रामायण · अध्याय 6.032
ततस् ते राक्षसास् तत्र गत्वा रावणमन्दिरम्
न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः
विधानं द्विगुणं श्रुत्वा प्रासादं सो ऽध्यरोहत
स ददर्शावृतां लङ्कां सशैलवनकाननाम्
असंख्येयैर् हरिगणैः सर्वतो युद्धकाङ्क्षिभिः
स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम्
कथं क्षपयितव्याः स्युर् इति चिन्तापरो ऽभवत्
स चिन्तयित्वा सुचिरं धैर्यम् आलम्ब्य रावणः
राघवं हरियूथांश् च ददर्शायतलोचनः
प्रेक्षतो राक्षसेन्द्रस्य तान्य् अनीकानि भागशः
राघवप्रियकामार्थं लङ्काम् आरुरुहुस् तदा
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः
लङ्काम् एवाह्यवर्तन्त सालतालशिलायुधाः
ते द्रुमैः पर्वताग्रैश् च मुष्टिभिश् च प्लवंगमाः
प्रासादाग्राणि चोच्चानि ममन्तुस् तोरणानि च
पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः
पांसुभिः पर्वताग्रैश् च तृणैः काष्ठैश् च वानराः
ततः सहस्रयूथाश् च कोटियूथाश् च यूथपाः
कोटीशतयुताश् चान्ये लङ्काम् आरुरुहुस् तदा
काञ्चनानि प्रमृद्नन्तस् तोरणानि प्लवंगमाः
कैलासशिखराभानि गोपुराणि प्रमथ्य च
आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः
लङ्कां ताम् अभ्यवर्तन्त महावारणसंनिभाः
जयत्य् अतिबलो रामो लक्ष्मणश् च महाबलः
राजा जयति सुग्रीवो राघवेणाभिपालितः
इत्य् एवं घोषयन्तश् च गर्जन्तश् च प्लवंगमाः
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः
वीरबाहुः सुबाहुश् च नलश् च वनगोचरः
निपीड्योपनिविष्टास् ते प्राकारं हरियूथपाः
एतस्मिन्न् अन्तरे चक्रुः स्कन्धावारनिवेशनम्
पूर्वद्वारं तु कुमुदः कोटिभिर् दशभिर् वृतः
आवृत्य बलवांस् तस्थौ हरिभिर् जितकाशिभिः
दक्षिणद्वारम् आगम्य वीरः शतबलिः कपिः
आवृत्य बलवांस् तस्थौ विंशत्या कोटिभिर् वृतः
सुषेणः पश्चिमद्वारं गतस् तारा पिता हरिः
आवृत्य बलवांस् तस्थौ षष्टि कोटिभिर् आवृतः
उत्तरद्वारम् आसाद्य रामः सौमित्रिणा सह
आवृत्य बलवांस् तस्थौ सुग्रीवश् च हरीश्वरः
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः
वृतः कोट्या महावीर्यस् तस्थौ रामस्य पार्वतः
ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः
वृतः कोट्या महावीर्यस् तस्थौ रामस्य पार्श्वतः
संनद्धस् तु महावीर्यो गदापाणिर् विभीषणः
वृतो यस् तैस् तु सचिवैस् तस्थौ तत्र महाबलः
गजो गवाक्षो गवयः शरभो गन्धमादनः
समन्तात् परिघावन्तो ररक्षुर् हरिवाहिनीम्
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः
निर्याणं सर्वसैन्यानां द्रुतम् आज्ञापयत् तदा
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः
समये पूर्यमाणस्य वेगा इव महोदधेः
एतस्मिन्न् अन्तरे घोरः संग्रामः समपद्यत
रक्षसां वानराणां च यथा देवासुरे पुरा
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः
निजघ्नुर् वानरान् घोराः कथयन्तः स्वविक्रमान्
तथा वृक्षैर् महाकायाः पर्वताग्रैश् च वानराः
राक्षसास् तानि रक्षांसि नखैर् दन्तैश् च वेगिताः
राक्षसास् त्व् अपरे भीमाः प्राकारस्था महीगतान्
भिण्डिपालैश् च खड्गैश् च शूलैश् चैव व्यदारयन्
वानराश् चापि संक्रुद्धाः प्राकारस्थान् महीगताः
राक्षसान् पातयाम् आसुः समाप्लुत्य प्लवंगमाः
स संप्रहारस् तुमुलो मांसशोणितकर्दमः
रक्षसां वानराणां च संबभूवाद्भुतोपमाः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0