भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 5.045

5.045.001

सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान्
समीक्ष्य राजा समरोद्धतोन्मुखं कुमारम् अक्षं प्रसमैक्षताक्षतम्

5.045.002

स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः
समुत्पपाताथ सदस्य् उदीरितो द्विजातिमुख्यैर् हविषेव पावकः

5.045.003

ततो महद् बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम्
रथां समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैरृतर्षभः

5.045.004

ततस् तपःसंग्रहसंचयार्जितं प्रतप्तजाम्बूनदजालशोभितम्
पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्

5.045.005

सुरासुराधृष्यम् असंगचारिणं रविप्रभं व्योमचरं समाहितम्
सतूणम् अष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम्

5.045.006

विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्वसा
दिवाकराभं रथम् आस्थितस् ततः स निर्जगामामरतुल्यविक्रमः

5.045.007

स पूरयन् खं च महीं च साचलां तुरंगमतङ्गमहारथस्वनैः
बलैः समेतैः स हि तोरणस्थितं समर्थम् आसीनम् उपागमत् कपिम्

5.045.008

स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निम् इव प्रजाक्षये
अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा

5.045.009

स तस्य वेगं च कपेर् महात्मनः पराक्रमं चारिषु पार्थिवात्मजः
विचारयन् खं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते

5.045.010

स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरः स्थितः संयति दुर्निवारणम्
समाहितात्मा हनुमन्तम् आहवे प्रचोदयाम् आस शरैस् त्रिभिः शितैः

5.045.011

ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर् जितम्
अवैक्षताक्षः समुदीर्णमानसः सबाणपाणिः प्रगृहीतकार्मुकः

5.045.012

स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशु पराक्रमः कपिम्
तयोर् बभूवाप्रतिमः समागमः सुरासुराणाम् अपि संभ्रमप्रदः

5.045.013

ररास भूमिर् न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः
कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौर् उदधिश् च चुक्षुभे

5.045.014

ततः स वीरः सुमुखान् पतत्रिणः सुवर्णपुङ्खान् सविषान् इवोरगान्
समाधिसंयोगविमोक्षतत्त्वविच् छरान् अथ त्रीन् कपिमूर्ध्न्य् अपातयत्

5.045.015

स तैः शरैर् मूर्ध्नि समं निपातितैः क्षरन्न् असृग्दिग्धविवृत्तलोचनः
नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः

5.045.016

ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे
उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः

5.045.017

स मन्दराग्रस्थ इवांशुमाली विवृद्धकोपो बलवीर्यसंयुतः
कुमारम् अक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस् तदा

5.045.018

ततः स बाणासनशक्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः
शरान् मुमोचाशु हरीश्वराचले बलाहको वृष्टिम् इवाचलोत्तमे

5.045.019

ततः कपिस् तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसायकम्
कुमारम् अक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद् घनतुल्यविक्रमः

5.045.020

स बालभावाद् युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः
समाससादाप्रतिमं रणे कपिं गजो महाकूपम् इवावृतं तृणैः

5.045.021

स तेन बाणैः प्रसभं निपातितैश् चकार नादं घननादनिःस्वनः
समुत्पपाताशु नभः स मारुतिर् भुजोरुविक्षेपण घोरदर्शनः

5.045.022

समुत्पतन्तं समभिद्रवद् बली स राक्षसानां प्रवरः प्रतापवान्
रथी रथश्रेष्ठतमः किरञ् शरैः पयोधरः शैलम् इवाश्मवृष्टिभिः

5.045.023

स ताञ् शरांस् तस्य विमोक्षयन् कपिश् चचार वीरः पथि वायुसेविते
शरान्तरे मारुतवद् विनिष्पतन् मनोजवः संयति चण्डविक्रमः

5.045.024

तम् आत्तबाणासनम् आहवोन्मुखं खम् आस्तृणन्तं विविधैः शरोत्तमैः
अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः

5.045.025

ततः शरैर् भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन्
महाभुजः कर्मविशेषतत्त्वविद् विचिन्तयाम् आस रणे पराक्रमम्

5.045.026

अबालवद् बालदिवाकरप्रभः करोत्य् अयं कर्म महन् महाबलः
न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिर् अत्र जायते

5.045.027

अयं महात्मा च महांश् च वीर्यतः समाहितश् चातिसहश् च संयुगे
असंशयं कर्मगुणोदयाद् अयं सनागयक्षैर् मुनिभिश् च पूजितः

5.045.028

पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः
पराक्रमो ह्य् अस्य मनांसि कम्पयेत् सुरासुराणाम् अपि शीघ्रकारिणः

5.045.029

न खल्व् अयं नाभिभवेद् उपेक्षितः पराक्रमो ह्य् अस्य रणे विवर्धते
प्रमापणं त्व् एव ममास्य रोचते न वर्धमानो ऽग्निर् उपेक्षितुं क्षमः

5.045.030

इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान्
चकार वेगं तु महाबलस् तदा मतिं च चक्रे ऽस्य वधे महाकपिः

5.045.031

स तस्य तान् अष्टहयान् महाजवान् समाहितान् भारसहान् विवर्तने
जघान वीरः पथि वायुसेविते तलप्रहालैः पवनात्मजः कपिः

5.045.032

ततस् तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः
स भग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिर् अम्बरात्

5.045.033

स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खम् उत्पतत्
तपोऽभियोगाद् ऋषिर् उग्रवीर्यवान् विहाय देहं मरुताम् इवालयम्

5.045.034

ततः कपिस् तं विचरन्तम् अम्बरे पतत्रिराजानिलसिद्धसेविते
समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर् दृढम्

5.045.035

स तं समाविध्य सहस्रशः कपिर् महोरगं गृह्य इवाण्डजेश्वरः
मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः

5.045.036

स भग्नबाहूरुकटीशिरो धरः क्षरन्न् असृन् निर्मथितास्थिलोचनः
स भिन्नसंधिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः

5.045.037

महाकपिर् भूमितले निपीड्य तं चकार रक्षोऽधिपतेर् महद् भयम्

5.045.038

महर्षिभिश् चक्रचरैर् महाव्रतैः समेत्य भूतैश् च सयक्षपन्नगैः
सुरैश् च सेन्द्रैर् भृशजातविस्मयैर् हते कुमारे स कपिर् निरीक्षितः

5.045.039

निहत्य तं वज्रसुतोपमप्रभं कुमारम् अक्षं क्षतजोपमेक्षणम्
तद् एव वीरो ऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc