भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.037

6.037.001

प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे
राघवं परिवार्यार्ता ररक्षुर् वानरर्षभाः

6.037.002

हनूमान् अङ्गदो नीलः सुषेणः कुमुदो नलः
गजो गवाक्षो गवयः शरभो गन्धमादनः

6.037.003

जाम्बवान् ऋषभः सुन्दो रम्भः शतबलिः पृथुः
व्यूढानीकाश् च यत्ताश् च द्रुमान् आदाय सर्वतः

6.037.004

वीक्षमाणा दिशः सर्वास् तिर्यग् ऊर्ध्वं च वानराः
तृणेष्व् अपि च चेष्टत्सु राक्षसा इति मेनिरे

6.037.005

रावणश् चापि संहृष्टो विसृज्येन्द्रजितं सुतम्
आजुहाव ततः सीता रक्षणी राक्षसीस् तदा

6.037.006

राक्षस्यस् त्रिजटा चापि शासनात् तम् उपस्थिताः
ता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः

6.037.007

हताव् इन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ
पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे

6.037.008

यद् आश्रयाद् अवष्टब्धो नेयं माम् उपतिष्ठति
सो ऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि

6.037.009

निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली
माम् उपस्थास्यते सीता सर्वाभरणभूषिता

6.037.010

अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम्
अवेक्ष्य विनिवृत्ताशा नान्यां गतिम् अपश्यती

6.037.011

तस्य तद् वचनं श्रुत्वा रावणस्य दुरात्मनः
राक्षस्यस् तास् तथेत्य् उक्त्वा प्रजग्मुर् यत्र पुष्पकम्

6.037.012

ततः पुष्पकम् आदय राक्षस्यो रावणाज्ञया
अशोकवनिकास्थां तां मैथिलीं समुपानयन्

6.037.013

ताम् आदाय तु राक्षस्यो भर्तृशोकपरायणाम्
सीताम् आरोपयाम् आसुर् विमानं पुष्पकं तदा

6.037.014

ततः पुष्पकम् आरोप्य सीतां त्रिजटया सह
रावणो ऽकारयल् लङ्कां पताकाध्वजमालिनीम्

6.037.015

प्राघोषयत हृष्टश् च लङ्कायां राक्षसेश्वरः
राघवो लक्ष्मणश् चैव हताव् इन्द्रजिता रणे

6.037.016

विमानेनापि सीता तु गत्वा त्रिजटया सह
ददर्श वानराणां तु सर्वं सिन्यं निपातितम्

6.037.017

प्रहृष्टमनसश् चापि ददर्श पिशिताशनान्
वानरांश् चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः

6.037.018

ततः सीता ददर्शोभौ शयानौ शततल्पयोः
लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ

6.037.019

विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ
सायकैश् छिन्नसर्वाङ्गौ शरस्तम्भमयौ क्षितौ

6.037.020

तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ
दुःखार्ता सुभृशं सीता करुणं विललाप ह

6.037.021

सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ
वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यम् इदं जगाद

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc