रामायण · अध्याय 6.006
लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम्
राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना
अब्रवीद् राक्षसान् सर्वान् ह्रिया किं चिद् अवाङ्मुखः
धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी
तेन वानरमात्रेण दृष्टा सीता च जानकी
प्रसादो धर्षितश् चैत्यः प्रवरा राक्षसा हताः
आविला च पुरी लङ्का सर्वा हनुमता कृता
किं करिष्यामि भद्रं वः किं वा युक्तम् अनन्तरम्
उच्यतां नः समर्थं यत् कृतं च सुकृतं भवेत्
मन्त्रमूलं हि विजयं प्राहुर् आर्या मनस्विनः
तस्माद् वै रोचये मन्त्रं रामं प्रति महाबलाः
त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः
तेषां तु समवेतानां गुणदोषं वदाम्य् अहम्
मन्त्रिभिर् हितसंयुक्तैः समर्थैर् मन्त्रनिर्णये
मित्रैर् वापि समानार्थैर् बान्धवैर् अपि वा हितैः
सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत्
दैवे च कुरुते यत्नं तम् आहुः पुरुषोत्तमम्
एको ऽर्थं विमृशेद् एको धर्मे प्रकुरुते मनः
एकः कार्याणि कुरुते तम् आहुर् मध्यमं नरम्
गुणदोषाव् अनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम्
करिष्यामीति यः कार्यम् उपेक्षेत् स नराधमः
यथेमे पुरुषा नित्यम् उत्तमाधममध्यमाः
एवं मन्त्रो ऽपि विज्ञेय उत्तमाधममध्यमः
ऐकमत्यम् उपागम्य शास्त्रदृष्टेन चक्षुषा
मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम्
बह्व्यो ऽपि मतयो गत्वा मन्त्रिणो ह्य् अर्थनिर्णये
पुनर् यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः
अन्योन्यमतिम् आस्थाय यत्र संप्रतिभाष्यते
न चैकमत्ये श्रेयो ऽस्ति मन्त्रः सो ऽधम उच्यते
तस्मात् सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः
कार्यं संप्रतिपद्यन्ताम् एतत् कृत्यतमं मम
वानराणां हि वीराणां सहस्रैः परिवारितः
रामो ऽभ्येति पुरीं लङ्काम् अस्माकम् उपरोधकः
तरिष्यति च सुव्यक्तं राघवः सागरं सुखम्
तरसा युक्तरूपेण सानुजः सबलानुगः
अस्मिन्न् एवंगते कार्ये विरुद्धे वानरैः सह
हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0