रामायण · अध्याय 6.034
युध्यताम् एव तेषां तु तदा वानररक्षसाम्
रविर् अस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी
अन्योन्यं बद्धवैराणां घोराणां जयम् इच्छताम्
संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम्
राक्षसो ऽसीति हरयो हरिश् चासीति राक्षसाः
अन्योन्यं समरे जघ्नुस् तस्मिंस् तमसि दारुणे
जहि दारय चैतीति कथं विद्रवसीति च
एवं सुतुमुलः शब्दस् तस्मिंस् तमसि शुश्रुवे
कालाः काञ्चनसंनाहास् तस्मिंस् तमसि राक्षसाः
संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव
तस्मिंस् तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः
परिपेतुर् महावेगा भक्षयन्तः प्लवंगमान्
ते हयान् काञ्चनापीडन् ध्वजांश् चाग्निशिखोपमान्
आप्लुत्य दशनैस् तीक्ष्णैर् भीमकोपा व्यदारयन्
कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो रथान्
चकर्षुश् च ददंशुश् च दशनैः क्रोधमूर्छिताः
लक्ष्मणश् चापि रामश् च शरैर् आशीविषोमपैः
दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः
तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम्
रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः
वर्तमाने तथा घोरे संग्रामे लोमहर्षणे
रुधिरोदा महावेगा नद्यस् तत्र प्रसुस्रुवुः
ततो भेरीमृदङ्गानां पणवानां च निस्वनः
शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः
हतानां स्तनमानानां राक्षसानां च निस्वनः
शस्त्राणां वानराणां च संबभूवातिदारुणः
शस्त्रपुष्पोपहारा च तत्रासीद् युद्धमेदिनी
दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा
सा बभूव निशा घोरा हरिराक्षसहारिणी
कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा
ततस् ते राक्षसास् तत्र तस्मिंस् तमसि दारुणे
रामम् एवाभ्यधावन्त संहृष्टा शरवृष्टिभिः
तेषाम् आपततां शब्दः क्रुद्धानाम् अभिगर्जताम्
उद्वर्त इव सप्तानां समुद्राणाम् अभूत् स्वनः
तेषां रामः शरैः षड्भिः षड् जघान निशाचरान्
निमेषान्तरमात्रेण शितैर् अग्निशिखोपमैः
यज्ञशत्रुश् च दुर्धर्षो महापार्श्वमहोदरौ
वज्रदंष्ट्रो महाकायस् तौ चोभौ शुकसारणौ
ते तु रामेण बाणौघः सर्वमर्मसु ताडिताः
युद्धाद् अपसृतास् तत्र सावशेषायुषो ऽभवन्
ततः काञ्चनचित्राङ्गैः शरैर् अग्निशिखोपमैः
दिशश् चकार विमलाः प्रदिशश् च महाबलः
ये त्व् अन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः
ते ऽपि नष्टाः समासाद्य पतंगा इव पावकम्
सुवर्णपुङ्खैर् विशिखैः संपतद्भिः सहस्रशः
बभूव रजनी चित्रा खद्योतैर् इव शारदी
राक्षसानां च निनदैर् हरीणां चापि गर्जितैः
सा बभूव निशा घोरा भूयो घोरतरा तदा
तेन शब्देन महता प्रवृद्धेन समन्ततः
त्रिकूटः कन्दराकीर्णः प्रव्याहरद् इवाचलः
गोलाङ्गूला महाकायास् तमसा तुल्यवर्चसः
संपरिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान्
अङ्गदस् तु रणे शत्रुं निहन्तुं समुपस्थितः
रावणेर् निजघानाशु सारथिं च हयान् अपि
इन्द्रजित् तु रथं त्यक्त्वा हताश्वो हतसारथिः
अङ्गदेन महामायस् तत्रैवान्तरधीयत
सो ऽन्तर्धान गतः पापो रावणी रणकर्कशः
ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः
अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः
स रामं लक्ष्मणं चैव घोरैर् नागमयैः शरैः
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0