रामायण · अध्याय 6.019
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम्
बलम् आलोकयन् सर्वं शुको वाक्यम् अथाब्रवीत्
स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान्
न्यग्रोधान् इव गाङ्गेयान् सालान् हैमवतीन् इव
एते दुष्प्रसहा राजन् बलिनः कामरूपिणः
दैत्यदानवसंकाशा युद्धे देवपराक्रमाः
एषां कोटिसहस्राणि नव पञ्चच सप्त च
तथा शङ्खसहस्राणि तथा वृन्दशतानि च
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा
हरयो देवगन्धर्वैर् उत्पन्नाः कामरूपिणः
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ
मैन्दश् च द्विविदश् चोभौ ताभ्यां नास्ति समो युधि
ब्रह्मणा समनुज्ञाताव् अमृतप्राशिनाव् उभौ
आशंसेते युधा लङ्काम् एतौ मर्दितुम् ओजसा
याव् एताव् एतयोः पार्श्वे स्थितौ पर्वतसंनिभौ
सुमुखो विमुखश् चैव मृत्युपुत्रौ पितुः समौ
यं तु पश्यसि तिष्ठन्तं प्रभिन्नम् इव कुञ्जरम्
यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः
एषो ऽभिगन्ता लङ्काया वैदेह्यास् तव च प्रभो
एनं पश्य पुरा दृष्टं वानरं पुनर् आगतम्
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः
हनूमान् इति विख्यातो लङ्घितो येन सागरः
कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः
अनिवार्यगतिश् चैव यथा सततगः प्रभुः
उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः
त्रियोजनसहस्रं तु अध्वानम् अवतीर्य हि
आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति
इति संचिन्त्य मनसा पुरैष बलदर्पितः
अनाधृष्यतमं देवम् अपि देवर्षिदानवैः
अनासाद्यैव पतितो भास्करोदयने गिरौ
पतितस्य कपेर् अस्य हनुर् एका शिलातले
किं चिद् भिन्ना दृढहनोर् हनूमान् एष तेन वै
सत्यम् आगमयोगेन ममैष विदितो हरिः
नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम्
एष आशंसते लङ्काम् एको मर्दितुम् ओजसा
यश् चैषो ऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः
इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः
यस्मिन् न चलते धर्मो यो धर्मं नातिवर्तते
यो ब्राह्मम् अस्त्रं वेदांश् च वेद वेदविदां वरः
यो भिन्द्याद् गगनं बाणैः पर्वतांश् चापि दारयेत्
यस्य मृत्योर् इव क्रोधः शक्रस्येव पराक्रमः
स एष रामस् त्वां योद्धुं राजन् समभिवर्तते
यश् चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः
विशालवक्षास् ताम्राक्षो नीलकुञ्चितमूर्धजः
एषो ऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः
नये युद्धे च कुशलः सर्वशास्त्रविशारदः
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली
रामस्य दक्षिणो बाहुर् नित्यं प्राणो बहिश्चरः
न ह्य् एष राघवस्यार्थे जीवितं परिरक्षति
एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान्
यस् तु सव्यम् असौ पक्षं रामस्याश्रित्य तिष्ठति
रक्षोगणपरिक्षिप्तो राजा ह्य् एष विभीषणः
श्रीमता राजराजेन लङ्कायाम् अभिषेचितः
त्वाम् एव प्रतिसंरब्धो युद्धायैषो ऽभिवर्तते
यं तु पश्यसि तिष्ठन्तं मध्ये गिरिम् इवाचलम्
सर्वशाखामृगेन्द्राणां भर्तारम् अपराजितम्
तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च
यः कपीन् अति बभ्राज हिमवान् इव पर्वतान्
किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम्
दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः
यस्यैषा काञ्चनी माला शोभते शतपुष्करा
कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता
एतां च मालां तारां च कपिराज्यं च शाश्वतम्
सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः
एवं कोटिसहस्रेण शङ्कूनां च शतेन च
सुग्रीवो वानरेन्द्रस् त्वां युद्धार्थम् अभिवर्तते
इमां महाराजसमीक्ष्य वाहिनीम् उपस्थितां प्रज्वलितग्रहोपमाम्
ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान् न परैः पराजयः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0