रामायण · अध्याय 6.020
शुकेन तु समाख्यातांस् तान् दृष्ट्वा हरियूथपान्
समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम्
लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम्
सर्ववानरराजं च सुग्रीवं भीमविक्रमम्
किं चिद् आविग्नहृदयो जातक्रोधश् च रावणः
भर्त्सयाम् आस तौ वीरौ कथान्ते शुकसारणौ
अधोमुखौ तौ प्रणताव् अब्रवीच् छुकसारणौ
रोषगद्गदया वाचा संरब्धः परुषं वचः
न तावत् सदृशं नाम सचिवैर् उपजीविभिः
विप्रियं नृपतेर् वक्तुं निग्रहप्रग्रहे विभोः
रिपूणां प्रतिकूलानां युद्धार्थम् अभिवर्तताम्
उभाभ्यां सदृशं नाम वक्तुम् अप्रस्तवे स्तवम्
आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः
सारं यद् राजशास्त्राणाम् अनुजीव्यं न गृह्यते
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोछ्यते
ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धराम्य् अहम्
किं नु मृत्योर् भयं नास्ति मां वक्तुं परुषं वचः
यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम्
अप्य् एव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः
राजदोषपरामृष्टास् तिष्ठन्ते नापराधिनः
हन्याम् अहम् इमौ पापौ शत्रुपक्षप्रशंसकौ
यदि पूर्वोपकारैर् मे न क्रोधो मृदुतां व्रजेत्
अपध्वंसत गच्छध्वं संनिकर्षाद् इतो मम
न हि वां हन्तुम् इच्छामि स्मरन्न् उपकृतानि वाम्
हताव् एव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ
एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुकसारणौ
रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ
अब्रवीत् स दशग्रीवः समीपस्थं महोदरम्
उपस्थापय शीघ्रं मे चारान् नीतिविशारदान्
ततश् चराः संत्वरिताः प्राप्ताः पार्थिवशासनात्
उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा
तान् अब्रवीत् ततो वाक्यं रावणो राक्षसाधिपः
चारान् प्रत्ययिकाञ् शूरान् भक्तान् विगतसाध्वसान्
इतो गच्छत रामस्य व्यवसायं परीक्षथ
मन्त्रेष्व् अभ्यन्तरा ये ऽस्य प्रीत्या तेन समागताः
कथं स्वपिति जागर्ति किम् अन्यच् च करिष्यति
विज्ञाय निपुणं सर्वम् आगन्तव्यम् अशेषतः
चारेण विदितः शत्रुः पण्डितैर् वसुधाधिपैः
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते
चारास् तु ते तथेत्य् उक्त्वा प्रहृष्टा राक्षसेश्वरम्
कृत्वा प्रदक्षिणं जग्मुर् यत्र रामः सलक्ष्मणः
ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ
प्रच्छन्ना ददृशुर् गत्वा ससुग्रीवविभीषणौ
ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः
विभीषणेन तत्रस्था निगृहीता यदृच्छया
वानरैर् अर्दितास् ते तु विक्रान्तैर् लघुविक्रमैः
पुनर् लङ्काम् अनुप्राप्ताः श्वसन्तो नष्टचेतसः
ततो दशग्रीवम् उपस्थितास् ते चारा बहिर्नित्यचरा निशाचराः
गिरेः सुवेलस्य समीपवासिनं न्यवेदयन् भीमबलं महाबलाः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0