रामायण · अध्याय 5.028
हनुमान् अपि विक्रान्तः सर्वं शुश्राव तत्त्वतः
सीतायास् त्रिजटायाश् च राक्षसीनां च तर्जनम्
अवेक्षमाणस् तां देवीं देवताम् इव नन्दने
ततो बहुविधां चिन्तां चिन्तयाम् आस वानरः
यां कपीनां सहस्राणि सुबहून्य् अयुतानि च
दिक्षु सर्वासु मार्गन्ते सेयम् आसादिता मया
चारेण तु सुयुक्तेन शत्रोः शक्तिम् अवेक्षिता
गूढेन चरता तावद् अवेक्षितम् इदं मया
राक्षसानां विशेषश् च पुरी चेयम् अवेक्षिता
राक्षसाधिपतेर् अस्य प्रभावो रावणस्य च
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः
समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम्
अहम् आश्वासयाम्य् एनां पूर्णचन्द्रनिभाननाम्
अदृष्टदुःखां दुःखस्य न ह्य् अन्तम् अधिगच्छतीम्
यदि ह्य् अहम् इमां देवीं शोकोपहतचेतनाम्
अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत्
गते हि मयि तत्रेयं राजपुत्री यशस्विनी
परित्राणम् अविन्दन्ती जानकी जीवितं त्यजेत्
मया च स महाबाहुः पूर्णचन्द्रनिभाननः
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः
निशाचरीणां प्रत्यक्षम् अक्षमं चाभिभाषणम्
कथं नु खलु कर्तव्यम् इदं कृच्छ्र गतो ह्य् अहम्
अनेन रात्रिशेषेण यदि नाश्वास्यते मया
सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम्
रामश् च यदि पृच्छेन् मां किं मां सीताब्रवीद् वचः
किम् अहं तं प्रतिब्रूयाम् असंभाष्य सुमध्यमाम्
सीतासंदेशरहितं माम् इतस् त्वरया गतम्
निर्दहेद् अपि काकुत्स्थः क्रुद्धस् तीव्रेण चक्षुषा
यदि चेद् योजयिष्यामि भर्तारं रामकारणात्
व्यर्थम् आगमनं तस्य ससैन्यस्य भविष्यति
अन्तरं त्व् अहम् आसाद्य राक्षसीनाम् इह स्थितः
शनैर् आश्वासयिष्यामि संतापबहुलाम् इमाम्
अहं ह्य् अतितनुश् चैव वनरश् च विशेषतः
वाचं चोदाहरिष्यामि मानुषीम् इह संस्कृताम्
यदि वाचं प्रदास्यामि द्विजातिर् इव संस्कृताम्
रावणं मन्यमाना मां सीता भीता भविष्यति
अवश्यम् एव वक्तव्यं मानुषं वाक्यम् अर्थवत्
मया सान्त्वयितुं शक्या नान्यथेयम् अनिन्दिता
सेयम् आलोक्य मे रूपं जानकी भाषितं तथा
रक्षोभिस् त्रासिता पूर्वं भूयस् त्रासं गमिष्यति
ततो जातपरित्रासा शब्दं कुर्यान् मनस्विनी
जानमाना विशालाक्षी रावणं कामरूपिणम्
सीतया च कृते शब्दे सहसा राक्षसीगणः
नानाप्रहरणो घोरः समेयाद् अन्तकोपमः
ततो मां संपरिक्षिप्य सर्वतो विकृताननाः
वधे च ग्रहणे चैव कुर्युर् यत्नं यथाबलम्
तं मां शाखाः प्रशाखाश् च स्कन्धांश् चोत्तमशाखिनाम्
दृष्ट्वा विपरिधावन्तं भवेयुर् भयशङ्किताः
मम रूपं च संप्रेक्ष्य वनं विचरतो महत्
राक्षस्यो भयवित्रस्ता भवेयुर् विकृताननाः
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसाम् अपि
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने
ते शूलशरनिस्त्रिंश विविधायुधपाणयः
आपतेयुर् विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः
संक्रुद्धस् तैस् तु परितो विधमन् रक्षसां बलम्
शक्नुयं न तु संप्राप्तुं परं पारं महोदधेः
मां वा गृह्णीयुर् आप्लुत्य बहवः शीघ्रकारिणः
स्याद् इयं चागृहीतार्था मम च ग्रहणं भवेत्
हिंसाभिरुचयो हिंस्युर् इमां वा जनकात्मजाम्
विपन्नं स्यात् ततः कार्यं रामसुग्रीवयोर् इदम्
उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते
सागरेण परिक्षिप्ते गुप्ते वसति जानकी
विशस्ते वा गृहीते वा रक्षोभिर् मयि संयुगे
नान्यं पश्यामि रामस्य सहायं कार्यसाधने
विमृशंश् च न पश्यामि यो हते मयि वानरः
शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्
कामं हन्तुं समर्थो ऽस्मि सहस्राण्य् अपि रक्षसाम्
न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः
असत्यानि च युद्धानि संशयो मे न रोचते
कश् च निःसंशयं कार्यं कुर्यात् प्राज्ञः ससंशयम्
एष दोषो महान् हि स्यान् मम सीताभिभाषणे
प्राणत्यागश् च वैदेह्या भवेद् अनभिभाषणे
भूताश् चार्था विनश्यन्ति देशकालविरोधिताः
विक्लवं दूतम् आसाद्य तमः सूर्योदये यथा
अर्थानर्थान्तरे बुद्धिर् निश्चितापि न शोभते
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत्
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्
कथं नु खलु वाक्यं मे शृणुयान् नोद्विजेत च
इति संचिन्त्य हनुमांश् चकार मतिमान् मतिम्
रामम् अक्लिष्टकर्माणं स्वबन्धुम् अनुकीर्तयन्
नैनाम् उद्वेजयिष्यामि तद् बन्धुगतमानसाम्
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः
शुभानि धर्मयुक्तानि वचनानि समर्पयन्
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्
श्रद्धास्यति यथा हीयं तथा सर्वं समादधे
इति स बहुविधं महानुभावो जगतिपतेः प्रमदाम् अवेक्षमाणः
मधुरम् अवितथं जगाद वाक्यं द्रुमविटपान्तरम् आस्थितो हनूमान्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0