रामायण · अध्याय 5.002
स सागरम् अनाधृष्यम् अतिक्रम्य महाबलः
त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्
अभिवृष्टः स्थितस् तत्र बभौ पुष्पमयो यथा
योजनानां शतं श्रीमांस् तीर्त्वाप्य् उत्तमविक्रमः
अनिश्वसन् कपिस् तत्र न ग्लानिम् अधिगच्छति
शतान्य् अहं योजनानां क्रमेयं सुबहून्य् अपि
किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्
स तु वीर्यवतां श्रेष्ठः प्लवताम् अपि चोत्तमः
जगाम वेगवांल् लङ्कां लङ्घयित्वा महोदधिम्
शाद्वलानि च नीलानि गन्धवन्ति वनानि च
गण्डवन्ति च मध्येन जगाम नगवन्ति च
शैलांश् च तरुसंछन्नान् वनराजीश् च पुष्पिताः
अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः
स तस्मिन्न् अचले तिष्ठन् वनान्य् उपवनानि च
स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः
सरलान् कर्णिकारांश् च खर्जूरांश् च सुपुष्पितान्
प्रियालान् मुचुलिन्दांश् च कुटजान् केतकान् अपि
प्रियङ्गून् गन्धपूर्णांश् च नीपान् सप्तच्छदांस् तथा
असनान् कोविदारांश् च करवीरांश् च पुष्पितान्
पुष्पभारनिबद्धांश् च तथा मुकुलितान् अपि
पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्
हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः
आक्रीडान् विविधान् रम्यान् विविधांश् च जलाशयान्
संततान् विविधैर् वृक्षैः सर्वर्तुफलपुष्पितैः
उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः
समासाद्य च लक्ष्मीवांल् लङ्कां रावणपालिताम्
परिखाभिः सपद्माभिः सोत्पलाभिर् अलंकृताम्
सीतापहरणार्थेन रावणेन सुरक्षिताम्
समन्ताद् विचरद्भिश् च राक्षसैर् उग्रधन्विभिः
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्
अट्टालकशताकीर्णां पताकाध्वजमालिनीम्
तोरणैः काञ्चनैर् दिव्यैर् लतापङ्क्तिविचित्रितैः
ददर्श हनुमांल् लङ्कां दिवि देवपुरीम् इव
गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर् भवनैः शुभैः
ददर्श स कपिः श्रीमान् पुरम् आकाशगं यथा
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा
प्लवमानाम् इवाकाशे ददर्श हनुमान् पुरीम्
संपूर्णां राक्षसैर् घोरैर् नागैर् भोगवतीम् इव
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा
दंष्ट्रिभिर् बहुभिः शूरैः शूलपट्टिशपाणिभिः
रक्षितां राक्षसैर् घोरैर् गुहाम् आशीविषैर् अपि
वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम्
शतघ्नीशूलकेशान्ताम् अट्टालकवतंसकाम्
द्वारम् उत्तरम् आसाद्य चिन्तयाम् आस वानरः
कैलासशिखरप्रख्यम् आलिखन्तम् इवाम्बरम्
ध्रियमाणम् इवाकाशम् उच्छ्रितैर् भवनोत्तमैः
तस्याश् च महतीं गुप्तिं सागरं च निरीक्ष्य सः
रावणं च रिपुं घोरं चिन्तयाम् आस वानरः
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः
न हि युद्धेन वै लङ्का शक्या जेतुं सुरैर् अपि
इमां तु विषमां दुर्गां लङ्कां रावणपालिताम्
प्राप्यापि स महाबाहुः किं करिष्यति राघवः
अवकाशो न सान्त्वस्य राक्षसेष्व् अभिगम्यते
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते
चतुर्णाम् एव हि गतिर् वानराणां महात्मनाम्
वालिपुत्रस्य नीलस्य मम राज्ञश् च धीमतः
यावज् जानामि वैदेहीं यदि जीवति वा न वा
तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्
ततः स चिन्तयाम् आस मुहूर्तं कपिकुञ्जरः
गिरिशृङ्गे स्थितस् तस्मिन् रामस्याभ्युदये रतः
अनेन रूपेण मया न शक्या रक्षसां पुरी
प्रवेष्टुं राक्षसैर् गुप्ता क्रूरैर् बलसमन्वितैः
उग्रौजसो महावीर्यो बलवन्तश् च राक्षसाः
वञ्चनीया मया सर्वे जानकीं परिमार्गिता
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया
प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत्
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः
हनूमांश् चिन्तयाम् आस विनिःश्वस्य मुहुर् मुहुः
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्
अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना
न विनश्येत् कथं कार्यं रामस्य विदितात्मनः
एकाम् एकश् च पश्येयं रहिते जनकात्मजाम्
भूताश् चार्थो विपद्यन्ते देशकालविरोधिताः
विक्लवं दूतम् आसाद्य तमः सूर्योदये यथा
अर्थानर्थान्तरे बुद्धिर् निश्चितापि न शोभते
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत्
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः
भवेद् व्यर्थम् इदं कार्यं रावणानर्थम् इच्छतः
न हि शक्यं क्व चित् स्थातुम् अविज्ञातेन राक्षसैः
अपि राक्षसरूपेण किम् उतान्येन केन चित्
वायुर् अप्य् अत्र नाज्ञातश् चरेद् इति मतिर् मम
न ह्य् अस्त्य् अविदितं किं चिद् राक्षसानां बलीयसाम्
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः
विनाशम् उपयास्यामि भर्तुर् अर्थश् च हीयते
तद् अहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः
लङ्काम् अभिपतिष्यामि राघवस्यार्थसिद्धये
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्
विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्
इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः
आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः
पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः
प्रदोषकाले हनुमांस् तूर्णम् उत्पत्य वीर्यवान्
प्रविवेश पुरीं रम्यां सुविभक्तमहापथम्
प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः
शातकुम्भमयैर् जालैर् गन्धर्वनगरोपमाम्
सप्तभौमाष्टभौमैश् च स ददर्श महापुरीम्
तलैः स्फाटिकसंपूर्णैः कार्तस्वरविभूषितैः
वैदूर्यमणिचित्रैश् च मुक्ताजालविभूषितैः
तलैः शुशुभिरे तानि भवनान्य् अत्र रक्षसाम्
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्
लङ्काम् उद्द्योतयाम् आसुः सर्वतः समलंकृताम्
अचिन्त्याम् अद्भुताकारां दृष्ट्वा लङ्कां महाकपिः
आसीद् विषण्णो हृष्टश् च वैदेह्या दर्शनोत्सुकः
स पाण्डुरोद्विद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम्
यशस्विनां रावणबाहुपालितां क्षपाचरैर् भीमबलैः समावृताम्
चन्द्रो ऽपि साचिव्यम् इवास्य कुर्वंस् तारागणैर् मध्यगतो विराजन्
ज्योत्स्नावितानेन वितत्य लोकम् उत्तिष्ठते नैकसहस्ररश्मिः
शङ्खप्रभं क्षीरमृणालवर्णम् उद्गच्छमानं व्यवभासमानम्
ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसं
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0