रामायण · अध्याय 6.036
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः
ददृशुः संततौ बाणैर् भ्रातरौ रामलक्ष्मणौ
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे
आजगामाथ तं देशं ससुग्रीवो विभीषणः
नीलद्विविदमैन्दाश् च सुषेणसुमुखाङ्गदाः
तूर्णं हनुमता सार्धम् अन्वशोचन्त राघवौ
निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ
शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः
निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ
रुधिरस्रावदिग्धाङ्गौ तापनीयाव् इव ध्वजौ
तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ
यूथपैस् तैः परिवृतौ बाष्पव्याकुललोचनैः
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ
बभूवुर् व्यथिताः सर्वे वानराः सविभीषणाः
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश् च वानराः
न चैनं मायया छन्नं ददृशू रावणिं रणे
तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः
वीक्षमाणो ददर्शाथ भ्रातुः पुत्रम् अवस्थितम्
तम् अप्रतिम कर्माणम् अप्रतिद्वन्द्वम् आहवे
ददर्शान्तर्हितं वीरं वरदानाद् विभीषणः
इन्द्रजित् त्व् आत्मनः कर्म तौ शयानौ समीक्ष्य च
उवाच परमप्रीतो हर्षयन् सर्वनैरृतान्
दूषणस्य च हन्तारौ खरस्य च महाबलौ
सादितौ मामकैर् बाणैर् भ्रातरौ रामलक्ष्मणौ
नेमौ मोक्षयितुं शक्याव् एतस्माद् इषुबन्धनात्
सर्वैर् अपि समागम्य सर्षिसङ्घैः सुरासुरैः
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर् मम
अस्पृष्ट्वा शयनं गात्रैस् त्रियामा याति शर्वती
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्व् इवाकुला
सो ऽयं मूलहरो ऽनर्थः सर्वेषां निहतो मया
रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम्
विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः
एवम् उक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वगान्
यूथपान् अपि तान् सर्वांस् ताडयाम् आस रावणिः
तान् अर्दयित्वा बाणौघैस् त्रासयित्वा च वानरान्
प्रजहास महाबाहुर् वचनं चेदम् अब्रवीत्
शरबन्धेन घोरेण मया बद्धौ चमूमुखे
सहितौ भ्रातराव् एतौ निशामयत राक्षसाः
एवम् उक्तास् तु ते सर्वे राक्षसाः कूटयोधिनः
परं विस्मयम् आजग्मुः कर्मणा तेन तोषिताः
विनेदुश् च महानादान् सर्वे ते जलदोपमाः
हतो राम इति ज्ञात्वा रावणिं समपूजयन्
निष्पन्दौ तु तदा दृष्ट्वा ताव् उभौ रामलक्ष्मणौ
वसुधायां निरुच्छ्वासौ हताव् इत्य् अन्वमन्यत
हर्षेण तु समाविष्ट इन्द्रजित् समितिंजयः
प्रविवेश पुरीं लङ्कां हर्षयन् सर्वनैरृतान्
रामलक्ष्मणयोर् दृष्ट्वा शरीरे सायकैश् चिते
सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयम् आविशत्
तम् उवाच परित्रस्तं वानरेन्द्रं विभीषणः
सबाष्पवदनं दीनं शोकव्याकुललोचनम्
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम्
एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः
सशेषभाग्यतास्माकं यदि वीर भविष्यति
मोहम् एतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ
पर्यवस्थापयात्मानम् अनाथं मां च वानर
सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम्
एवम् उक्त्वा ततस् तस्य जलक्लिन्नेन पाणिना
सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः
अब्रवीत् कालसंप्रातम् असंभ्रान्तम् इदं वचः
न कालः कपिराजेन्द्र वैक्लव्यम् अनुवर्तितुम्
अतिस्नेहो ऽप्य् अकाले ऽस्मिन् मरणायोपपद्यते
तस्माद् उत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम्
हितं रामपुरोगाणां सैन्यानाम् अनुचिन्त्यताम्
अथ वा रक्ष्यतां रामो यावत् संज्ञा विपर्ययः
लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः
नैतत् किं चन रामस्य न च रामो मुमूर्षति
न ह्य् एनं हास्यते लक्ष्मीर् दुर्लभा या गतायुषाम्
तस्माद् आश्वासयात्मानं बलं चाश्वासय स्वकम्
यावत् सर्वाणि सैन्यानि पुनः संस्थापयाम्य् अहम्
एते ह्य् उत्फुल्लनयनास् त्रासाद् आगतसाध्वसाः
कर्णे कर्णे प्रकथिता हरयो हरिपुंगव
मां तु दृष्ट्वा प्रधावन्तम् अनीकं संप्रहर्षितुम्
त्यजन्तु हरयस् त्रासं भुक्तपूर्वाम् इव स्रजम्
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः
विद्रुतं वानरानीकं तत् समाश्वासयत् पुनः
इन्द्रजित् तु महामायः सर्वसैन्यसमावृतः
विवेश नगरीं लङ्कां पितरं चाभ्युपागमत्
तत्र रावणम् आसीनम् अभिवाद्य कृताञ्जलिः
आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे
रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ
उपाघ्राय स मूर्ध्न्य् एनं पप्रच्छ प्रीतमानसः
पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत्
स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस् तस्य महारथस्य
जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचाभिननन्द पुत्रम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0