भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.010

6.010.001

सुनिविष्टं हितं वाक्यम् उक्तवन्तं विभीषणम्
अब्रवीत् परुषं वाक्यं रावणः कालचोदितः

6.010.002

वसेत् सह सपत्नेन क्रुद्धेनाशीविषेण वा
न तु मित्रप्रवादेन संवसेच् छत्रुसेविना

6.010.003

जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस
हृष्यन्ति व्यसनेष्व् एते ज्ञातीनां ज्ञातयः सदा

6.010.004

प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस
ज्ञातयो ह्य् अवमन्यन्ते शूरं परिभवन्ति च

6.010.005

नित्यम् अन्योन्यसंहृष्टा व्यसनेष्व् आततायिनः
प्रच्छन्नहृदया घोरा ज्ञातयस् तु भयावहाः

6.010.006

श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्मवने क्व चित्
पाशहस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम

6.010.007

नाग्निर् नान्यानि शस्त्राणि न नः पाशा भयावहाः
घोराः स्वार्थप्रयुक्तास् तु ज्ञातयो नो भयावहाः

6.010.008

उपायम् एते वक्ष्यन्ति ग्रहणे नात्र संशयः
कृत्स्नाद् भयाज् ज्ञातिभयं सुकष्टं विदितं च नः

6.010.009

विद्यते गोषु संपन्नं विद्यते ब्राह्मणे दमः
विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम्

6.010.010

ततो नेष्टम् इदं सौम्य यद् अहं लोकसत्कृतः
ऐश्वर्यम् अभिजातश् च रिपूणां मूर्ध्नि च स्थितः

6.010.011

अन्यस् त्व् एवंविधं ब्रूयाद् वाक्यम् एतन् निशाचर
अस्मिन् मुहूर्ते न भवेत् त्वां तु धिक् कुलपांसनम्

6.010.012

इत्य् उक्तः परुषं वाक्यं न्यायवादी विभीषणः
उत्पपात गदापाणिश् चतुर्भिः सह राक्षसैः

6.010.013

अब्रवीच् च तदा वाक्यं जातक्रोधो विभीषणः
अन्तरिक्षगतः श्रीमान् भ्रातरं राक्षसाधिपम्

6.010.014

स त्वं भ्रातासि मे राजन् ब्रूहि मां यद् यद् इच्छसि
इदं तु परुषं वाक्यं न क्षमाम्य् अनृतं तव

6.010.015

सुनीतं हितकामेन वाक्यम् उक्तं दशानन
न गृह्णन्त्य् अकृतात्मानः कालस्य वशम् आगताः

6.010.016

सुलभाः पुरुषा राजन् सततं प्रियवादिनः
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः

6.010.017

बद्धं कालस्य पाशेन सर्वभूतापहारिणा
न नश्यन्तम् उपेक्षेयं प्रदीप्तं शरणं यथा

6.010.018

दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः
न त्वाम् इच्छाम्य् अहं द्रष्टुं रामेण निहतं शरैः

6.010.019

शूराश् च बलवन्तश् च कृतास्त्राश् च रणाजिरे
कालाभिपन्ना सीदन्ति यथा वालुकसेतवः

6.010.020

आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्
स्वस्ति ते ऽस्तु गमिष्यामि सुखी भव मया विना

6.010.021

निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर
परीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिर् ईरितम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc