रामायण · अध्याय 5.010
स तस्य मध्ये भवनस्य वानरो लतागृहांश् चित्रगृहान् निशागृहान्
जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम्
स चिन्तयाम् आस ततो महाकपिः प्रियाम् अपश्यन् रघुनन्दनस्य ताम्
ध्रुवं नु सीता म्रियते यथा न मे विचिन्वतो दर्शनम् एति मैथिली
सा राक्षसानां प्रवरेण बाला स्वशीलसंरक्षण तत् परा सती
अनेन नूनं प्रतिदुष्टकर्मणा हता भवेद् आर्यपथे परे स्थिता
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः
समीक्ष्य सा राक्षसराजयोषितो भयाद् विनष्टा जनकेश्वरात्मजा
सीताम् अदृष्ट्वा ह्य् अनवाप्य पौरुषं विहृत्य कालं सह वानरैश् चिरम्
न मे ऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश् च वानरः
दृष्टम् अन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः
न सीता दृश्यते साध्वी वृथा जातो मम श्रमः
किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः
गत्वा तत्र त्वया वीर किं कृतं तद् वदस्व नः
अदृष्ट्वा किं प्रवक्ष्यामि ताम् अहं जनकात्मजाम्
ध्रुवं प्रायम् उपेष्यन्ति कालस्य व्यतिवर्तने
किं वा वक्ष्यति वृद्धश् च जाम्बवान् अङ्गदश् च सः
गतं पारं समुद्रस्य वानराश् च समागताः
अनिर्वेदः श्रियो मूलम् अनिर्वेदः परं सुखम्
भूयस् तावद् विचेष्यामि न यत्र विचयः कृतः
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः
करोति सफलं जन्तोः कर्म यच् च करोति सः
तस्माद् अनिर्वेद कृतं यत्नं चेष्टे ऽहम् उत्तमम्
अदृष्टांश् च विचेष्यामि देशान् रावणपालितान्
आपानशालाविचितास् तथा पुष्पगृहाणि च
चित्रशालाश् च विचिता भूयः क्रीडागृहाणि च
निष्कुटान्तररथ्याश् च विमानानि च सर्वशः
इति संचिन्त्य भूयो ऽपि विचेतुम् उपचक्रमे
भूमीगृहांश् चैत्यगृहान् गृहातिगृहकान् अपि
उत्पतन् निपतंश् चापि तिष्ठन् गच्छन् पुनः क्व चित्
अपावृण्वंश् च द्वाराणि कपाटान्य् अवघट्टयन्
प्रविशन् निष्पतंश् चापि प्रपतन्न् उत्पतन्न् अपि
सर्वम् अप्य् अवकाशं स विचचार महाकपिः
चतुरङ्गुलमात्रो ऽपि नावकाशः स विद्यते
रावणान्तःपुरे तस्मिन् यं कपिर् न जगाम सः
प्राकरान्तररथ्याश् च वेदिकश् चैत्यसंश्रयाः
श्वभ्राश् च पुष्करिण्यश् च सर्वं तेनावलोकितम्
राक्षस्यो विविधाकारा विरूपा विकृतास् तथा
दृष्टा हनूमता तत्र न तु सा जनकात्मजा
रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः
दृटा हनूमता तत्र न तु राघवनन्दिनी
नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः
दृष्टा हनूमता तत्र न तु सीता सुमध्यमा
प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद् धृताः
दृष्टा हनूमता तत्र न सा जनकनन्दिनी
सो ऽपश्यंस् तां महाबाहुः पश्यंश् चान्या वरस्त्रियः
विषसाद महाबाहुर् हनूमान् मारुतात्मजः
उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च
व्यर्थं वीक्ष्यानिलसुतश् चिन्तां पुनर् उपागमत्
अवतीर्य विमानाच् च हनूमान् मारुतात्मजः
चिन्ताम् उपजगामाथ शोकोपहतचेतनः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0