रामायण · अध्याय 6.033
युध्यतां तु ततस् तेषां वानराणां महात्मनाम्
रक्षसां संबभूवाथ बलकोपः सुदारुणः
ते हयैः काञ्चनापीडैर् ध्वजैश् चाग्निशिखोपमैः
रथैश् चादित्यसंकाशैः कवचैश् च मनोरमैः
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश
राक्षसा भीमकर्माणो रावणस्य जयैषिणः
वानराणाम् अपि चमूर् महती जयम् इच्चताम्
अभ्यधावत तां सेनां रक्षसां कामरूपिणाम्
एतस्मिन्न् अन्तरे तेषाम् अन्योन्यम् अभिधावताम्
रक्षसां वानराणां च द्वन्द्वयुद्धम् अवर्तत
अङ्गदेनेन्द्रजित् सार्धं वालिपुत्रेण राक्षसः
अयुध्यत महातेजास् त्र्यम्बकेण यथान्धकः
प्रजङ्घेन च संपातिर् नित्यं दुर्मर्षणो रणे
जम्बूमालिनम् आरब्धो हनूमान् अपि वानरः
संगतः सुमहाक्रोधो राक्षसो रावणानुजः
समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः
तपनेन गजः सार्धं राक्षसेन महाबलः
निकुम्भेन महातेजा नीलो ऽपि समयुध्यत
वानरेन्द्रस् तु सुग्रीवः प्रघसेन समागतः
संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः
अग्निकेतुश् च दुर्धर्षो रश्मिकेतुश् च राक्षसः
सुप्तघ्नो यज्ञकोपश् च रामेण सह संगताः
वज्रमुष्टिस् तु मैन्देन द्विविदेनाशनिप्रभः
राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः
समरे तीक्ष्णवेगेन नलेन समयुध्यत
धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः
स विद्युन्मालिना सार्धम् अयुध्यत महाकपिः
वानराश् चापरे भीमा राक्षसैर् अपरैः सह
द्वन्द्वं समीयुर् बहुधा युद्धाय बहुभिः सह
तत्रासीत् सुमहद् युद्धं तुमुलं लोमहर्षणम्
रक्षसां वानराणां च वीराणां जयम् इच्छताम्
हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः
शरीरसंघाटवहाः प्रसुस्रुः शोणितापगाः
आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः
अङ्गदं गदया वीरं शत्रुसैन्यविदारणम्
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्
जघान समरे श्रीमान् अङ्गदो वेगवान् कपिः
संपातिस् तु त्रिभिर् बाणैः प्रजङ्घेन समाहतः
निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि
जम्बूमाली रथस्थस् तु रथशक्त्या महाबलः
बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे
तस्य तं रथम् आस्थाय हनूमान् मारुतात्मजः
प्रममाथ तलेनाशु सह तेनैव रक्षसा
भिन्नगात्रः शरैस् तीक्ष्णैः क्षिप्रहस्तेन रक्षसा
प्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः
ग्रसन्तम् इव सैन्यानि प्रघसं वानराधिपः
सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च
प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम्
निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः
अग्निकेतुश् च दुर्धर्षो रश्मिकेतुश् च राक्षसः
सुप्तिघ्नो यज्ञकोपश् च रामं निर्बिभिदुः शरैः
तेषां चतुर्णां रामस् तु शिरांसि समरे शरैः
क्रुद्धश् चतुर्भिश् चिच्छेद घोरैर् अग्निशिखोपमैः
वज्रमुष्टिस् तु मैन्देन मुष्टिना निहतो रणे
पपात सरथः साश्वः पुराट्ट इव भूतले
वज्राशनिसमस्पर्शो द्विविदो ऽप्य् अशनिप्रभम्
जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम्
द्विविदं वानरेन्द्रं तु द्रुमयोधिनम् आहवे
शरैर् अशनिसंकाशैः स विव्याधाशनिप्रभः
स शरैर् अतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः
सालेन सरथं साश्वं निजघानाशनिप्रभम्
निकुम्भस् तु रणे नीलं नीलाञ्जनचयप्रभम्
निर्बिभेद शरैस् तीक्ष्णैः करैर् मेघम् इवांशुमान्
पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः
बिभेद समरे नीलं निकुम्भः प्रजहास च
तस्यैव रथचक्रेण नीलो विष्णुर् इवाहवे
शिरश् चिच्छेद समरे निकुम्भस्य च सारथेः
विद्युन्माली रथस्थस् तु शरैः काञ्चनभूषणैः
सुषेणं ताडयाम् आस ननाद च मुहुर् मुहुः
तं रथस्थम् अथो दृष्ट्वा सुषेणो वानरोत्तमः
गिरिशृङ्गेण महता रथम् आशु न्यपातयत्
लाघवेन तु संयुक्तो विद्युन्माली निशाचरः
अपक्रम्य रथात् तूर्णं गदापाणिः क्षितौ स्थितः
ततः क्रोधसमाविष्टः सुषेणो हरिपुंगवः
शिलां सुमहतीं गृह्य निशाचरम् अभिद्रवत्
तम् आपतन्तं गदया विद्युन्माली निशाचरः
वक्षस्य् अभिजग्नानाशु सुषेणं हरिसत्तमम्
गदाप्रहारं तं घोरम् अचिन्त्यप्लवगोत्तमः
तां शिलां पातयाम् आस तस्योरसि महामृधे
शिलाप्रहाराभिहतो विद्युन्माली निशाचरः
निष्पिष्टहृदयो भूमौ गतासुर् निपपात ह
एवं तैर् वानरैः शूरैः शूरास् ते रजनीचराः
द्वन्द्वे विमृदितास् तत्र दैत्या इव दिवौकसैः
भल्लैः खड्गैर् गदाभिश् च शक्तितोमर पट्टसैः
अपविद्धश् च भिन्नश् च रथैः सांग्रामिकैर् हयैः
निहतैः कुञ्जरैर् मत्तैस् तथा वानरराक्षसैः
चक्राक्षयुगदण्डैश् च भग्नैर् धरणिसंश्रितैः
बभूवायोधनं घोरं गोमायुगणसेवितम्
कबन्धानि समुत्पेतुर् दिक्षु वानररक्षसाम्
विमर्दे तुमुले तस्मिन् देवासुररणोपमे
विदार्यमाणा हरिपुंगवैस् तदा निशाचराः शोणितदिग्धगात्राः
पुनः सुयुद्धं तरसा समाश्रिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0