भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.012

6.012.001

अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह
प्रत्यभाषत दुर्धर्षः श्रुतवान् आत्मनि स्थितम्

6.012.002

ममापि तु विवक्षास्ति का चित् प्रति विभीषणम्
श्रुतम् इच्छामि तत् सर्वं भवद्भिः श्रेयसि स्थितैः

6.012.003

मित्रभावेन संप्राप्तं न त्यजेयं कथं चन
दोषो यद्य् अपि तस्य स्यात् सताम् एतद् अगर्हितम्

6.012.004

रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः
प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः

6.012.005

किम् अत्र चित्रं धर्मज्ञ लोकनाथशिखामणे
यत् त्वम् आर्यं प्रभाषेथाः सत्त्ववान् सपथे स्थितः

6.012.006

मम चाप्य् अन्तरात्मायं शुद्धिं वेत्ति विभीषणम्
अनुमनाच् च भावाच् च सर्वतः सुपरीक्षितः

6.012.007

तस्मात् क्षिप्रं सहास्माभिस् तुल्यो भवतु राघव
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः

6.012.008

स सुग्रीवस्य तद् वाक्यं रामः श्रुत्वा विमृश्य च
ततः शुभतरं वाक्यम् उवाच हरिपुंगवम्

6.012.009

सुदुष्टो वाप्य् अदुष्टो वा किम् एष रजनीचरः
सूक्ष्मम् अप्य् अहितं कर्तुं ममाशक्तः कथं चन

6.012.010

पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्
अङ्गुल्यग्रेण तान् हन्याम् इच्छन् हरिगणेश्वर

6.012.011

श्रूयते हि कपोतेन शत्रुः शरणम् आगतः
अर्चितश् च यथान्यायं स्वैश् च मांसैर् निमन्त्रितः

6.012.012

स हि तं प्रतिजग्राह भार्या हर्तारम् आगतम्
कपोतो वानरश्रेष्ठ किं पुनर् मद्विधो जनः

6.012.013

ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा
शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना

6.012.014

बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्
न हन्याद् आनृशंस्यार्थम् अपि शत्रुं परं पत

6.012.015

आर्तो वा यदि वा दृप्तः परेषां शरणं गतः
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना

6.012.016

स चेद् भयाद् वा मोहाद् वा कामाद् वापि न रक्षति
स्वया शक्त्या यथातत्त्वं तत् पापं लोकगर्हितम्

6.012.017

विनष्टः पश्यतस् तस्य रक्षिणः शरणागतः
आदाय सुकृतं तस्य सर्वं गच्छेद् अरक्षितः

6.012.018

एवं दोषो महान् अत्र प्रपन्नानाम् अरक्षणे
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम्

6.012.019

करिष्यामि यथार्थं तु कण्डोर् वचनम् उत्तमम्
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात् तु फलोदये

6.012.020

सकृद् एव प्रपन्नाय तवास्मीति च याचते
अभयं सर्वभूतेभ्यो ददाम्य् एतद् व्रतं मम

6.012.021

आनयैनं हरिश्रेष्ठ दत्तम् अस्याभयं मया
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्

6.012.022

ततस् तु सुग्रीववचो निशम्य तद् धरीश्वरेणाभिहितं नरेश्वरः
विभीषणेनाशु जगाम संगमं पतत्रिराजेन यथा पुरंदरः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc