भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 5.026

5.026.001

सा राक्षसेन्द्रस्य वचो निशम्य तद् रावणस्याप्रियम् अप्रियार्ता
सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या

5.026.002

सा राक्षसी मध्यगता च भीरुर् वाग्भिर् भृशं रावणतर्जिता च
कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता

5.026.003

सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर् भवतीति सन्तः
यत्राहम् एवं परिभर्त्स्यमाना जीवामि किं चित् क्षणम् अप्य् अपुण्या

5.026.004

सुखाद् विहीनं बहुदुःखपूर्णम् इदं तु नूनं हृदयं स्थिरं मे
विदीर्यते यन् न सहस्रधाद्य वज्राहतं शृङ्गम् इवाचलस्य

5.026.005

नैवास्ति नूनं मम दोषम् अत्र वध्याहम् अस्याप्रियदर्शनस्य
भावं न चास्याहम् अनुप्रदातुम् अलं द्विजो मन्त्रम् इवाद्विजाय

5.026.006

नूनं ममाङ्गान्य् अचिराद् अनार्यः शस्त्रैः शितैश् छेत्स्यति राक्षसेन्द्रः
तस्मिन्न् अनागच्छति लोकनाथे गर्भस्थजन्तोर् इव शल्यकृन्तः

5.026.007

दुःखं बतेदं मम दुःखिताया मासौ चिरायाभिगमिष्यतो द्वौ
बद्धस्य वध्यस्य यथा निशान्ते राजापराधाद् इव तस्करस्य

5.026.008

हा राम हा लक्ष्मण हा सुमित्रे हा राम मातः सह मे जनन्या
एषा विपद्याम्य् अहम् अल्पभाग्या महार्णवे नौर् इव मूढ वाता

5.026.009

तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ
नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाव् इव वैद्युतेन

5.026.010

नूनं स कालो मृगरूपधारी माम् अल्पभाग्यां लुलुभे तदानीम्
यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वकं च

5.026.011

हा राम सत्यव्रत दीर्घवाहो हा पूर्णचन्द्रप्रतिमानवक्त्र
हा जीवलोकस्य हितः प्रियश् च वध्यां न मां वेत्सि हि राक्षसानाम्

5.026.012

अनन्यदेवत्वम् इयं क्षमा च भूमौ च शय्या नियमश् च धर्मे
पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्व् इव मानुषाणाम्

5.026.013

मोघो हि धर्मश् चरितो ममायं तथैकपत्नीत्वम् इदं निरर्थम्
या त्वां न पश्यामि कृशा विवर्णा हीना त्वया संगमने निराशा

5.026.014

पितुर् निर्देशं नियमेन कृत्वा वनान् निवृत्तश् चरितव्रतश् च
स्त्रीभिस् तु मन्ये विपुलेक्षणाभिः संरंस्यसे वीतभयः कृतार्थः

5.026.015

अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा
मोघं चरित्वाथ तपोव्रतं च त्यक्ष्यामि धिग् जीवितम् अल्पभाग्या

5.026.016

सा जीवितं क्षिप्रम् अहं त्यजेयं विषेण शस्त्रेण शितेन वापि
विषस्य दाता न तु मे ऽस्ति कश् चिच् छस्त्रस्य वा वेश्मनि राक्षसस्य

5.026.017

शोकाभितप्ता बहुधा विचिन्त्य सीताथ वेण्युद्ग्रथनं गृहीत्वा
उद्बध्य वेण्युद्ग्रथनेन शीघ्रम् अहं गमिष्यामि यमस्य मूलम्

5.026.018

इतीव सीता बहुधा विलप्य सर्वात्मना रामम् अनुस्मरन्ती
प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितम् आससाद

5.026.019

उपस्थिता सा मृदुर् सर्वगात्री शाखां गृहीत्वाथ नगस्य तस्य
तस्यास् तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्याः

5.026.020

शोकानिमित्तानि तदा बहूनि धैर्यार्जितानि प्रवराणि लोके
प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्य् उपलक्षितानि

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc