रामायण · अध्याय 5.046
ततस् तु रक्षोऽधिपतिर् महात्मा हनूमताक्षे निहते कुमारे
मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं स रोषात्
त्वम् अस्त्रविच् छस्त्रभृतां वरिष्ठः सुरासुराणाम् अपि शोकदाता
सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः
तवास्त्रबलम् आसाद्य नासुरा न मरुद्गणाः
न कश् चित् त्रिषु लोकेषु संयुगे न गतश्रमः
भुजवीर्याभिगुप्तश् च तपसा चाभिरक्षितः
देशकालविभागज्ञस् त्वम् एव मतिसत्तमः
न ते ऽस्त्य् अशक्यं समरेषु कर्मणा न ते ऽस्त्य् अकार्यं मतिपूर्वमन्त्रणे
न सो ऽस्ति कश् चित् त्रिषु संग्रहेषु वै न वेद यस् ते ऽस्त्रबलं बलं च ते
ममानुरूपं तपसो बलं च ते पराक्रमश् चास्त्रबलं च संयुगे
न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम्
निहता इंकराः सर्वे जम्बुमाली च राक्षसः
अमात्यपुत्रा वीराश् च पञ्च सेनाग्रयायिनः
सहोदरस् ते दयितः कुमारो ऽक्षश् च सूदितः
न तु तेष्व् एव मे सारो यस् त्वय्य् अरिनिषूदन
इदं हि दृष्ट्वा मतिमन् महद् बलं कपेः प्रभावं च पराक्रमं च
त्वम् आत्मनश् चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम्
बलावमर्दस् त्वयि संनिकृष्टे यथा गते शाम्यति शान्तशत्रौ
तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ
न खल्व् इयं मतिः श्रेष्ठा यत् त्वां संप्रेषयाम्य् अहम्
इयं च राजधर्माणां क्षत्रस्य च मतिर् मता
नानाशस्त्रैश् च संग्रामे वैशारद्यम् अरिंदम
अवश्यम् एव बोद्धव्यं काम्यश् च विजयो रणे
ततः पितुस् तद् वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः
चकार भर्तारम् अदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः
ततस् तैः स्वगणैर् इष्टैर् इन्द्रजित् प्रतिपूजितः
युद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत
श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः
निर्जगाम महातेजाः समुद्र इव पर्वसु
स पक्षि राजोपमतुल्यवेगैर् व्यालैश् चतुर्भिः सिततीक्ष्णदंष्ट्रैः
रथं समायुक्तम् असंगवेगं समारुरोहेन्द्रजिद् इन्द्रकल्पः
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञो ऽस्त्रविदां वरः
रथेनाभिययौ क्षिप्रं हनूमान् यत्र सो ऽभवत्
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च
निशम्य हरिवीरो ऽसौ संप्रहृष्टतरो ऽभवत्
सुमहच् चापम् आदाय शितशल्यांश् च सायकान्
हनूमन्तम् अभिप्रेत्य जगाम रणपण्डितः
तस्मिंस् ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ
दिशश् च सर्वाः कलुषा बभूवुर् मृगाश् च रौद्रा बहुधा विनेदुः
समागतास् तत्र तु नागयक्षा महर्षयश् चक्रचराश् च सिद्धाः
नभः समावृत्य च पक्षिसंघा विनेदुर् उच्चैः परमप्रहृष्टाः
आयन्तं सरथं दृष्ट्वा तूर्णम् इन्द्रजितं कपिः
विननाद महानादं व्यवर्धत च वेगवान्
इन्द्रजित् तु रथं दिव्यम् आस्थितश् चित्रकार्मुकः
धनुर् विस्फारयाम् आस तडिदूर्जितनिःस्वनम्
ततः समेताव् अतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ
कपिश् च रक्षोऽधिपतेश् च पुत्रः सुरासुरेन्द्राव् इव बद्धवैरौ
स तस्य वीरस्य महारथस्या धनुष्मतः संयति संमतस्य
शरप्रवेगं व्यहनत् प्रवृद्धश् चचार मार्गे पितुर् अप्रमेयः
ततः शरान् आयततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान्
मुमोच वीरः परवीरहन्ता सुसंततान् वज्रनिपातवेगान्
स तस्य तत् स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च
विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनर् उत्पपात
शराणाम् अन्तरेष्व् आशु व्यवर्तत महाकपिः
हरिस् तस्याभिलक्षस्य मोक्षयंल् लक्ष्यसंग्रहम्
शराणाम् अग्रतस् तस्य पुनः समभिवर्तत
प्रसार्य हस्तौ हनुमान् उत्पपातानिलात्मजः
ताव् उभौ वेगसंपन्नौ रणकर्मविशारदौ
सर्वभूतमनोग्राहि चक्रतुर् युद्धम् उत्तमम्
हनूमतो वेद न राक्षसो ऽन्तरं न मारुतिस् तस्य महात्मनो ऽन्तरम्
परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ
ततस् तु लक्ष्ये स विहन्यमाने शरेषु मोघेषु च संपतत्सु
जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा
ततो मतिं राक्षसराजसूनुश् चकार तस्मिन् हरिवीरमुख्ये
अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेद् इति निग्रहार्थम्
ततः पैतामहां वीरः सो ऽस्त्रम् अस्त्रविदां वरः
संदधे सुमहातेजास् तं हरिप्रवरं प्रति
अवध्यो ऽयम् इति ज्ञात्वा तम् अस्त्रेणास्त्रतत्त्ववित्
निजग्राह महाबाहुर् मारुतात्मजम् इन्द्रजित्
तेन बद्धस् ततो ऽस्त्रेण राक्षसेन स वानरः
अभवन् निर्विचेष्टश् च पपात च महीतले
ततो ऽथ बुद्ध्वा स तदास्त्रबन्धं प्रभोः प्रभावाद् विगताल्पवेगः
पितामहानुग्रहम् आत्मनश् च विचिन्तयाम् आस हरिप्रवीरः
ततः स्वायम्भुवैर् मन्त्रैर् ब्रह्मास्त्रम् अभिमन्त्रितम्
हनूमांश् चिन्तयाम् आस वरदानं पितामहात्
न मे ऽस्त्रबन्धस्य च शक्तिर् अस्ति विमोक्षणे लोकगुरोः प्रभावात्
इत्य् एवम् एवंविहितो ऽस्त्रबन्धो मयात्मयोनेर् अनुवर्तितव्यः
स वीर्यम् अस्त्रस्य कपिर् विचार्य पितामहानुग्रहम् आत्मनश् च
विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञाम् अनुवर्तते स्म
अस्त्रेणापि हि बद्धस्य भयं मम न जायते
पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च
ग्रहणे चापि रक्षोभिर् महन् मे गुणदर्शनम्
राक्षसेन्द्रेण संवादस् तस्माद् गृह्णन्तु मां परे
स निश्चितार्थः परवीरहन्ता समीक्ष्य करी विनिवृत्तचेष्टः
परैः प्रसह्याभिगतैर् निगृह्य ननाद तैस् तैः परिभर्त्स्यमानः
ततस् तं राक्षसा दृष्ट्वा निर्विचेष्टम् अरिंदमम्
बबन्धुः शणवल्कैश् च द्रुमचीरैश् च संहतैः
स रोचयाम् आस परैश् च बन्धनं प्रसह्य वीरैर् अभिनिग्रहं च
कौतूहलान् मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येद् इति निश्चितार्थः
स बद्धस् तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान्
अस्त्रबन्धः स चान्यं हि न बन्धम् अनुवर्तते
अथेन्द्रजित् तं द्रुमचीरबन्धं विचार्य वीरः कपिसत्तमं तम्
विमुक्तम् अस्त्रेण जगाम चिन्ताम् अन्येन बद्धो ह्य् अनुवर्तते ऽस्त्रम्
अहो महत् कर्म कृतं निरर्थकं न राक्षसैर् मन्त्रगतिर् विमृष्टा
पुनश् च नास्त्रे विहते ऽस्त्रम् अन्यत् प्रवर्तते संशयिताः स्म सर्वे
अस्त्रेण हनुमान् मुक्तो नात्मानम् अवबुध्यते
कृष्यमाणस् तु रक्षोभिस् तैश् च बन्धैर् निपीडितः
हन्यमानस् ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः
समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः
अथेन्द्रजित् तं प्रसमीक्ष्य मुक्तम् अस्त्रेण बद्धं द्रुमचीरसूत्रैः
व्यदर्शयत् तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे
तं मत्तम् इव मातङ्गं बद्धं कपिवरोत्तमम्
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्
को ऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः
इति राक्षसवीराणां तत्र संजज्ञिरे कथाः
हन्यतां दह्यतां वापि भक्ष्यताम् इति चापरे
राक्षसास् तत्र संक्रुद्धाः परस्परम् अथाब्रुवन्
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले
ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च
स ददर्श महातेजा रावणः कपिसत्तमम्
रक्षोभिर् विकृताकारैः कृष्यमाणम् इतस् ततः
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः
तेजोबलसमायुक्तं तपन्तम् इव भास्करम्
स रोषसंवर्तितताम्रदृष्टिर् दशाननस् तं कपिम् अन्ववेक्ष्य
अथोपविष्टान् कुलशीलवृद्धान् समादिशत् तं प्रति मन्त्रमुख्यान्
यथाक्रमं तैः स कपिश् च पृष्टः कार्यार्थम् अर्थस्य च मूलम् आदौ
निवेदयाम् आस हरीश्वरस्य दूतः सकाशाद् अहम् आगतो ऽस्मि
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0