रामायण · अध्याय 6.008
ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः
अब्रवीत् प्राञ्जलिर् वाक्यं शूरः सेनापतिस् तदा
देवदानवगन्धर्वाः पिशाचपतगोरगाः
न त्वां धर्षयितुं शक्ताः किं पुनर् वानरा रणे
सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता
न हि मे जीवतो गच्छेज् जीवन् स वनगोचरः
सर्वां सागरपर्यन्तां सशैलवनकाननाम्
करोम्य् अवानरां भूमिम् आज्ञापयतु मां भवान्
रक्षां चैव विधास्यामि वानराद् रजनीचर
नागमिष्यति ते दुःखं किं चिद् आत्मापराधजम्
अब्रवीच् च सुसंक्रुद्धो दुर्मुखो नाम राक्षसः
इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम्
अयं परिभवो भूयः पुरस्यान्तःपुरस्य च
श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम्
अस्मिन् मुहूर्ते हत्वैको निवर्तिष्यामि वानरान्
प्रविष्टान् सागरं भीमम् अम्बरं वा रसातलम्
ततो ऽब्रवीत् सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः
प्रगृह्य परिघं घोरं मांसशोणितरूपितम्
किं वो हनुमता कार्यं कृपणेन तपस्विना
रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे
अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्
आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम्
कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान्
अब्रवीत् परमकुर्द्धो रावणं लोकरावणम्
सर्वे भवन्तस् तिष्ठन्तु महाराजेन संगताः
अहम् एको हनिष्यामि राघवं सहलक्ष्मणम्
ततो वज्रहनुर् नाम राक्षसः पर्वतोपमः
क्रुद्धः परिलिहन् वक्त्रं जिह्वया वाक्यम् अब्रवीत्
स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः
एको ऽहं भक्षयिष्यामि तान् सर्वान् हरियूथपान्
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम्
अहम् एको हनिष्यामि सुग्रीवं सहलक्ष्मणम्
साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0