रामायण · अध्याय 6.007
इत्य् उक्ता राक्षसेन्द्रेण राक्षसास् ते महाबलाः
ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम्
राजन् परिघशक्त्यृष्टिशूलपट्टससंकुलम्
सुमहन् नो बलं कस्माद् विषादं भजते भवान्
कैलासशिखरावासी यक्षैर् बहुभिर् आवृतः
सुमहत् कदनं कृत्वा वश्यस् ते धनदः कृतः
स महेश्वरसख्येन श्लाघमानस् त्वया विभो
निर्जितः समरे रोषाल् लोकपालो महाबलः
विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च
त्वया कैलासशिखराद् विमानम् इदम् आहृतम्
मयेन दानवेन्द्रेण त्वद्भयात् सख्यम् इच्छता
दुहिता तव भार्यार्थे दत्ता राक्षसपुंगव
दानवेन्द्रो मधुर् नाम वीर्योत्सिक्तो दुरासदः
विगृह्य वशम् आनीतः कुम्भीनस्याः सुखावहः
निर्जितास् ते महाबाहो नागा गत्वा रसातलम्
वासुकिस् तक्षकः शङ्खो जटी च वशम् आहृताः
अक्षया बलवन्तश् च शूरा लब्धवराः पुनः
त्वया संवत्सरं युद्ध्वा समरे दानवा विभो
स्वबलं समुपाश्रित्य नीता वशम् अरिंदम
मायाश् चाधिगतास् तत्र बहवो राक्षसाधिप
शूराश् च बलवन्तश् च वरुणस्य सुता रणे
निर्जितास् ते महाबाहो चतुर्विधबलानुगाः
मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम्
अवगाह्य त्वया राजन् यमस्य बलसागरम्
जयश् च विप्लुलः प्राप्तो मृत्युश् च प्रतिषेधितः
सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः
क्षत्रियैर् बहुभिर् वीरैः शक्रतुल्यपराक्रमैः
आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः
तेषां वीर्यगुणोत्साहैर् न समो राघवो रणे
प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः
राजन् नापद् अयुक्तेयम् आगता प्राकृताज् जनात्
हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0