रामायण · अध्याय 4.054
श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम्
स्वामिसत्कारसंयुक्तम् अङ्गदो वाक्यम् अब्रवीत्
स्थैर्यं सर्वात्मना शौचम् आनृशंस्यम् अथार्जवम्
विक्रमैश् चैव धैर्यं च सुग्रीवे नोपपद्यते
भ्रातुर् ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम्
धर्मेण मातरं यस् तु स्वीकरोति जुगुप्सितः
कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना
युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्
सत्यात् पाणिगृहीतश् च कृतकर्मा महायशाः
विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत्
लक्ष्मणस्य भयाद् येन नाधर्मभयभीरुणा
आदिष्टा मार्गितुं सीतां धर्मम् अस्मिन् कथं भवेत्
तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि
आर्यः को विश्वसेज् जातु तत् कुलीनो जिजीविषुः
राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणो ऽपि वा
कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति
भिन्नमन्त्रो ऽपराद्धश् च हीनशक्तिः कथं ह्य् अहम्
किष्किन्धां प्राप्य जीवेयम् अनाथ इव दुर्बलः
उपांशुदण्डेन हि मां बन्धनेनोपपादयेत्
शठः क्रूरो नृशंसश् च सुग्रीवो राज्यकारणात्
बन्धनाच् चावसादान् मे श्रेयः प्रायोपवेशनम्
अनुजानीत मां सर्वे गृहान् गच्छन्तु वानराः
अहं वः प्रतिजानामि न गमिष्याम्य् अहं पुरीम्
इहैव प्रायम् आसिष्ये श्रेयो मरणम् एव मे
अभिवादनपूर्वं तु राजा कुशलम् एव च
वाच्यस् ततो यवीयान् मे सुग्रीवो वानरेश्वरः
आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे
मातरं चैव मे ताराम् आश्वासयितुम् अर्हथ
प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी
विनष्टं माम् इह श्रुत्वा व्यक्तं हास्यति जीवितम्
एतावद् उक्त्वा वचनं वृद्धान् अप्य् अभिवाद्य च
संविवेशाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः
तस्य संविशतस् तत्र रुदन्तो वानरर्षभाः
नयनेभ्यः प्रमुमुचुर् उष्णं वै वारिदुःखिताः
सुग्रीवं चैव निन्दन्तः प्रशंसन्तश् च वालिनम्
परिवार्याङ्गदो सर्वे व्यवस्यन् प्रायम् आसितुम्
मतं तद् वालिपुत्रस्य विज्ञाय प्लवगर्षभाः
उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन्
दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः
स संविशद्भिर् बहुभिर् महीधरो महाद्रिकूटप्रमितैः प्लवंगमैः
बभूव संनादितनिर्झरान्तरो भृशं नदद्भिर् जलदैर् इवोल्बणैः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0