रामायण · अध्याय 6.048
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः
भग्नदर्पस् तदा राजा बभूव व्यथितेन्द्रियः
मातंग इव सिंहेन गरुडेनेव पन्नगः
अभिभूतो ऽभवद् राजा राघवेण महात्मना
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम्
स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः
स काञ्चनमयं दिव्यम् आश्रित्य परमासनम्
विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यम् अब्रवीत्
सर्वं तत् खलु मे मोघं यत् तप्तं परमं तपः
यत् समानो महेन्द्रेण मानुषेणास्मि निर्जितः
इदं तद् ब्रह्मणो घोरं वाक्यं माम् अभ्युपस्थितम्
मानुषेभ्यो विजानीहि भयं त्वम् इति तत् तथा
देवदानवगन्धर्वैर् यक्षराक्षसपन्नगैः
अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम्
एतद् एवाभ्युपागम्य यत्नं कर्तुम् इहार्हथ
राक्षसाश् चापि तिष्ठन्तु चर्यागोपुरमूर्धसु
स चाप्रतिमगम्भीरो देवदानवदर्पहा
ब्रह्मशापाभिभूतस् तु कुम्भकर्णो विबोध्यताम्
स पराजितम् आत्मानं प्रहस्तं च निषूदितम्
ज्ञात्वा रक्षोबलं भीमम् आदिदेश महाबलः
द्वारेषु यत्नः क्रियतां प्राकाराश् चाधिरुह्यताम्
निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम्
नव षट् सप्त चाष्टौ च मासान् स्वपिति राक्षसः
तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम्
स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम्
वानरान् राजपुत्रौ च क्षिप्रम् एव वधिष्यति
कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः
रामेणाभिनिरस्तस्य संग्रामो ऽस्मिन् सुदारुणे
भविष्यति न मे शोकः कुम्भकर्णे विबोधिते
किं करिष्याम्य् अहं तेन शक्रतुल्यबलेन हि
ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते
ते तु तद् वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः
जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम्
ते रावणसमादिष्टा मांसशोणितभोजनाः
गन्धमाल्यांस् तथा भक्ष्यान् आदाय सहसा ययुः
तां प्रविश्य महाद्वारां सर्वतो योजनायताम्
कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम्
प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर् गुहाम्
तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम्
ददृशुर् नैरृतव्याघ्रं शयानं भीमदर्शनम्
ते तु तं विकृतं सुप्तं विकीर्णम् इव पर्वतम्
कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन्
ऊर्ध्वरोमाञ्चिततनुं श्वसन्तम् इव पन्नगम्
त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम्
भीमनासापुटं तं तु पातालविपुलाननम्
ददृशुर् नैरृतव्याघ्रं कुम्भकर्णं महाबलम्
ततश् चक्रुर् महात्मानः कुम्भकर्णाग्रतस् तदा
मांसानां मेरुसंकाशं राशिं परमतर्पणम्
मृगाणां महिषाणां च वराहाणां च संचयान्
चक्रुर् नैरृतशार्दूला राशिमन्न् अस्य चाद्भुतम्
ततः शोणितकुम्भांश् च मद्यानि विविधानि च
पुरस्तात् कुम्भकर्णस्य चक्रुस् त्रिदशशत्रवः
लिलिपुश् च परार्ध्येन चन्दनेन परंतपम्
दिव्यैर् आच्छादयाम् आसुर् माल्यैर् गन्धैः सुगन्धिभिः
धूपं सुगन्धं ससृजुस् तुष्टुवुश् च परंतपम्
जलदा इव चोनेदुर् यातुधानाः सहस्रशः
शङ्खान् आपूरयाम् आसुः शशाङ्कसदृशप्रभान्
तुमुलं युगपच् चापि विनेदुश् चाप्य् अमर्षिताः
नेदुर् आस्फोटयाम् आसुश् चिक्षिपुस् ते निशाचराः
कुम्भकर्णविबोधार्थं चक्रुस् ते विपुलं स्वनम्
सशङ्खभेरीपटहप्रणादम् आस्फोटितक्ष्वेडितसिंहनादम्
दिशो द्रवन्तस् त्रिदिवं किरन्तः श्रुत्वा विहंगाः सहसा निपेतुः
यदा भृशं तैर् निनदैर् महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः
ततो मुसुण्डीमुसलानि सर्वे रक्षोगणास् ते जगृहुर् गदाश् च
तं शैलशृङ्गैर् मुसलैर् गदाभिर् वृक्षैस् तलैर् मुद्गरमुष्टिभिश् च
सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्य् उदग्राणि तदा निजघ्नुः
तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः
राक्षसा बलवन्तो ऽपि स्थातुं नाशक्नुवन् पुरः
ततो ऽस्य पुरतो गाढं राक्षसा भीमविक्रमाः
मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस् तथा
दशराक्षससाहस्रं युगपत् पर्यवादयन्
नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन्
अभिघ्नन्तो नदन्तश् च नैव संविविदे तु सः
यदा चैनं न शेकुस् ते प्रतिबोधयितुं तदा
ततो गुरुतरं यत्नं दारुणं समुपाक्रमन्
अश्वान् उष्ट्रान् खरान् नागाञ् जघ्नुर् दण्डकशाङ्कुशैः
भेरीशङ्खमृदङ्गांश् च सर्वप्राणैर् अवादयन्
निजघ्नुश् चास्य गात्राणि महाकाष्ठकटं करैः
मुद्गरैर् मुसलैश् चैव सर्वप्राणसमुद्यतैः
तेन शब्देन महता लङ्का समभिपूरिता
सपर्वतवना सर्वा सो ऽपि नैव प्रबुध्यते
ततः सहस्रं भेरीणां युगपत् समहन्यत
मृष्टकाञ्चनकोणानाम् असक्तानां समन्ततः
एवम् अप्य् अतिनिद्रस् तु यदा नैव प्रबुध्यत
शापस्य वशम् आपन्नस् ततः क्रुद्धा निशाचराः
महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः
तद् रक्षोबोधयिष्यन्तश् चक्रुर् अन्ये पराक्रमम्
अन्ये भेरीः समाजघ्नुर् अन्ये चक्रुर् महास्वनम्
केशान् अन्ये प्रलुलुपुः कर्णाव् अन्ये दशन्ति च
न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः
अन्ये च बलिनस् तस्य कूटमुद्गरपाणयः
मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान्
रज्जुबन्धनबद्धाभिः शतघ्नीभिश् च सर्वतः
वध्यमानो महाकायो न प्राबुध्यत राक्षसः
वारणानां सहस्रं तु शरीरे ऽस्य प्रधावितम्
कुम्भकर्णस् ततो बुद्धः स्पर्शं परम् अबुध्यत
स पात्यमानैर् गिरिशृङ्गवृक्षैर् अचिन्तयंस् तान् विपुलान् प्रहारान्
निद्राक्षयात् क्षुद्भयपीडितश् च विजृम्भमाणः सहसोत्पपात
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ
विवृत्य वक्त्रं वडवामुखाभं निशाचरो ऽसौ विकृतं जजृम्भे
तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम्
ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः
विजृम्भमाणो ऽतिबलः प्रतिबुद्धो निशाचरः
निश्वासश् चास्य संजज्ञे पर्वताद् इव मारुतः
रूपम् उत्तिष्ठतस् तस्य कुम्भकर्णस्य तद् बभौ
तपान्ते सबलाकस्य मेघस्येव विवर्षतः
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी
ददृशाते महानेत्रे दीप्ताव् इव महाग्रहौ
आदद् बुभुक्षितो मांसं शोणितं तृषितो ऽपिबत्
मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस् तदा
ततस् तृप्त इति ज्ञात्वा समुत्पेतुर् निशाचराः
शिरोभिश् च प्रणम्यैनं सर्वतः पर्यवारयन्
स सर्वान् सान्त्वयाम् आस नैरृतान् नैरृतर्षभः
बोधनाद् विस्मितश् चापि राक्षसान् इदम् अब्रवीत्
किमर्थम् अहम् आहत्य भवद्भिः प्रतिबोधितः
कच्चित् सुकुशलं राज्ञो भयं वा नेह किं चन
अथ वा ध्रुवम् अन्येभ्यो भयं परम् उपस्थितम्
यदर्थम् एव त्वरितैर् भवद्भिः प्रतिबोधितः
अद्य राक्षसराजस्य भयम् उत्पाटयाम्य् अहम्
पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम्
न ह्य् अल्पकारणे सुप्तं बोधयिष्यति मां भृशम्
तद् आख्यातार्थतत्त्वेन मत्प्रबोधनकारणम्
एवं ब्रुवाणं संरब्धं कुम्भकर्णम् अरिंदमम्
यूपाक्षः सचिवो राज्ञः कृताञ्जलिर् उवाच ह
न नो देवकृतं किं चिद् भयम् अस्ति कदा चन
न दैत्यदानवेभ्यो वा भयम् अस्ति हि तादृशम्
यादृशं मानुषं राजन् भयम् अस्मान् उपस्थितम्
वानरैः पर्वताकारैर् लङ्केयं परिवारिता
सीताहरणसंतप्ताद् रामान् नस् तुमुलं भयम्
एकेन वानरेणेयं पूर्वं दग्धा महापुरी
कुमारो निहतश् चाक्षः सानुयात्रः सकुञ्जरः
स्वयं रक्षोऽधिपश् चापि पौलस्त्यो देवकण्टकः
मृतेति संयुगे मुक्तारामेणादित्यतेजसा
यन् न देवैः कृतो राजा नापि दैत्यैर् न दानवैः
कृतः स इह रामेण विमुक्तः प्राणसंशयात्
स यूपाक्षवचः श्रुत्वा भ्रातुर् युधि पराजयम्
कुम्भकर्णो विवृत्ताक्षो यूपाक्षम् इदम् अब्रवीत्
सर्वम् अद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम्
राघवं च रणे हत्वा पश्चाद् द्रक्ष्यामि रावणम्
राक्षसांस् तर्पयिष्यामि हरीणां मांसशोणितैः
रामलक्ष्मणयोश् चापि स्वयं पास्यामि शोणितम्
तत् तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम्
महोदरो नैरृतयोधमुख्यः कृताञ्जलिर् वाक्यम् इदं बभाषे
रावणस्य वचः श्रुत्वा गुणदोषु विमृश्य च
पश्चाद् अपि महाबाहो शत्रून् युधि विजेष्यसि
महोदरवचः श्रुत्वा राक्षसैः परिवारितः
कुम्भकर्णो महातेजाः संप्रतस्थे महाबलः
तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम्
राक्षसास् त्वरिता जग्मुर् दशग्रीवनिवेशनम्
ततो गत्वा दशग्रीवम् आसीनं परमासने
ऊचुर् बद्धाञ्जलिपुटाः सर्व एव निशाचराः
प्रबुद्धः कुम्भकर्णो ऽसौ भ्राता ते राक्षसर्षभ
कथं तत्रैव निर्यातु द्रक्ष्यसे तम् इहागतम्
रावणस् त्व् अब्रवीद् धृष्टो यथान्यायं च पूजितम्
द्रष्टुम् एनम् इहेच्छामि यथान्यायं च पूजितम्
तथेत्य् उक्त्वा तु ते सर्वे पुनर् आगम्य राक्षसाः
कुम्भकर्णम् इदं वाक्यम् ऊचू रावणचोदिताः
द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुंगवः
गमने क्रियतां बुद्धिर् भ्रातरं संप्रहर्षय
कुम्भकर्णस् तु दुर्धर्षो भ्रातुर् आज्ञाय शासनम्
तथेत्य् उक्त्वा महावीर्यः शयनाद् उत्पपात ह
प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः
पिपासुस् त्वरयाम् आस पानं बलसमीरणम्
ततस् ते त्वरितास् तस्य राज्षसा रावणाज्ञया
मद्यं भक्ष्यांश् च विविधान् क्षिप्रम् एवोपहारयन्
पीत्वा घटसहस्रं स गमनायोपचक्रमे
ईषत्समुत्कटो मत्तस् तेजोबलसमन्वितः
कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः
भ्रातुः स भवनं गच्छन् रक्षोबलसमन्वितः
कुम्भकर्णः पदन्यासैर् अकम्पयत मेदिनीम्
स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर् धरणीम् इवांशुभिः
जगाम तत्राञ्जलिमालया वृतः शतक्रतुर् गेहम् इव स्वयम्भुवः
के चिच् छरण्यं शरणं स्म रामं व्रजन्ति के चिद् व्यथिताः पतन्ति
के चिद् दिशः स्म व्यथिताः प्रयान्ति के चिद् भयार्ता भुवि शेरते स्म
तम् अद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तम् आदित्यम् इवात्मतेजसा
वनौकसः प्रेक्ष्य विवृद्धम् अद्भुतं भयार्दिता दुद्रुविरे ततस् ततः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0