भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.023

6.023.001

सा सीता तच् छिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम्
सुग्रीवप्रतिसंसर्गम् आख्यातं च हनूमता

6.023.002

नयने मुखवर्णं च भर्तुस् तत् सदृशं मुखम्
केशान् केशान्तदेशं च तं च चूडामणिं शुभम्

6.023.003

एतैः सर्वैर् अभिज्ञानैर् अभिज्ञाय सुदुःखिता
विजगर्हे ऽथ कैकेयीं क्रोशन्ती कुररी यथा

6.023.004

सकामा भव कैकेयि हतो ऽयं कुलनन्दनः
कुलम् उत्सादितं सर्वं त्वया कलहशीलया

6.023.005

आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम्
यद् गृहाच् चीरवसनस् तया प्रस्थापितो वनम्

6.023.006

एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी
जगाम जगतीं बाला छिन्ना तु कदली यथा

6.023.007

सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम्
तच् छिरः समुपाघ्राय विललापायतेक्षणा

6.023.008

हा हतास्मि महाबाहो वीरव्रतम् अनुव्रता
इमां ते पश्चिमावस्थां गतास्मि विधवा कृता

6.023.009

प्रथमं मरणं नार्या भर्तुर् वैगुण्यम् उच्यते
सुवृत्तः साधुवृत्तायाः संवृत्तस् त्वं ममाग्रतः

6.023.010

दुःखाद् दुःखं प्रपन्नाया मग्नायाः शोकसागरे
यो हि माम् उद्यतस् त्रातुं सो ऽपि त्वं विनिपातितः

6.023.011

सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव
वत्सेनेव यथा धेनुर् विवत्सा वत्सला कृता

6.023.012

आदिष्टं दीर्घम् आयुस् ते यैर् अचिन्त्यपराक्रम
अनृतं वचनं तेषाम् अल्पायुर् असि राघव

6.023.013

अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस् तव
पचत्य् एनं तथा कालो भूतानां प्रभवो ह्य् अयम्

6.023.014

अदृष्टं मृत्युम् आपन्नः कस्मात् त्वं नयशास्त्रवित्
व्यसनानाम् उपायज्ञः कुशलो ह्य् असि वर्जने

6.023.015

तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया
कालरात्र्या मयाच्छिद्य हृतः कमललोचनः

6.023.016

उपशेषे महाबाहो मां विहाय तपस्विनीम्
प्रियाम् इव शुभां नारीं पृथिवीं पुरुषर्षभ

6.023.017

अर्चितं सततं यत्नाद् गन्धमाल्यैर् मया तव
इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम्

6.023.018

पित्रा दशरथेन त्वं श्वशुरेण ममानघ
पूर्वैश् च पितृभिः सार्धं नूनं स्वर्गे समागतः

6.023.019

दिवि नक्षत्रभूतस् त्वं महत् कर्म कृतं प्रियम्
पुण्यं राजर्षिवंशं त्वम् आत्मनः समुपेक्षसे

6.023.020

किं मान् न प्रेक्षसे राजन् किं मां न प्रतिभाषसे
बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम्

6.023.021

संश्रुतं गृह्णता पाणिं चरिष्यामीति यत् त्वया
स्मर तन् मम काकुत्स्थ नय माम् अपि दुःखिताम्

6.023.022

कस्मान् माम् अपहाय त्वं गतो गतिमतां वर
अस्माल् लोकाद् अमुं लोकं त्यक्त्वा माम् इह दुःखिताम्

6.023.023

कल्याणैर् उचितं यत् तत् परिष्वक्तं मयैव तु
क्रव्यादैस् तच् छरीरं ते नूनं विपरिकृष्यते

6.023.024

अग्निष्टोमादिभिर् यज्ञैर् इष्टवान् आप्तदक्षिणैः
अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे

6.023.025

प्रव्रज्याम् उपपन्नानां त्रयाणाम् एकम् आगतम्
परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा

6.023.026

स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते
तव चाख्यास्यते नूनं निशायां राक्षसैर् वधम्

6.023.027

सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम्
हृदयेन विदीर्णेन न भविष्यति राघव

6.023.028

साधु पातय मां क्षिप्रं रामस्योपरि रावणः
समानय पतिं पत्न्या कुरु कल्याणम् उत्तमम्

6.023.029

शिरसा मे शिरश् चास्य कायं कायेन योजय
रावणानुगमिष्यामि गतिं भर्तुर् महात्मनः
मुहूर्तम् अपि नेच्छामि जीवितुं पापजीविना

6.023.030

श्रुतं मया वेदविदां ब्राह्मणानां पितुर् गृहे
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः

6.023.031

क्षमा यस्मिन् दमस् त्यागः सत्यं धर्मः कृतज्ञता
अहिंसा चैव भूतानां तम् ऋते का गतिर् मम

6.023.032

इति सा दुःखसंतप्ता विललापायतेक्षणा
भर्तुः शिरो धनुस् तत्र समीक्ष्य जनकात्मजा

6.023.033

एवं लालप्यमानायां सीतायां तत्र राक्षसः
अभिचक्राम भर्तारम् अनीकस्थः कृताञ्जलिः

6.023.034

विजयस्वार्यपुत्रेति सो ऽभिवाद्य प्रसाद्य च
न्यवेदयद् अनुप्राप्तं प्रहस्तं वाहिनीपतिम्

6.023.035

अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः
किं चिद् आत्ययिकं कार्यं तेषां त्वं दर्शनं कुरु

6.023.036

एतच् छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्
अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ

6.023.037

स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यम् आत्मनः
सभां प्रविश्य विदधे विदित्वा रामविक्रमम्

6.023.038

अन्तर्धानं तु तच् छीर्षं तच् च कार्मुकम् उत्तमम्
जगाम रावणस्यैव निर्याणसमनन्तरम्

6.023.039

राक्षसेन्द्रस् तु तैः सार्धं मन्त्रिभिर् भीमविक्रमैः
समर्थयाम् आस तदा रामकार्यविनिश्चयम्

6.023.040

अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः
अब्रवीत् कालसदृशो रावणो राक्षसाधिपः

6.023.041

शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे
समानयध्वं सैन्यानि वक्तव्यं च न कारणम्

6.023.042

ततस् तथेति प्रतिगृह्य तद् वचो बलाधिपास् ते महद् आत्मनो बलम्
समानयंश् चैव समागतं च ते न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc