रामायण · अध्याय 5.027
तथागतां तां व्यथिताम् अनिन्दितां व्यपेतहर्षां परिदीनमानसाम्
शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टम् इवोपजीविनः
तस्याः शुभं वामम् अरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम्
प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्मम् इवाभिताम्रम्
भुजश् च चार्वञ्चितपीनवृत्तः परार्ध्य कालागुरुचन्दनार्हः
अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु
गजेन्द्रहस्तप्रतिमश् च पीनस् तयोर् द्वयोः संहतयोः सुजातः
प्रस्पन्दमानः पुनर् ऊरुर् अस्या रामं पुरस्तात् स्थितम् आचचक्षे
शुभं पुनर् हेमसमानवर्णम् ईषद्रजोध्वस्तम् इवामलाक्ष्याः
वासः स्थितायाः शिखराग्रदन्त्याः किं चित् परिस्रंसत चारुगात्र्याः
एतैर् निमित्तैर् अपरैश् च सुभ्रूः संबोधिता प्राग् अपि साधुसिद्धैः
वातातपक्लान्तम् इव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष
तस्याः पुनर् बिम्बफलोपमौष्ठं स्वक्षिभ्रुकेशान्तम् अरालपक्ष्म
वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर् मुखाच् चन्द्र इव प्रमुक्तः
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविबुद्धसत्त्वा
अशोभतार्या वदनेन शुक्ले शीतान्शुना रात्रिर् इवोदितेन
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0