रामायण · अध्याय 6.021
ततस् तम् अक्षोभ्य बलं लङ्काधिपतये चराः
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्
जातोद्वेगो ऽभवत् किं चिच् छार्दूलं वाक्यम् अब्रवीत्
अयथावच् च ते वर्णो दीनश् चासि निशाचर
नासि कच्चिद् अमित्राणां क्रुद्धानां वशम् आगतः
इति तेनानुशिष्टस् तु वाचं मन्दम् उदीरयत्
तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः
न ते चारयितुं शक्या राजन् वानरपुंगवाः
विक्रान्ता बलवन्तश् च राघवेण च रक्षिताः
नापि संभाषितुं शक्याः संप्रश्नो ऽत्र न लभ्यते
सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः
प्रविष्टमात्रे ज्ञातो ऽहं बले तस्मिन्न् अचारिते
बलाद् गृहीतो बहुभिर् बहुधास्मि विदारितः
जानुभिर् मुष्टिभिर् दन्तैस् तलैश् चाभिहतो भृशम्
परिणीतो ऽस्मि हरिभिर् बलवद्भिर् अमर्षणैः
परिणीय च सर्वत्र नीतो ऽहं रामसंसदम्
रुधिरादिग्धसर्वाङ्गो विह्वलश् चलितेन्द्रियः
हरिभिर् वध्यमानश् च याचमानः कृताञ्जलिः
राघवेण परित्रातो जीवामि ह यदृच्छया
एष शैलैः शिलाभिश् च पूरयित्वा महार्णवम्
द्वारम् आश्रित्य लङ्काया रामस् तिष्ठति सायुधः
गरुडव्यूहम् आस्थाय सर्वतो हरिभिर् वृतः
मां विसृज्य महातेजा लङ्काम् एवाभिवर्तते
पुरा प्राकारम् आयाति क्षिप्रम् एकतरं कुरु
सीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम्
मनसा संततापाथ तच् छ्रुत्वा राक्षसाधिपः
शार्दूलस्य महद् वाक्यम् अथोवाच स रावणः
यदि मां प्रतियुध्येरन् देवगन्धर्वदानवाः
नैव सीतां प्रदास्यामि सर्वलोकभयाद् अपि
एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत्
चारिता भवता सेना के ऽत्र शूराः प्लवंगमाः
कीदृशाः किंप्रभावाश् च वानरा ये दुरासदाः
कस्य पुत्राश् च पौत्राश् च तत्त्वम् आख्याहि राक्षस
तत्र् अत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम्
अवश्यं बलसंख्यानं कर्तव्यं युद्धम् इच्छता
अथैवम् उक्तः शार्दूलो रावणेनोत्तमश् चरः
इदं वचनम् आरेभे वक्तुं रावणसंनिधौ
अथर्क्षरजसः पुत्रो युधि राजन् सुदुर्जयः
गद्गदस्याथ पुत्रो ऽत्र जाम्बवान् इति विश्रुतः
गद्गदस्यैव पुत्रो ऽन्यो गुरुपुत्रः शतक्रतोः
कदनं यस्य पुत्रेण कृतम् एकेन रक्षसाम्
सुषेणश् चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान्
सौम्यः सोमात्मजश् चात्र राजन् दधिमुखः कपिः
सुमुखो दुर्मुखश् चात्र वेगदर्शी च वानरः
मृत्युर् वानररूपेण नूनं सृष्टः स्वयम्भुवा
पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम्
अनिलस्य च पुत्रो ऽत्र हनूमान् इति विश्रुतः
नप्ता शक्रस्य दुर्धर्षो बलवान् अङ्गदो युवा
मैन्दश् च द्विविदश् चोभौ बलिनाव् अश्विसंभवौ
पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः
गजो गवाक्षो गवयः शरभो गन्धमादनः
श्वेतो ज्योतिर्मुखश् चात्र भास्करस्यात्मसंभवौ
वरुणस्य च पुत्रो ऽथ हेमकूटः प्लवंगमः
विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः
विक्रान्तो वेगवान् अत्र वसुपुत्रः सुदुर्धरः
दशवानरकोट्यश् च शूराणां युद्धकाङ्क्षिणाम्
श्रीमतां देवपुत्राणां शेषान् नाख्यातुम् उत्सहे
पुत्रो दशरथस्यैष सिंहसंहननो युवा
दूषणो निहतो येन खरश् च त्रिशिरास् तथा
नास्ति रामस्य सदृशो विक्रमे भुवि कश् चन
विराधो निहतो येन कबन्धश् चान्तकोपमः
वक्तुं न शक्तो रामस्य नरः कश् चिद् गुणान् क्षितौ
जनस्थानगता येन तावन्तो राक्षसा हताः
लक्ष्मणश् चात्र धर्मात्मा मातंगानाम् इवर्षभः
यस्य बाणपथं प्राप्य न जीवेद् अपि वासवः
राक्षसानां वरिष्ठश् च तव भ्राता विभीषणः
परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः
इति सर्वं समाख्यातं तवेदं वानरं बलम्
सुवेले ऽधिष्ठितं शैले शेषकार्ये भवान् गतिः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0