रामायण · अध्याय 6.046
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्
गर्जन्तं सुमहाकायं राक्षसैर् अभिसंवृतम्
ददर्श महती सेना वानराणां बलीयसाम्
अतिसंजातरोषाणां प्रहस्तम् अभिगर्जताम्
खड्गशक्त्यष्टिबाणाश् च शूलानि मुसलानि च
गदाश् च परिघाः प्रासा विविधाश् च परश्वधाः
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम्
प्रगृहीतान्य् अशोभन्त वानरान् अभिधावताम्
जगृहुः पादपांश् चापि पुष्पितान् वानरर्षभाः
शिलाश् च विपुला दीर्घा योद्धुकामाः प्लवंगमाः
तेषाम् अन्योन्यम् आसाद्य संग्रामः सुमहान् अभूत्
बहूनाम् अश्मवृष्टिं च शरवृष्टिं च वर्षताम्
बहवो राक्षसा युद्धे बहून् वानरयूथपान्
वानरा राक्षसांश् चापि निजघ्नुर् बहवो बहून्
शूलैः प्रमथिताः के चित् के चित् तु परमायुधैः
परिघैर् आहताः के चित् के चिच् छिन्नाः परश्वधैः
निरुच्छ्वासाः पुनः के चित् पतिता धरणीतले
विभिन्नहृदयाः के चिद् इषुसंतानसंदिताः
के चिद् द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि
वानरा राक्षसैः शूलैः पार्श्वतश् च विदारिताः
वानरैश् चापि संक्रुद्धै राक्षसौघाः समन्ततः
पादपैर् गिरिशृङ्गैश् च संपिष्टा वसुधातले
वज्रस्पर्शतलैर् हस्तैर् मुष्टिभिश् च हता भृशम्
वेमुः शोणितम् आस्येभ्यो विशीर्णदशनेक्षणः
आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम्
बभूव तुमुलः शब्दो हरीणां रक्षसां युधि
वानरा राक्षसाः क्रुद्धा वीरमार्गम् अनुव्रताः
विवृत्तनयनाः क्रूराश् चक्रुः कर्माण्य् अभीतवत्
नरान्तकः कुम्भहनुर् महानादः समुन्नतः
एते प्रहस्तसचिवाः सर्वे जघ्नुर् वनौकसः
तेषाम् आपततां शीघ्रं निघ्नतां चापि वानरान्
द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम्
दुर्मुखः पुनर् उत्पाट्य कपिः स विपुलद्रुमम्
राक्षसं क्षिप्रहस्तस् तु समुन्नतम् अपोथयत्
जाम्बवांस् तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम्
पातयाम् आस तेजस्वी महानादस्य वक्षसि
अथ कुम्भहनुस् तत्र तारेणासाद्य वीर्यवान्
वृक्षेणाभिहतो मूर्ध्नि प्राणांस् तत्याज राक्षसः
अमृष्यमाणस् तत् कर्म प्रहस्तो रथम् आस्थितः
चकार कदनं घोरं धनुष्पाणिर् वनौकसाम्
आवर्त इव संजज्ञे उभयोः सेनयोस् तदा
क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः
महता हि शरौघेण प्रहस्तो युद्धकोविदः
अर्दयाम् आस संक्रुद्धो वानरान् परमाहवे
वानराणां शरीरैस् तु राक्षसानां च मेदिनी
बभूव निचिता घोरा पतितैर् इव पर्वतैः
सा महीरुधिरौघेण प्रच्छन्ना संप्रकाशते
संछन्ना माधवे मासि पलाशैर् इव पुष्पितैः
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम्
शोणितौघमहातोयां यमसागरगामिनीम्
यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम्
भिन्नकायशिरोमीनाम् अङ्गावयवशाड्वलाम्
गृध्रहंसगणाकीर्णां कङ्कसारससेविताम्
मेधःफेनसमाकीर्णाम् आर्तस्तनितनिस्वनाम्
तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम्
नदीम् इव घनापाये हंससारससेविताम्
राक्षसाः कपिमुख्याश् च तेरुस् तां दुस्तरां नदीम्
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः
ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम्
ददर्श तरसा नीलो विनिघ्नन्तं प्लवंगमान्
स तं परमदुर्धर्षम् आपतन्तं महाकपिः
प्रहस्तं ताडयाम् आस वृक्षम् उत्पाट्य वीर्यवान्
स तेनाभिहतः क्रुद्धो नदन् राक्षसपुंगवः
ववर्ष शरवर्षाणि प्लवगानां चमूपतौ
अपारयन् वारयितुं प्रत्यगृह्णान् निमीलितः
यथैव गोवृषो वर्षं शारदं शीघ्रम् आगतम्
एवम् एव प्रहस्तस्य शरवर्षं दुरासदम्
निमीलिताक्षः सहसा नीलः सेहे सुदारुणम्
रोषितः शरवर्षेण सालेन महता महान्
प्रजघान हयान् नीलः प्रहस्तस्य मनोजवान्
विधनुस् तु कृतस् तेन प्रहस्तो वाहिनीपतिः
प्रगृह्य मुसलं घोरं स्यन्दनाद् अवपुप्लुवे
ताव् उभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ
स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाव् इव कुञ्जरौ
उल्लिखन्तौ सुतीक्ष्णाभिर् दंष्ट्राभिर् इतरेतरम्
सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ
विक्रान्तविजयौ वीरौ समरेष्व् अनिवर्तिनौ
काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ
आजघान तदा नीलं ललाटे मुसलेन सः
प्रहस्तः परमायस्तस् तस्य सुस्राव शोणितम्
ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम्
प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः
तम् अचिन्त्यप्रहारं स प्रगृह्य मुसलं महत्
अभिदुद्राव बलिनं बली नीलं प्लवंगमम्
तम् उग्रवेगं संरब्धम् आपतन्तं महाकपिः
ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम्
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः
प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णम् अपातयत्
सा तेन कपिमुख्येन विमुक्ता महती शिला
बिभेद बहुधा घोरा प्रहस्तस्य शिरस् तदा
स गतासुर् गतश्रीको गतसत्त्वो गतेन्द्रियः
पपात सहसा भूमौ छिन्नमूल इव द्रुमः
विभिन्नशिरसस् तस्य बहु सुस्रावशोणितम्
शरीराद् अपि सुस्राव गिरेः प्रस्रवणं यथा
हते प्रहस्ते नीलेन तद् अकम्प्यं महद् बलम्
रक्षसाम् अप्रहृष्टानां लङ्काम् अभिजगाम ह
न शेकुः समवस्थातुं निहते वाहिनीपतौ
सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा
हते तस्मिंश् चमूमुख्ये राक्षसस् ते निरुद्यमाः
रक्षःपतिगृहं गत्वा ध्यानमूकत्वम् आगताः
ततस् तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा
समेत्य रामेण सलक्ष्मणेन प्रहृष्टरूपस् तु बभूव यूथपः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0