भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.035

6.035.001

स तस्य गतिम् अन्विच्छन् राजपुत्रः प्रतापवान्
दिदेशातिबलो रामो दशवानरयूथपान्

6.035.002

द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम्
अङ्गदं वालिपुत्रं च शरभं च तरस्विनम्

6.035.003

विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम्
ऋषभं चर्षभस्कन्धम् आदिदेश परंतपः

6.035.004

ते संप्रहृष्टा हरयो भीमान् उद्यम्य पादपान्
आकाशं विविशुः सर्वे मार्गामाणा दिशो दश

6.035.005

तेषां वेगवतां वेगम् इषुभिर् वेगवत्तरैः
अस्त्रवित् परमास्त्रेण वारयाम् आस रावणिः

6.035.006

तं भीमवेगा हरयो नाराचैः क्षतविक्षताः
अन्धकारे न ददृशुर् मेघैः सूर्यम् इवावृतम्

6.035.007

रामलक्ष्मणयोर् एव सर्वमर्मभिदः शरान्
भृशम् आवेशयाम् आस रावणिः समितिंजयः

6.035.008

निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ
क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः

6.035.009

तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु
ताव् उभौ च प्रकाशेते पुष्पिताव् इव किंशुकौ

6.035.010

ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः
रावणिर् भ्रातरौ वाक्यम् अन्तर्धानगतो ऽब्रवीत्

6.035.011

युध्यमानम् अनालक्ष्यं शक्रो ऽपि त्रिदशेश्वरः
द्रष्टुम् आसादितुं वापि न शक्तः किं पुनर् युवाम्

6.035.012

प्रावृताव् इषुजालेन राघवौ कङ्कपत्रिणा
एष रोषपरीतात्मा नयामि यमसादनम्

6.035.013

एवम् उक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ
निर्बिभेद शितैर् बाणैः प्रजहर्ष ननाद च

6.035.014

भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः
भूयो भूयः शरान् घोरान् विससर्ज महामृधे

6.035.015

ततो मर्मसु मर्मज्ञो मज्जयन् निशिताञ् शरान्
रामलक्ष्मणयोर् वीरो ननाद च मुहुर् मुहुः

6.035.016

बद्धौ तु शरबन्धेन ताव् उभौ रणमूर्धनि
निमेषान्तरमात्रेण न शेकतुर् उदीक्षितुम्

6.035.017

ततो विभिन्नसर्वाङ्गौ शरशल्याचिताव् उभौ
ध्वजाव् इव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ

6.035.018

तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ
निपेततुर् महेष्वासौ जगत्यां जगतीपती

6.035.019

तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ
शरवेष्टितसर्वाङ्गाव् आर्तौ परमपीडितौ

6.035.020

न ह्य् अविद्धं तयोर् गात्रं बभूवाङ्गुलम् अन्तरम्
नानिर्भिन्नं न चास्तब्धम् आ कराग्राद् अजिह्मगैः

6.035.021

तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा
असृक्सुस्रुवतुस् तीव्रं जलं प्रस्रवणाव् इव

6.035.022

पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः
क्रोधाद् इन्द्रजिता येन पुरा शक्रो विनिर्जितः

6.035.023

नारचैर् अर्धनाराचैर् भल्लैर् अञ्जलिकैर् अपि
विव्याध वत्सदन्तैश् च सिंहदंष्ट्रैः क्षुरैस् तथा

6.035.024

स वीरशयने शिश्ये विज्यम् आदाय कार्मुकम्
भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम्

6.035.025

बाणपातान्तरे रामं पतितं पुरुषर्षभम्
स तत्र लक्ष्मणो दृष्ट्वा निराशो जीविते ऽभवत्

6.035.026

बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः संपरिवार्य तस्थुः
समागता वायुसुतप्रमुख्या विषदम् आर्ताः परमं च जग्मुः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc