रेक्षमाणो युद्धेप्सुः सरोषम् इदम् अब्रवीत्

6.047.070

नीलेन सह संयुक्तं रावणं राक्षसेश्वरम्
अन्येन युध्यमानस्य न युक्तम् अभिधावनम्

6.047.071

रावणो ऽपि महातेजास् तच् छृङ्गं सप्तभिः शरैः
आजघान सुतीक्ष्णाग्रैस् तद् विकीर्णं पपात ह

6.047.072

तद् विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः
कालाग्निर् इव जज्वाल क्रोधेन परवीरहा

6.047.073

सो ऽश्वकर्णान् धवान् सालांश् चूतांश् चापि सुपुष्पितान्
अन्यांश् च विविधान् वृक्षान् नीलश् चिक्षेप संयुगे

6.047.074

स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः
अभ्यवर्षत् सुघोरेण शरवर्षेण पावकिम्

6.047.075

अभिवृष्टः शरौघेण मेघेनेव महाचलः
ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह

6.047.076

पावकात्मजम् आलोक्य ध्वजाग्रे समवस्थितम्
जज्वाल रावणः क्रोधात् ततो नीलो ननाद ह

6.047.077

ध्वजाग्रे धनुषश् चाग्रे किरीटाग्रे च तं हरिम्
लक्ष्मणो ऽथ हनूमांश् च दृष्ट्वा रामश् च विस्मिताः

6.047.078

रावणो ऽपि महातेजाः कपिलाघवविस्मितः
अस्त्रम् आहारयाम् आस दीप्तम् आग्नेयम् अद्भुतम्

6.047.079

ततस् ते चुक्रुशुर् हृष्टा लब्धलक्ष्याः प्लवंगमाः
नीललाघवसंभ्रान्तं दृष्ट्वा रावणम् आहवे

6.047.080

वानराणां च नादेन संरब्धो रावणस् तदा
संभ्रमाविष्टहृदयो न किं चित् प्रत्यपद्यत

6.047.081

आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम्
ध्वजशीर्षस्थितं नीलम् उदैक्षत निशाचरः

6.047.082

ततो ऽब्रवीन् महातेजा रावणो राक्षसेश्वरः
कपे लाघवयुक्तो ऽसि मायया परयानया

6.047.083

जीवितं खलु रक्षस्व यदि शक्नोषि वानर
तानि तान्य् आत्मरूपाणि सृजसे त्वम् अनेकशः

6.047.084

तथापि त्वां मया मुक्तः सायको ऽस्त्रप्रयोजितः
जीवितं परिरक्षन्तं जीविताद् भ्रंशयिष्यति

6.047.085

एवम् उक्त्वा महाबाहू रावणो राक्षसेश्वरः
संधाय बाणम् अस्त्रेण चमूपतिम् अताडयत्

6.047.086

सो ऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः
निर्दह्यमानः सहसा निपपात महीतले

6.047.087

पितृमाहात्म्य संयोगाद् आत्मनश् चापि तेजसा
जानुभ्याम् अपतद् भूमौ न च प्राणैर् व्ययुज्यत

6.047.088

विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः
रथेनाम्बुदनादेन सौमित्रिम् अभिदुद्रुवे

6.047.089

तम् आह सौमित्रिर् अदीनसत्त्वो विस्फारयन्तं धनुर् अप्रमेयम्
अन्वेहि माम् एव निशाचरेन्द्र न वानरांस् त्वं प्रति योद्धुम् अर्हसि

6.047.090

स तस्य वाक्यं परिपूर्णघोषं ज्याशब्दम् उग्रं च निशम्य राजा
आसाद्य सौमित्रिम् अवस्थितं तं कोपान्वितं वाक्यम् उवाच रक्षः

6.047.091

दिष्ट्यासि मे राघव दृष्टिमार्गं प्राप्तो ऽन्तगामी विपरीतबुद्धिः
अस्मिन् क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः

6.047.092

तम् आह सौमित्रिर् अविस्मयानो गर्जन्तम् उद्वृत्तसिताग्रदंष्ट्रम्
राजन् न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ

6.047.093

जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च
अवस्थितो ऽहं शरचापपाणिर् आगच्छ किं मोघविकत्थनेन

6.047.094

स एवम् उक्तः कुपितः ससर्ज रक्षोऽधिपः सप्तशरान् सुपुङ्खान्
तांल् लक्ष्मणः काञ्चनचित्रपुङ्खैश् चिच्छेद बाणैर् निशिताग्रधारैः

6.047.095

तान् प्रेक्षमाणः सहसा निकृत्तान् निकृत्तभोगान् इव पन्नगेन्द्रान्
लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान् निशितान् पृषत्कान्

6.047.096

स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसंप्रयुक्तम्
क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश् च चिच्छेद न चुक्षुभे च

6.047.097

स लक्ष्मणश् चाशु शराञ् शिताग्रान् महेन्द्रवज्राशनितुल्यवेगान्
संधाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोऽधिपतेर् वधाय

6.047.098

स तान् प्रचिच्छेद हि राक्षसेन्द्रश् छित्त्वा च तांल् लक्ष्मणम् आजघान
शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे

6.047.099

स लक्ष्मणो रावणसायकार्तश् चचाल चापं शिथिलं प्रगृह्य
पुनश् च संज्ञां प्रतिलभ्य कृच्छ्राच् चिच्छेद चापं त्रिदशेन्द्रशत्रोः

6.047.100

निकृत्तचापं त्रिभिर् आजघान बाणैस् तदा दाशरथिः शिताग्रैः
स सायकार्तो विचचाल राजा कृच्छ्राच् च संज्ञां पुनर् आससाद

6.047.101

स कृत्तचापः शरताडितश् च स्वेदार्द्रगात्रो रुधिरावसिक्तः
जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः

6.047.102

स तां विधूमानलसंनिकाशां वित्रासनीं वानरवाहिनीनाम्
चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः

6.047.103

ताम् आपतन्तीं भरतानुजो ऽस्त्रैर् जघान बाणैश् च हुताग्निकल्पैः
तथापि सा तस्य विवेश शक्तिर् भुजान्तरं दाशरथेर् विशालम्

6.047.104

शक्त्या ब्राम्या तु सौमित्रिस् ताडितस् तु स्तनान्तरे
विष्णोर् अचिन्त्यं स्वं भागम् आत्मानं प्रत्यनुस्मरत्

6.047.105

ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः
तं पीडयित्वा बाहुभ्याम् अप्रभुर् लङ्घने ऽभवत्

6.047.106

हिमवान् मन्दरो मेरुस् त्रैलोक्यं वा सहामरैः
शक्यं भुजाभ्याम् उद्धर्तुं न संख्ये भरतानुजः

6.047.107

अथैनं वैष्णवं भागं मानुषं देहम् आस्थितम्
विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितो ऽभवत्

6.047.108

अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत्
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना

6.047.109

तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः
जानुभ्याम् अपतद् भूमौ चचाल च पपात च

6.047.110

विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम्
ऋषयो वानराश् चैव नेदुर् देवाः सवासवाः

6.047.111

हनूमान् अपि तेजस्वी लक्ष्मणं रावणार्दितम्
अनयद् राघवाभ्याशं बाहुभ्यां परिगृह्य तम्

6.047.112

वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः
शत्रूणाम् अप्रकम्प्यो ऽपि लघुत्वम् अगमत् कपेः

6.047.113

तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम्
रावणस्य रथे तस्मिन् स्थानं पुनर् उपागमत्

6.047.114

रावणो ऽपि महातेजाः प्राप्य संज्ञां महाहवे
आददे निशितान् बाणाञ् जग्राह च महद् धनुः

6.047.115

आश्वस्तश् च विशल्यश् च लक्ष्मणः शत्रुसूदनः
विष्णोर् भागम् अमीमांस्यम् आत्मानं प्रत्यनुस्मरन्

6.047.116

निपातितमहावीरां वानराणां महाचमूम्
राघवस् तु रणे दृष्ट्वा रावणं समभिद्रवत्

6.047.117

अथैनम् उपसंगम्य हनूमान् वाक्यम् अब्रवीत्
मम पृष्ठं समारुह्य रक्षसं शास्तुम् अर्हसि

6.047.118

तच् छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम्
आरोहत् सहसा शूरो हनूमन्तं महाकपिम्
रथस्थं रावणं संख्ये ददर्श मनुजाधिपः

6.047.119

तम् आलोक्य महातेजाः प्रदुद्राव स राघवः
वैरोचनम् इव क्रुद्धो विष्णुर् अभ्युद्यतायुधः

6.047.120

ज्याशब्दम् अकरोत् तीव्रं वज्रनिष्पेषनिस्वनम्
गिरा गम्भीरया रामो राक्षसेन्द्रम् उवाच ह

6.047.121

तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियम् ईदृशम्
क्व नु राक्षसशार्दूल गतो मोक्षम् अवाप्स्यसि

6.047.122

यदीन्द्रवैवस्वत भास्करान् वा स्वयम्भुवैश्वानरशंकरान् वा
गमिष्यसि त्वं दश वा दिशो वा तथापि मे नाद्य गतो विमोक्ष्यसे

6.047.123

यश् चैष शक्त्याभिहतस् त्वयाद्य इच्छन् विषादं सहसाभ्युपेतः
स एष रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्य युद्धे

6.047.124

राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम्
आजघान शरैस् तीक्ष्णैः कालानलशिखोपमैः

6.047.125

राक्षसेनाहवे तस्य ताडितस्यापि सायकैः
स्वभावतेजोयुक्तस्य भूयस् तेजो व्यवर्धत

6.047.126

ततो रामो महातेजा रावणेन कृतव्रणम्
दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशम् एयिवान्

6.047.127

तस्याभिसंक्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम्
ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः

6.047.128

अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसंनिभेन
भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवान् इवेन्द्रः

6.047.129

यो वज्रपाताशनिसंनिपातान् न चुक्षुभे नापि चचाल राजा
स रामबाणाभिहतो भृशार्तश् चचाल चापं च मुमोच वीरः

6.047.130

तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तम् अथार्धचन्द्रम्
तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोऽधिपतेर् महात्माः

6.047.131

तं निर्विषाशीविषसंनिकाशं शान्तार्चिषं सूर्यम् इवाप्रकाशम्
गतश्रियं कृत्तकिरीटकूटम् उवाच रामो युधि राक्षसेन्द्रम्

6.047.132

कृतं त्वया कर्म महत् सुभीमं हतप्रवीरश् च कृतस् त्वयाहम्
तस्मात् परिश्रान्त इति व्यवस्य न त्वं शरैर् मृत्युवशं नयामि

6.047.133

स एवम् उक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः
शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स्म राजा

6.047.134

तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ
हरीन् विशल्यान् सहलक्ष्मणेन चकार रामः परमाहवाग्रे

6.047.135

तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश् च
ससागराः सर्षिमहोरगाश् च तथैव भूम्यम्बुचराश् च हृष्टाः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc