रामायण · अध्याय 5.001
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः
इयेष पदम् अन्वेष्टुं चारणाचरिते पथि
अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः
धीरः सलिलकल्पेषु विचचार यथासुखम्
द्विजान् वित्रासयन् धीमान् उरसा पादपान् हरन्
मृगांश् च सुबहून् निघ्नन् प्रवृद्ध इव केसरी
नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः
स्वभावविहितैश् चित्रैर् धातुभिः समलंकृतम्
कामरूपिभिर् आविष्टम् अभीक्ष्णं सपरिच्छदैः
यक्षकिंनरगन्धर्वैर् देवकल्पैश् च पन्नगैः
स तस्य गिरिवर्यस्य तले नागवरायुते
तिष्ठन् कपिवरस् तत्र ह्रदे नाग इवाबभौ
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे
भूतेभ्यश् चाञ्जलिं कृत्वा चकार गमने मतिम्
अञ्जलिं प्राङ्मुखः कुर्वन् पवनायात्मयोनये
ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्
प्लवंगप्रवरैर् दृष्टः प्लवने कृतनिश्चयः
ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु
निष्प्रमाण शरीरः संल् लिलङ्घयिषुर् अर्णवम्
बाहुभ्यां पीडयाम् आस चरणाभ्यां च पर्वतम्
स चचालाचलाश् चारु मुहूर्तं कपिपीडितः
तरूणां पुष्पिताग्राणां सर्वं पुष्पम् अशातयत्
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना
सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः
सलिलं संप्रसुस्राव मदं मत्त इव द्विपः
पीड्यमानस् तु बलिना महेन्द्रस् तेन पर्वतः
रीतिर् निर्वर्तयाम् आस काञ्चनाञ्जनराजतीः
मुमोच च शिलाः शैलो विशालाः समनःशिलाः
गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः
गुहाविष्टानि भूतानि विनेदुर् विकृतैः स्वरैः
स महासत्त्वसंनादः शैलपीडानिमित्तजः
पृथिवीं पूरयाम् आस दिशश् चोपवनानि च
शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः
वमन्तः पावकं घोरं ददंशुर् दशनैः शिलाः
तास् तदा सविषैर् दष्टाः कुपितैस् तैर् महाशिलाः
जज्वलुः पावकोद्दीप्ता विभिदुश् च सहस्रधा
यानि चौषधजालानि तस्मिञ् जातानि पर्वते
विषघ्नान्य् अपि नागानां न शेकुः शमितुं विषम्
भिद्यते ऽयं गिरिर् भूतैर् इति मत्वा तपस्विनः
त्रस्ता विद्याधरास् तस्माद् उत्पेतुः स्त्रीगणैः सह
पानभूमिगतं हित्वा हैमम् आसनभाजनम्
पात्राणि च महार्हाणि करकांश् च हिरण्मयान्
लेह्यान् उच्चावचान् भक्ष्यान् मांसानि विविधानि च
आर्षभाणि च चर्माणि खड्गांश् च कनकत्सरून्
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः
रक्ताक्षाः पुष्कराक्षाश् च गगनं प्रतिपेदिरे
हारनूपुरकेयूर पारिहार्य धराः स्त्रियः
विस्मिताः सस्मितास् तस्थुर् आकाशे रमणैः सह
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः
सहितास् तस्थुर् आकाशे वीक्षां चक्रुश् च पर्वतम्
शुश्रुवुश् च तदा शब्दम् ऋषीणां भावितात्मनाम्
चारणानां च सिद्धानां स्थितानां विमले ऽम्बरे
एष पर्वतसंकाशो हनूमान् मारुतात्मजः
तितीर्षति महावेगं समुद्रं मकरालयम्
रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम्
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुम् इच्छति
दुधुवे च स रोमाणि चकम्पे चाचलोपमः
ननाद च महानादं सुमहान् इव तोयदः
आनुपूर्व्याच् च वृत्तं च लाङ्गूलं रोमभिश् चितम्
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्
तस्य लाङ्गूलम् आविद्धम् अतिवेगस्य पृष्ठतः
ददृशे गरुडेनेव ह्रियमाणो महोरगः
बाहू संस्तम्भयाम् आस महापरिघसंनिभौ
ससाद च कपिः कट्यां चरणौ संचुकोप च
संहृत्य च भुजौ श्रीमांस् तथैव च शिरोधराम्
तेजः सत्त्वं तथा वीर्यम् आविवेश स वीर्यवान्
मार्गम् आलोकयन् दूराद् ऊर्ध्वप्रणिहितेक्षणः
रुरोध हृदये प्राणान् आकाशम् अवलोकयन्
पद्भ्यां दृढम् अवस्थानं कृत्वा स कपिकुञ्जरः
निकुञ्च्य कर्णौ हनुमान् उत्पतिष्यन् महाबलः
वानरान् वानरश्रेष्ठ इदं वचनम् अब्रवीत्
यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः
गच्छेत् तद्वद् गमिष्यामि लङ्कां रावणपालिताम्
न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्
अनेनैव हि वेगेन गमिष्यामि सुरालयम्
यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः
बद्ध्वा राक्षसराजानम् आनयिष्यामि रावणम्
सर्वथा कृतकार्यो ऽहम् एष्यामि सह सीतया
आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम्
एवम् उक्त्वा तु हनुमान् वानरान् वानरोत्तमः
उत्पपाताथ वेगेन वेगवान् अविचारयन्
समुत्पतति तस्मिंस् तु वेगात् ते नगरोहिणः
संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः
स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः
उद्वहन्न् ऊरुवेगेन जगाम विमले ऽम्बरे
ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिम् अन्वयुः
प्रस्थितं दीर्घम् अध्वानं स्वबन्धुम् इव बान्धवाः
तम् ऊरुवेगोन्मथिताः सालाश् चान्ये नगोत्तमाः
अनुजग्मुर् हनूमन्तं सैन्या इव महीपतिम्
सुपुष्पिताग्रैर् बहुभिः पादपैर् अन्वितः कपिः
हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः
सारवन्तो ऽथ ये वृक्षा न्यमज्जंल् लवणाम्भसि
भयाद् इव महेन्द्रस्य पर्वता वरुणालये
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः
शुशुभे मेघसंकाशः खद्योतैर् इव पर्वतः
विमुक्तास् तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः
अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा
लघुत्वेनोपपन्नं तद् विचित्रं सागरे ऽपतत्
द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम्
पुष्पौघेणानुबद्धेन नानावर्णेन वानरः
बभौ मेघ इवोद्यन् वै विद्युद्गणविभूषितः
तस्य वेगसमुद्भूतैः पुष्पैस् तोयम् अदृश्यत
ताराभिर् अभिरामाभिर् उदिताभिर् इवाम्बरम्
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ
पर्वताग्राद् विनिष्क्रान्तौ पञ्चास्याव् इव पन्नगौ
पिबन्न् इव बभौ चापि सोर्मिजालं महार्णवम्
पिपासुर् इव चाकाशं ददृशे स महाकपिः
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः
नयने विप्रकाशेते पर्वतस्थाव् इवानलौ
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले
चक्षुषी संप्रकशेते चन्द्रसूर्याव् इव स्थितौ
मुखं नासिकया तस्य ताम्रया ताम्रम् आबभौ
संध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम्
लाङ्गलं च समाविद्धं प्लवमानस्य शोभते
अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः
लाङ्गूलचक्रेण महाञ् शुक्लदंष्ट्रो ऽनिलात्मजः
व्यरोचत महाप्राज्ञः परिवेषीव भास्करः
स्फिग्देशेनाभिताम्रेण रराज स महाकपिः
महता दारितेनेव गिरिर् गैरिकधातुना
तस्य वानरसिंहस्य प्लवमानस्य सागरम्
कक्षान्तरगतो वायुर् जीमूत इव गर्जति
खे यथा निपतत्य् उल्का उत्तरान्ताद् विनिःसृता
दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः
पतत्पतंगसंकाशो व्यायतः शुशुभे कपिः
प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया
उपरिष्टाच् छरीरेण छायया चावगाढया
सागरे मारुताविष्टा नौर् इवासीत् तदा कपिः
यं यं देशं समुद्रस्य जगाम स महाकपिः
स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते
सागरस्योर्मिजालानाम् उरसा शैलवर्ष्मणाम्
अभिघ्नंस् तु महावेगः पुप्लुवे स महाकपिः
कपिवातश् च बलवान् मेघवातश् च निःसृतः
सागरं भीमनिर्घोषं कम्पयाम् आसतुर् भृशम्
विकर्षन्न् ऊर्मिजालानि बृहन्ति लवणाम्भसि
अत्यक्रामन् महावेगस् तरङ्गान् गणयन्न् इव
प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः
व्योम्नि तं कपिशार्दूलं सुपर्णम् इति मेनिरे
दशयोजनविस्तीर्णा त्रिंशद्योजनम् आयता
छाया वानरसिंहस्य जले चारुतराभवत्
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी
तस्य सा शुशुभे छाया वितता लवणाम्भसि
प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा
ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः
तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम्
सिषेवे च तदा वायू रामकार्यार्थसिद्धये
ऋषयस् तुष्टुवुश् चैनं प्लवमानं विहायसा
जगुश् च देवगन्धर्वाः प्रशंसन्तो महौजसं
नागाश् च तुष्टुवुर् यक्षा रक्षांसि विबुधाः खगाः
प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम्
तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति
इक्ष्वाकुकुलमानार्थी चिन्तयाम् आस सागरः
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः
करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्
अहम् इक्ष्वाकुनाथेन सगरेण विवर्धितः
इक्ष्वाकुसचिवश् चायं नावसीदितुम् अर्हति
तथा मया विधातव्यं विश्रमेत यथा कपिः
शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति
इति कृत्वा मतिं साध्वीं समुद्रश् छन्नम् अम्भसि
हिरण्यनाभं मैनाकम् उवाच गिरिसत्तमम्
त्वम् इहासुरसंघानां पातालतलवासिनाम्
देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः
त्वम् एषां ज्ञातवीर्याणां पुनर् एवोत्पतिष्यताम्
पातालस्याप्रमेयस्य द्वारम् आवृत्य तिष्ठसि
तिर्यग् ऊर्ध्वम् अधश् चैव शक्तिस् ते शैलवर्धितुम्
तस्मात् संचोदयामि त्वाम् उत्तिष्ठ नगसत्तम
स एष कपिशार्दूलस् त्वाम् उपर्येति वीर्यवान्
हनूमान् रामकार्यार्थं भीमकर्मा खम् आप्लुतः
तस्य साह्यं मया कार्यम् इक्ष्वाकुकुलवर्तिनः
मम इक्ष्वाकवः पूज्याः परं पूज्यतमास् तव
कुरु साचिव्यम् अस्माकं न नः कार्यम् अतिक्रमेत्
कर्तव्यम् अकृतं कार्यं सतां मन्युम् उदीरयेत्
सलिलाद् ऊर्ध्वम् उत्तिष्ठ तिष्ठत्व् एष कपिस् त्वयि
अस्माकम् अतिथिश् चैव पूज्यश् च प्लवतां वरः
चामीकरमहानाभ देवगन्धर्वसेवित
हनूमांस् त्वयि विश्रान्तस् ततः शेषं गमिष्यति
काकुत्स्थस्यानृशंस्यं च मैथिल्याश् च विवासनम्
श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुम् अर्हसि
हिरण्यनाभो मैनाको निशम्य लवणाम्भसः
उत्पपात जलात् तूर्णं महाद्रुमलतायुतः
स सागरजलं भित्त्वा बभूवात्युत्थितस् तदा
यथा जलधरं भित्त्वा दीप्तरश्मिर् दिवाकरः
शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः
आदित्योदयसंकाशैर् आलिखद्भिर् इवाम्बरम्
तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः
आकाशं शस्त्रसंकाशम् अभवत् काञ्चनप्रभम्
जातरूपमयैः शृङ्गैर् भ्राजमानैः स्वयं प्रभैः
आदित्यशतसंकाशः सो ऽभवद् गिरिसत्तमः
तम् उत्थितम् असंगेन हनूमान् अग्रतः स्थितम्
मध्ये लवणतोयस्य विघ्नो ऽयम् इति निश्चितः
स तम् उच्छ्रितम् अत्यर्थं महावेगो महाकपिः
उरसा पातयाम् आस जीमूतम् इव मारुतः
स तदा पातितस् तेन कपिना पर्वतोत्तमः
बुद्ध्वा तस्य कपेर् वेगं जहर्ष च ननन्द च
तम् आकाशगतं वीरम् आकाशे समवस्थितम्
प्रीतो हृष्टमना वाक्यम् अब्रवीत् पर्वतः कपिम्
मानुषं धरयन् रूपम् आत्मनः शिखरे स्थितः
दुष्करं कृतवान् कर्म त्वम् इदं वानरोत्तम
निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम्
राघावस्य कुले जातैर् उदधिः परिवर्धितः
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः
कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः
सो ऽयं तत् प्रतिकारार्थी त्वत्तः संमानम् अर्हति
त्वन्निमित्तम् अनेनाहं बहुमानात् प्रचोदितः
योजनानां शतं चापि कपिर् एष समाप्लुतः
तव सानुषु विश्रान्तः शेषं प्रक्रमताम् इति
तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम्
तद् इदं गन्धवत् स्वादु कन्दमूलफलं बहु
तद् आस्वाद्य हरिश्रेष्ठ विश्रान्तो ऽनुगमिष्यसि
अस्माकम् अपि संबन्धः कपिमुख्यस् त्वयास्ति वै
प्रख्यातस् त्रिषु लोकेषु महागुणपरिग्रहः
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज
तेषां मुख्यतमं मन्ये त्वाम् अहं कपिकुञ्जर
अतिथिः किल पूजार्हः प्राकृतो ऽपि विजानता
धर्मं जिज्ञासमानेन किं पुनर् यादृशो भवान्
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः
पुत्रस् तस्यैव वेगेन सदृशः कपिकुञ्जर
पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः
तस्मात् त्वं पूजनीयो मे शृणु चाप्य् अत्र कारणम्
पूर्वं कृतयुगे तात पर्वताः पक्षिणो ऽभवन्
ते ऽपि जग्मुर् दिशः सर्वा गरुडानिलवेगिनः
ततस् तेषु प्रयातेषु देवसंघाः सहर्षिभिः
भूतानि च भयं जग्मुस् तेषां पतनशङ्कया
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः
पक्षांश् चिच्छेद वज्रेण तत्र तत्र सहस्रशः
स माम् उपगतः क्रुद्धो वज्रम् उद्यम्य देवराट्
ततो ऽहं सहसा क्षिप्तः श्वसनेन महात्मना
अस्मिंल् लवणतोये च प्रक्षिप्तः प्लवगोत्तम
गुप्तपक्षः समग्रश् च तव पित्राभिरक्षितः
ततो ऽहं मानयामि त्वां मान्यो हि मम मारुतः
त्वया मे ह्य् एष संबन्धः कपिमुख्य महागुणः
अस्मिन्न् एवंगते कार्ये सागरस्य ममैव च
प्रीतिं प्रीतमना कर्तुं त्वम् अर्हसि महाकपे
श्रमं मोक्षय पूजां च गृहाण कपिसत्तम
प्रीतिं च बहुमन्यस्व प्रीतो ऽस्मि तव दर्शनात्
एवम् उक्तः कपिश्रेष्ठस् तं नगोत्तमम् अब्रवीत्
प्रीतो ऽस्मि कृतम् आतिथ्यं मन्युर् एषो ऽपनीयताम्
त्वरते कार्यकालो मे अहश् चाप्य् अतिवर्तते
प्रतिज्ञा च मया दत्ता न स्थातव्यम् इहान्तरा
इत्य् उक्त्वा पाणिना शैलम् आलभ्य हरिपुंगवः
जगामाकाशम् आविश्य वीर्यवान् प्रहसन्न् इव
स पर्वतसमुद्राभ्यां बहुमानाद् अवेक्षितः
पूजितश् चोपपन्नाभिर् आशीर्भिर् अनिलात्मजः
अथोर्ध्वं दूरम् उत्पत्य हित्वा शैलमहार्णवौ
पितुः पन्थानम् आस्थाय जगाम विमले ऽम्बरे
भूयश् चोर्ध्वगतिं प्राप्य गिरिं तम् अवलोकयन्
वायुसूनुर् निरालम्बे जगाम विमले ऽम्बरे
तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्
प्रशशंसुः सुराः सर्वे सिद्धाश् च परमर्षयः
देवताश् चाभवन् हृष्टास् तत्रस्थास् तस्य कर्मणा
काञ्चनस्य सुनाभस्य सहस्राक्षश् च वासवः
उवाच वचनं धीमान् परितोषात् सगद्गदम्
सुनाभं पर्वतश्रेष्ठं स्वयम् एव शचीपतिः
हिरण्यनाभशैलेन्द्रपरितुष्टो ऽस्मि ते भृशम्
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम्
साह्यं कृतं ते सुमहद् विक्रान्तस्य हनूमतः
क्रमतो योजनशतं निर्भयस्य भये सति
रामस्यैष हि दौत्येन याति दाशरथेर् हरिः
सत्क्रियां कुर्वता शक्या तोषितो ऽस्मि दृढं त्वया
ततः प्रहर्षम् अलभद् विपुलं पर्वतोत्तमः
देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्
स वै दत्तवरः शैलो बभूवावस्थितस् तदा
हनूमांश् च मुहूर्तेन व्यतिचक्राम सागरम्
ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः
अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम्
अयं वातात्मजः श्रीमान् प्लवते सागरोपरि
हनूमान् नाम तस्य त्वं मुहूर्तं विघ्नम् आचर
राक्षसं रूपम् आस्थाय सुघोरं पर्वतोपमम्
दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम्
बलम् इच्छामहे ज्ञातुं भूयश् चास्य पराक्रमम्
त्वां विजेष्यत्य् उपायेन विषदं वा गमिष्यति
एवम् उक्ता तु सा देवी दैवतैर् अभिसत्कृता
समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः
विकृतं च विरूपं च सर्वस्य च भयावहम्
प्लवमानं हनूमन्तम् आवृत्येदम् उवाच ह
मम भक्षः प्रदिष्टस् त्वम् ईश्वरैर् वानरर्षभ
अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्
एवम् उक्तः सुरसया प्राञ्जलिर् वानरर्षभः
प्रहृष्टवदनः श्रीमान् इदं वचनम् अब्रवीत्
रामो दाशरथिर् नाम प्रविष्टो दण्डकावनम्
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया
अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः
तस्य सीता हृता भार्या रावणेन यशस्विनी
तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात्
कर्तुम् अर्हसि रामस्य साह्यं विषयवासिनि
अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते
एवम् उक्ता हनुमता सुरसा कामरूपिणी
अब्रवीन् नातिवर्तेन् मां कश् चिद् एष वरो मम
एवम् उक्तः सुरसया क्रुद्धो वानरपुंगवः
अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसे
इत्य् उक्त्वा सुरसां क्रुद्धो दशयोजनम् आयतः
दशयोजनविस्तारो बभूव हनुमांस् तदा
तं दृष्ट्वा मेघसंकाशं दशयोजनम् आयतम्
चकार सुरसाप्य् आस्यं विंशद्योजनम् आयतम्
हनुमांस् तु ततः क्रुद्धस् त्रिंशद्योजनम् आयतः
चकार सुरसा वक्त्रं चत्वारिंशत् तथोच्छ्रितम्
बभूव हनुमान् वीरः पञ्चाशद्योजनोच्छ्रितः
चकार सुरसा वक्त्रं षष्टियोजनम् आयतम्
तथैव हनुमान् वीरः सप्ततिं योजनोच्छ्रितः
चकार सुरसा वक्त्रम् अशीतिं योजनायतम्
हनूमान् अचल प्रख्यो नवतिं योजनोच्छ्रितः
चकार सुरसा वक्त्रं शतयोजनम् आयतम्
तद् दृष्ट्वा व्यादितं त्व् आस्यं वायुपुत्रः स बुद्धिमान्
दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्
स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः
तस्मिन् मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः
सो ऽभिपत्याशु तद् वक्त्रं निष्पत्य च महाजवः
अन्तरिक्षे स्थितः श्रीमान् इदं वचनम् अब्रवीत्
प्रविष्टो ऽस्मि हि ते वक्त्रं दाक्षायणि नमो ऽस्तु ते
गमिष्ये यत्र वैदेही सत्यं चास्तु वचस् तव
तं दृष्ट्वा वदनान् मुक्तं चन्द्रं राहुमुखाद् इव
अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम्
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्
समानय च वैदेहीं राघवेण महात्मना
तत् तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्
साधु साध्व् इति भूतानि प्रशशंसुस् तदा हरिम्
स सागरम् अनाधृष्यम् अभ्येत्य वरुणालयम्
जगामाकाशम् आविश्य वेगेन गरुणोपमः
सेविते वारिधारिभिः पतगैश् च निषेविते
चरिते कैशिकाचार्यैर् ऐरावतनिषेविते
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः
विमानैः संपतद्भिश् च विमलैः समलंकृते
वज्राशनिसमाघातैः पावकैर् उपशोभिते
कृतपुण्यैर् महाभागैः स्वर्गजिद्भिर् अलंकृते
बहता हव्यम् अत्यन्तं सेविते चित्रभानुना
ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते
महर्षिगणगन्धर्वनागयक्षसमाकुले
विविक्ते विमले विश्वे विश्वावसुनिषेविते
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे
विताने जीवलोकस्य विततो ब्रह्मनिर्मिते
बहुशः सेविते वीरैर् विद्याधरगणैर् वरैः
कपिना कृष्यमाणानि महाभ्राणि चकाशिरे
प्रविशन्न् अभ्रजालानि निष्पतंश् च पुनः पुनः
प्रावृषीन्दुर् इवाभाति निष्पतन् प्रविशंस् तदा
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी
मनसा चिन्तयाम् आस प्रवृद्धा कामरूपिणी
अद्य दीर्घस्य कालस्य भविष्याम्य् अहम् आशिता
इदं हि मे महत् सत्त्वं चिरस्य वशम् आगतम्
इति संचिन्त्य मनसा छायाम् अस्य समक्षिपत्
छायायां संगृहीतायां चिन्तयाम् आस वानरः
समाक्षिप्तो ऽस्मि सहसा पङ्गूकृतपराक्रमः
प्रतिलोमेन वातेन महानौर् इव सागरे
तिर्यग् ऊर्ध्वम् अधश् चैव वीक्षमाणस् ततः कपिः
ददर्श स महासत्त्वम् उत्थितं लवणाम्भसि
कपिराज्ञा यद् आख्यातं सत्त्वम् अद्भुतदर्शनम्
छायाग्राहि महावीर्यं तद् इदं नात्र संशयः
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः
व्यवर्धत महाकायः प्रावृषीव बलाहकः
तस्य सा कायम् उद्वीक्ष्य वर्धमानं महाकपेः
वक्त्रं प्रसारयाम् आस पातालाम्बरसंनिभम्
स ददर्श ततस् तस्या विकृतं सुमहन् मुखम्
कायमात्रं च मेधावी मर्माणि च महाकपिः
स तस्या विवृते वक्त्रे वज्रसंहननः कपिः
संक्षिप्य मुहुर् आत्मानं निष्पपात महाबलः
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा
ततस् तस्य नखैस् तीक्ष्णैर् मर्माण्य् उत्कृत्य वानरः
उत्पपाताथ वेगेन मनःसंपातविक्रमः
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्
भूतान्य् आकाशचारीणि तम् ऊचुः प्लवगर्षभम्
भीमम् अद्य कृतं कर्म महत् सत्त्वं त्वया हतम्
साधयार्थम् अभिप्रेतम् अरिष्टं प्लवतां वर
यस्य त्व् एतानि चत्वारि वानरेन्द्र यथा तव
धृतिर् दृष्टिर् मतिर् दाक्ष्यं स कर्मसु न सीदति
स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः
जगामाकाशम् आविश्य पन्नगाशनवत् कपिः
प्राप्तभूयिष्ठ पारस् तु सर्वतः प्रतिलोकयन्
योजनानां शतस्यान्ते वनराजिं ददर्श सः
ददर्श च पतन्न् एव विविधद्रुमभूषितम्
द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च
सागरं सागरानूपान् सागरानूपजान् द्रुमान्
सागरस्य च पत्नीनां मुखान्य् अपि विलोकयन्
स महामेघसंकाशं समीक्ष्यात्मानम् आत्मना
निरुन्धन्तम् इवाकाशं चकार मतिमान् मतिम्
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः
मयि कौतूहलं कुर्युर् इति मेने महाकपिः
ततः शरीरं संक्षिप्य तन् महीधरसंनिभम्
पुनः प्रकृतिम् आपेदे वीतमोह इवात्मवान्
स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम्
परैर् अशक्यप्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः
ततः स लम्बस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे
सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा
स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम्
निपत्य तीरे च महोदधेस् तदा ददर्श लङ्काम् अमरावतीम् इव
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0