भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.011

6.011.001

इत्य् उक्त्वा परुषं वाक्यं रावणं रावणानुजः
आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः

6.011.002

तं मेरुशिखराकारं दीप्ताम् इव शतह्रदाम्
गगनस्थं महीस्थास् ते ददृशुर् वानराधिपाः

6.011.003

तम् आत्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः
वानरैः सह दुर्धर्षश् चिन्तयाम् आस बुद्धिमान्

6.011.004

चिन्तयित्वा मुहूर्तं तु वानरांस् तान् उवाच ह
हनूमत्प्रमुखान् सर्वान् इदं वचनम् उत्तमम्

6.011.005

एष सर्वायुधोपेतश् चतुर्भिः सह राक्षसैः
राक्षसो ऽभ्येति पश्यध्वम् अस्मान् हन्तुं न संशयः

6.011.006

सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः
सालान् उद्यम्य शैलांश् च इदं वचनम् अब्रुवन्

6.011.007

शीघ्रं व्यादिश नो राजन् वधायैषां दुरात्मनाम्
निपतन्तु हताश् चैते धरण्याम् अल्पजीविताः

6.011.008

तेषां संभाषमाणानाम् अन्योन्यं स विभीषणः
उत्तरं तीरम् आसाद्य खस्थ एव व्यतिष्ठत

6.011.009

उवाच च महाप्राज्ञः स्वरेण महता महान्
सुग्रीवं तांश् च संप्रेक्ष्य खस्थ एव विभीषणः

6.011.010

रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः
तस्याहम् अनुजो भ्राता विभीषण इति श्रुतः

6.011.011

तेन सीता जनस्थानाद् धृता हत्वा जटायुषम्
रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता

6.011.012

तम् अहं हेतुभिर् वाक्यैर् विविधैश् च न्यदर्शयम्
साधु निर्यात्यतां सीता रामायेति पुनः पुनः

6.011.013

स च न प्रतिजग्राह रावणः कालचोदितः
उच्यमानो हितं वाक्यं विपरीत इवौषधम्

6.011.014

सो ऽहं परुषितस् तेन दासवच् चावमानितः
त्यक्त्वा पुत्रांश् च दारांश् च राघवं शरणं गतः

6.011.015

सर्वलोकशरण्याय राघवाय महात्मने
निवेदयत मां क्षिप्रं विभीषणम् उपस्थितम्

6.011.016

एतत् तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः
लक्ष्मणस्याग्रतो रामं संरब्धम् इदम् अब्रवीत्

6.011.017

रावणस्यानुजो भ्राता विभीषण इति श्रुतः
चतुर्भिः सह रक्षोभिर् भवन्तं शरणं गतः

6.011.018

रावणेन प्रणिहितं तम् अवेहि विभीषणम्
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर

6.011.019

राक्षसो जिह्मया बुद्ध्या संदिष्टो ऽयम् उपस्थितः
प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव

6.011.020

बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह
रावणस्य नृशंसस्य भ्राता ह्य् एष विभीषणः

6.011.021

एवम् उक्त्वा तु तं रामं संरब्धो वाहिनीपतिः
वाक्यज्ञो वाक्यकुशलं ततो मौनम् उपागमत्

6.011.022

सुग्रीवस्य तु तद् वाक्यं श्रुत्वा रामो महाबलः
समीपस्थान् उवाचेदं हनूमत्प्रमुखान् हरीन्

6.011.023

यद् उक्तं कपिराजेन रावणावरजं प्रति
वाक्यं हेतुमद् अत्यर्थं भवद्भिर् अपि तच् छ्रुतम्

6.011.024

सुहृदा ह्य् अर्थकृच्छेषु युक्तं बुद्धिमता सता
समर्थेनापि संदेष्टुं शाश्वतीं भूतिम् इच्छता

6.011.025

इत्य् एवं परिपृष्टास् ते स्वं स्वं मतम् अतन्द्रिताः
सोपचारं तदा रामम् ऊचुर् हितचिकीर्षवः

6.011.026

अज्ञातं नास्ति ते किं चित् त्रिषु लोकेषु राघव
आत्मानं पूजयन् राम पृच्छस्य् अस्मान् सुहृत्तया

6.011.027

त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः
परीक्ष्य कारा स्मृतिमान् निसृष्टात्मा सुहृत्सु च

6.011.028

तस्माद् एकैकशस् तावद् ब्रुवन्तु सचिवास् तव
हेतुतो मतिसंपन्नाः समर्थाश् च पुनः पुनः

6.011.029

इत्य् उक्ते राघवायाथ मतिमान् अङ्गदो ऽग्रतः
विभीषणपरीक्षार्थम् उवाच वचनं हरिः

6.011.030

शत्रोः सकाशात् संप्राप्तः सर्वथा शङ्क्य एव हि
विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः

6.011.031

छादयित्वात्मभावं हि चरन्ति शठबुद्धयः
प्रहरन्ति च रन्ध्रेषु सो ऽनर्थः सुमहान् भवेत्

6.011.032

अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह
गुणतः संग्रहं कुर्याद् दोषतस् तु विसर्जयेत्

6.011.033

यदि दोषो महांस् तस्मिंस् त्यज्यताम् अविशङ्कितम्
गुणान् वापि बहूञ् ज्ञात्वा संग्रहः क्रियतां नृप

6.011.034

शरभस् त्व् अथ निश्चित्य सार्थं वचनम् अब्रवीत्
क्षिप्रम् अस्मिन् नरव्याघ्र चारः प्रतिविधीयताम्

6.011.035

प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना
परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः

6.011.036

जाम्बवांस् त्व् अथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः
वाक्यं विज्ञापयाम् आस गुणवद् दोषवर्जितम्

6.011.037

बद्धवैराच् च पापाच् च राक्षसेन्द्राद् विभीषणः
अदेश काले संप्राप्तः सर्वथा शङ्क्यताम् अयम्

6.011.038

ततो मैन्दस् तु संप्रेक्ष्य नयापनयकोविदः
वाक्यं वचनसंपन्नो बभाषे हेतुमत्तरम्

6.011.039

वचनं नाम तस्यैष रावणस्य विभीषणः
पृच्छ्यतां मधुरेणायं शनैर् नरवरेश्वर

6.011.040

भावम् अस्य तु विज्ञाय ततस् तत्त्वं करिष्यसि
यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ

6.011.041

अथ संस्कारसंपन्नो हनूमान् सचिवोत्तमः
उवाच वचनं श्लक्ष्णम् अर्थवन् मधुरं लघु

6.011.042

न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्
अतिशाययितुं शक्तो बृहस्पतिर् अपि ब्रुवन्

6.011.043

न वादान् नापि संघर्षान् नाधिक्यान् न च कामतः
वक्ष्यामि वचनं राजन् यथार्थं रामगौरवात्

6.011.044

अर्थानर्थनिमित्तं हि यद् उक्तं सचिवैस् तव
तत्र दोषं प्रपश्यामि क्रिया न ह्य् उपपद्यते

6.011.045

ऋते नियोगात् सामर्थ्यम् अवबोद्धुं न शक्यते
सहसा विनियोगो हि दोषवान् प्रतिभाति मे

6.011.046

चारप्रणिहितं युक्तं यद् उक्तं सचिवैस् तव
अर्थस्यासंभवात् तत्र कारणं नोपपद्यते

6.011.047

अदेश काले संप्राप्त इत्य् अयं यद् विभीषणः
विवक्षा चात्र मे ऽस्तीयं तां निबोध यथा मति

6.011.048

स एष देशः कालश् च भवतीह यथा तथा
पुरुषात् पुरुषं प्राप्य तथा दोषगुणाव् अपि

6.011.049

दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि
युक्तम् आगमनं तस्य सदृशं तस्य बुद्धितः

6.011.050

अज्ञातरूपैः पुरुषैः स राजन् पृच्छ्यताम् इति
यद् उक्तम् अत्र मे प्रेक्षा का चिद् अस्ति समीक्षिता

6.011.051

पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः
तत्र मित्रं प्रदुष्येत मिथ्यपृष्टं सुखागतम्

6.011.052

अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै
अन्तः स्वभावैर् गीतैस् तैर् नैपुण्यं पश्यता भृशम्

6.011.053

न त्व् अस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता
प्रसन्नं वदनं चापि तस्मान् मे नास्ति संशयः

6.011.054

अशङ्कितमतिः स्वस्थो न शठः परिसर्पति
न चास्य दुष्टा वाक् चापि तस्मान् नास्तीह संशयः

6.011.055

आकारश् छाद्यमानो ऽपि न शक्यो विनिगूहितुम्
बलाद् धि विवृणोत्य् एव भावम् अन्तर्गतं नृणाम्

6.011.056

देशकालोपपन्नं च कार्यं कार्यविदां वर
सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम्

6.011.057

उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम्
वालिनश् च वधं श्रुत्वा सुग्रीवं चाभिषेचितम्

6.011.058

राज्यं प्रार्थयमानश् च बुद्धिपूर्वम् इहागतः
एतावत् तु पुरस्कृत्य युज्यते त्व् अस्य संग्रहः

6.011.059

यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति
त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc