भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.024

6.024.001

सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी
आससादाशु वैदेहीं प्रियां प्रणयिनी सखी

6.024.002

सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया
रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढव्रता

6.024.003

सा ददर्श सखीं सीतां सरमा नष्टचेतनाम्
उपावृत्योत्थितां ध्वस्तां वडवाम् इव पांसुषु

6.024.004

तां समाश्वासयाम् आस सखी स्नेहेन सुव्रता
उक्ता यद् रावणेन त्वं प्रत्युक्तं च स्वयं त्वया

6.024.005

सखीस्नेहेन तद् भीरु मया सर्वं प्रतिश्रुतम्
लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात्
तव हेतोर् विशालाक्षि न हि मे जीवितं प्रियम्

6.024.006

स संभ्रान्तश् च निष्क्रान्तो यत् कृते राक्षसाधिपः
तच् च मे विदितं सर्वम् अभिनिष्क्रम्य मैथिलि

6.024.007

न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः
वधश् च पुरुषव्याघ्रे तस्मिन्न् एवोपपद्यते

6.024.008

न चैव वानरा हन्तुं शक्याः पादपयोधिनः
सुरा देवर्षभेणेव रामेण हि सुरक्षिताः

6.024.009

दीर्घवृत्तभुजः श्रीमान् महोरस्कः प्रतापवान्
धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः

6.024.010

विक्रान्तो रक्षिता नित्यम् आत्मनश् च परस्य च
लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित्

6.024.011

हन्ता परबलौघानाम् अचिन्त्यबलपौरुषः
न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः

6.024.012

अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना
इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि

6.024.013

शोकस् ते विगतः सर्वः कल्याणं त्वाम् उपस्थितम्
ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु

6.024.014

उत्तीर्य सागरं रामः सह वानरसेनया
संनिविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम्

6.024.015

दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः
सहितैः सागरान्तस्थैर् बलैस् तिष्ठति रक्षितः

6.024.016

अनेन प्रेषिता ये च राक्षसा लघुविक्रमः
राघवस् तीर्ण इत्य् एवं प्रवृत्तिस् तैर् इहाहृता

6.024.017

स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः
एष मन्त्रयते सर्वैः सचिवैः सह रावणः

6.024.018

इति ब्रुवाणा सरमा राक्षसी सीतया सह
सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम्

6.024.019

दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम्
उवाच सरमा सीताम् इदं मधुरभाषिणी

6.024.020

संनाहजननी ह्य् एषा भैरवा भीरु भेरिका
भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम्

6.024.021

कल्प्यन्ते मत्तमातंगा युज्यन्ते रथवाजिनः
तत्र तत्र च संनद्धाः संपतन्ति पदातयः

6.024.022

आपूर्यन्ते राजमार्गाः सैन्यैर् अद्भुतदर्शनैः
वेगवद्भिर् नदद्भिश् च तोयौघैर् इव सागरः

6.024.023

शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा
रथवाजिगजानां च भूषितानां च रक्षसाम्

6.024.024

प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम्
वनं निर्दहतो धर्मे यथारूपं विभावसोः

6.024.025

घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम्
हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा

6.024.026

उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम्
संभ्रमो रक्षसाम् एष तुमुलो लोमहर्षणः

6.024.027

श्रीस् त्वां भजति शोकघ्नी रक्षसां भयम् आगतम्
रामात् कमलपत्राक्षि दैत्यानाम् इव वासवात्

6.024.028

अवजित्य जितक्रोधस् तम् अचिन्त्यपराक्रमः
रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति

6.024.029

विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः
यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः

6.024.030

आगतस्य हि रामस्य क्षिप्रम् अङ्कगतां सतीम्
अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते

6.024.031

अश्रूण्य् आनन्दजानि त्वं वर्तयिष्यसि शोभने
समागम्य परिष्वक्ता तस्योरसि महोरसः

6.024.032

अचिरान् मोक्ष्यते सीते देवि ते जघनं गताम्
धृताम् एतां बहून् मासान् वेणीं रामो महाबलः

6.024.033

तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रम् इवोदितम्
मोक्ष्यसे शोकजं वारि निर्मोकम् इव पन्नगी

6.024.034

रावणं समरे हत्वा नचिराद् एव मैथिलि
त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम्

6.024.035

समागता त्वं रामेण मोदिष्यसि महात्मना
सुवर्षेण समायुक्ता यथा सस्येन मेदिनी

6.024.036

गिरिवरम् अभितो ऽनुवर्तमानो हय इव मण्डलम् आशु यः करोति
तम् इह शरणम् अभ्युपेहि देवि दिवसकरं प्रभवो ह्य् अयं प्रजानाम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc