भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.022

6.022.001

ततस् तम् अक्षोभ्यबलं लङ्कायां नृपतेश् चरः
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्

6.022.002

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्
जातोद्वेगो ऽभवत् किं चित् सचिवांश् चेदम् अब्रवीत्

6.022.003

मन्त्रिणः शीघ्रम् आयान्तु सर्वे वै सुसमाहिताः
अयं नो मन्त्रकालो हि संप्राप्त इव राक्षसाः

6.022.004

तस्य तच् छासनं श्रुत्वा मन्त्रिणो ऽभ्यागमन् द्रुतम्
ततः संमन्त्रयाम् आस सचिवै राक्षसैः सह

6.022.005

मन्त्रयित्वा स दुर्धर्षः क्षमं यत् समनन्तरम्
विसर्जयित्वा सचिवान् प्रविवेश स्वम् आलयम्

6.022.006

ततो राक्षसम् आहूय विद्युज्जिह्वं महाबलम्
मायाविदं महामायः प्राविशद् यत्र मैथिली

6.022.007

विद्युज्जिह्वं च मायाज्ञम् अब्रवीद् राक्षसाधिपः
मोहयिष्यामहे सीतां मायया जनकात्मजाम्

6.022.008

शिरो मायामयं गृह्य राघवस्य निशाचर
मां त्वं समुपतिष्ठस्व महच् च सशरं धनुः

6.022.009

एवम् उक्तस् तथेत्य् आह विद्युज्जिह्वो निशाचरः
तस्य तुष्टो ऽभवद् राजा प्रददौ च विभूषणम्

6.022.010

अशोकवनिकायां तु प्रविवेश महाबलः
ततो दीनाम् अदैन्यार्हां ददर्श धनदानुजः
अधोमुखीं शोकपराम् उपविष्टां महीतले

6.022.011

भर्तारम् एव ध्यायन्तीम् अशोकवनिकां गताम्
उपास्यमानां घोराभी राक्षसीभिर् अदूरतः

6.022.012

उपसृत्य ततः सीतां प्रहर्षन् नाम कीर्तयन्
इदं च वचनं धृष्टम् उवाच जनकात्मजाम्

6.022.013

सान्त्व्यमाना मया भद्रे यम् उपाश्रित्य वल्गसे
खर हन्ता स ते भर्ता राघवः समरे हतः

6.022.014

छिन्नं ते सर्वतो मूलं दर्पस् ते निहतो मया
व्यसनेनात्मनः सीते मम भार्या भविष्यसि

6.022.015

अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि
शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा

6.022.016

समायातः समुद्रान्तं मां हन्तुं किल राघवः
वानरेन्द्रप्रणीतेन बलेन महता वृतः

6.022.017

संनिविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम्
बलेन महता रामो व्रजत्य् अस्तं दिवाकरे

6.022.018

अथाध्वनि परिश्रान्तम् अर्धरात्रे स्थितं बलम्
सुखसुप्तं समासाद्य चारितं प्रथमं चरैः

6.022.019

तत् प्रहस्तप्रणीतेन बलेन महता मम
बलम् अस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः

6.022.020

पट्टसान् परिघान् खड्गांश् चक्रान् दण्डान् महायसान्
बाणजालानि शूलानि भास्वरान् कूटमुद्गरान्

6.022.021

यष्टीश् च तोमरान् प्रासंश् चक्राणि मुसलानि च
उद्यम्योद्यम्य रक्षोभिर् वानरेषु निपातिताः

6.022.022

अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना
असक्तं कृतहस्तेन शिरश् छिन्नं महासिना

6.022.023

विभीषणः समुत्पत्य निगृहीतो यदृच्छया
दिशः प्रव्राजितः सर्वैर् लक्ष्मणः प्लवगैः सह

6.022.024

सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः
निरस्तहनुकः शेते हनूमान् राक्षसैर् हतः

6.022.025

जाम्बवान् अथ जानुभ्याम् उत्पतन् निहतो युधि
पट्टसैर् बहुभिश् छिन्नो निकृत्तः पादपो यथा

6.022.026

मैन्दश् च द्विविदश् चोभौ निहतौ वानरर्षभौ
निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ

6.022.027

असिनाभ्याहतश् छिन्नो मध्ये रिपुनिषूदनः
अभिष्टनति मेदिन्यां पनसः पनसो यथा

6.022.028

नाराचैर् बहुभिश् छिन्नः शेते दर्यां दरीमुखः
कुमुदस् तु महातेजा निष्कूजन् सायकैर् हतः

6.022.029

अङ्गदो बहुभिश् छिन्नः शरैर् आसाद्य राक्षसैः
पातितो रुधिरोद्गारी क्षितौ निपतितो ऽङ्गदः

6.022.030

हरयो मथिता नागै रथजालैस् तथापरे
शायिता मृदितास् तत्र वायुवेगैर् इवाम्बुदाः

6.022.031

प्रद्रुताश् च परे त्रस्ता हन्यमाना जघन्यतः
अभिद्रुतास् तु रक्षोभिः सिंहैर् इव महाद्विपाः

6.022.032

सागरे पतिताः के चित् के चिद् गगनम् आश्रिताः
ऋक्षा वृक्षान् उपारूढा वानरैस् तु विमिश्रिताः

6.022.033

सागरस्य च तीरेषु शैलेषु च वनेषु च
पिङ्गाक्षास् ते विरूपाक्षैर् बहुभिर् बहवो हताः

6.022.034

एवं तव हतो भर्ता ससैन्यो मम सेनया
क्षतजार्द्रं रजोध्वस्तम् इदं चास्याहृतं शिरः

6.022.035

ततः परमदुर्धर्षो रावणो राक्षसेश्वरः
सीतायाम् उपशृण्वन्त्यां राक्षसीम् इदम् अब्रवीत्

6.022.036

राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वम् आनय
येन तद् राघवशिरः संग्रामात् स्वयम् आहृतम्

6.022.037

विद्युज्जिह्वस् ततो गृह्य शिरस् तत् सशरासनम्
प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः

6.022.038

तम् अब्रवीत् ततो राजा रावणो राक्षसं स्थितम्
विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम्

6.022.039

अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः
अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु

6.022.040

एवम् उक्तं तु तद् रक्षः शिरस् तत् प्रियदर्शनम्
उपनिक्षिप्य सीतायाः क्षिप्रम् अन्तरधीयत

6.022.041

रावणश् चापि चिक्षेप भास्वरं कार्मुकं महत्
त्रिषु लोकेषु विख्यातं सीताम् इदम् उवाच ह

6.022.042

इदं तत् तव रामस्य कार्मुकं ज्यासमन्वितम्
इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम्

6.022.043

स विद्युज्जिह्वेन सहैव तच् छिरो धनुश् च भूमौ विनिकीर्य रावणः
विदेहराजस्य सुतां यशस्विनीं ततो ऽब्रवीत् तां भव मे वशानुगा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc